| YouTube Channel

पञ्चकोषाः (paJcakoSAH)

 
Apte Hindi
Hindi
पञ्चकोषाः
पुं*
पञ्चन्-कोषाः -
पाँच प्रकार परिधान
शब्दकल्पद्रुमः
Sanskrit
पञ्चकोषाः,
पुं,
(पञ्च ते कोषाश्चेति ।) कोषाइवात्माच्छादकत्वेन कोषाः ते पञ्चविधाः ।यथा अन्नविकारत्वात् स्थूलशरीरं अन्नमय-कोषः
पञ्चकर्म्मेन्द्रियसहितप्राणपञ्चकं प्राण-मयकोषः
पञ्चज्ञानेन्द्रियसहितं मनः मनो-मयकोषः
पञ्चज्ञानेन्द्रियसहिता बुद्धिःविज्ञानमयकोषः
अहङ्कारात्मकोऽविद्या-त्मको वा आनन्दमयकोषः
इति शिव-गीतामतम्
*
अपि ।“पितृभुक्तान्नजाद्वीर्य्याज्जातोऽन्नेनैव वद्धते ।देहः सोऽन्नमयो नात्मा प्राक् चोर्द्ध्वं तदभावतः
”इत्यन्नमयकोषः
“पूर्णो देहे वलं यच्छन्नक्षाणां यः प्रवर्त्तकः ।वायुः प्राणमयो नासावात्मा चैतन्यवर्ज्जनात्
”इति प्राणमयकोषः
“अहन्तां ममतां देहे गृहादौ करोति यः ।कामाद्यवस्थया भ्रान्तो नासावात्मा मनोमयः
”इति मनोमयकोषः
“लीना सुप्तौ वपुर्बोधे व्याप्नुयादानखाग्रगा ।चिच्छायोपेतधीर्नात्मा विज्ञानमयशब्दभाक्
”इति विज्ञानमयकोषः
“काचिदन्तर्मुखावृत्तिरानन्दप्रतिविम्बभाक् ।पुण्यभोगे भोगशान्तौ निद्रारूपेण लीयते
कादाचित्कत्वतो नात्मा स्यादानन्दमयोऽप्ययम्
”इत्यानन्दमयकोषः
इति पञ्चदशी