| YouTube Channel

पञ्चतत्त्वं (paJcatattvaM)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चतत्त्वं,
क्ली,
(पञ्चानां तत्त्वानां समाहारः ।)पञ्चभूतम् इति स्वरोदयः
पञ्चमकारः मद्य-मांसमत्स्यमुद्रामैथुनरूपम् यथा, --“मद्यं मांसं तथा मत्स्यं मुद्रां मैथुनमेव ।पञ्चतत्त्वमिदं देवि ! निर्व्वाणमुक्तिहेतवे
मकारपञ्चकं देवि ! देवानामपि दुर्लभम्
”इति कैवल्यतन्त्रे प्रथमपटलः
वैष्णवानां यथा, --“तत्त्वज्ञानमिदं प्रोक्तं वैष्णवे शृणु यत्नतः ।गुरुतत्त्वं मन्त्रतत्त्वं मनस्तौत्त्वं सुरेश्वरि !
देवतत्त्वं ध्यानतत्त्वं पञ्चतत्त्वं वरानने ! ।तत्रादौ श्रीगुरोस्तत्त्वं स्नेहाद्वक्ष्यामि पार्व्वति !
सतैलं वर्त्तिकायुक्तं देहस्थं ब्रह्मतेजसम् ।गुरुणा मन्त्रदानेन तत्सूत्रं दीपितं भवेत्
देवतायाः शरीरं हि मन्त्रादुत्पद्यते ध्रुवम् ।अत एव हि तस्यात्मा देवरूपो संशयः
ईश्वरस्य तु यद्बीर्य्यं तदेव अक्षयात्मकम् ।तेन वर्णात्मकं देहं जन्तोरेव संशयः
मन्त्रवर्णे सर्व्ववर्णमयास्ते परमेश्वरि ! ।वर्णतत्त्वमिदं देवि ! सर्व्वस्वं मम यद्भवेत्
स्वयं देवो चान्योऽस्मि निर्म्मलो देवरूपकः ।सर्व्वत्र देवतां ध्यायेत् तृणगुल्मलतादिषु
ध्यानेन लभते सर्व्वं ध्यानेन विष्णुरूपकः ।ध्यानेन सिद्धिमाप्नोति विना ध्यानं सिध्यति
इति ते कथितं तत्त्वं वैष्णवस्य सुरेश्वरि ! ।यज्ज्ञानादमरत्वञ्च विष्णुरूपो भवेन्नरः
ते नरा नहि गच्छन्ति कदाचिद्यममन्दिरम्
”इति निर्व्वाणतन्त्रे १२ पटलः