| YouTube Channel

पञ्चजीरकगुड (paJcajIrakaguDa)

 
वाचस्पत्यम्
Sanskrit
पञ्चजीरकगुड
पु०
चक्रदत्तोक्ते जीरकादिभिः पक्वे गुडभेदे“जीरकं हवुषा धान्यं शताह्वा सुरदारु यमानोत्र्यष्टको हिङ्गुपत्रिका कासमर्दकम् पिप्पली पिप्पलीमूलमजुमोदाथ वाष्पिका चित्रकञ्च पलांशानि तथान्यच्चचतुःपलम् कशेरुकं नागरञ्च कुष्ठं दीप्यकमेव ।गुडस्य शतं दद्यात् घृतप्रस्थं तथैव क्षीरद्विप्रस्थ-संयुक्तं शनैर्मृद्वग्निना पचेत् पञ्चजीरक इत्येषसूतिकानां प्रशस्यते गर्भार्थिनीनां नारीणां वृंहणीयेसमारुते विंशतिं व्यापदो योनेः कासं श्वासं ज्वरंक्षयम् हलीसकं पाण्डुरोगं दौर्गन्ध्यं बहुमूत्रताम् ।हन्ति पीनोन्नतकुचाः पद्मपत्रावतेक्षणाः उपयोगात्स्त्रियोनिन्यमलक्ष्मीर्मलवर्जिताः”