| YouTube Channel

पञ्चकोष (paJcakoSa)

 
वाचस्पत्यम्
Sanskrit
पञ्चकोष
पु०
संज्ञात्वात् कर्म० वेदान्तिकसिद्धे अन्नमयादिषुपञ्चसु कोषवदाच्छादकेषु देहादिषु तेषां स्वरूपादिकञ्चविवेकचूडामणौ दर्शितं यथा “कोषैरन्नमयाद्यैः पञ्चभिरात्मान संवृतो भाति निजशक्तिसमुत्पन्नैः शैवालपटलैरिवाम्बुवापीस्थम्” इत्युपक्तमे “देहोऽयमन्नभवनोऽन्नमयस्तु कोप-श्चान्नेन जीवति विनश्यति तद्विहीनः त्वक्चर्मर्मांस-रुधिरास्थिपुरीषराशिर्नायं स्वयं भवितुमर्हति नित्य-शुद्धः” “कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं प्राणो भवेत्प्राणमयस्तु कोषः” “ज्ञानेन्द्रियाणि मनश्च मनोमयःस्यात् कोषो ममाहमिति वस्तुविकल्पहेतुः संज्ञादिभेद-कलनाकलितो बलीयांस्तत्पूर्वकोषमभिपूर्य विजृम्भते यः ।पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः प्रचीयमानो विषयाज्य-धारया जाज्वल्यमानो बहुवासनेन्धनैर्मनोमयाग्निर्दहतिप्रपञ्चम्” “बुद्धिर्बुद्धीन्द्रियैः सार्द्धं सवृत्तिः कर्तृलक्षणः ।विज्ञानमयकोषः स्यात् पुंसः संसारकारणम् अनुव्रज-च्चित्प्रतिवि म्बशक्तिर्विज्ञानसंज्ञः प्रकृतेर्विकारः ज्ञान-क्रियावानहमित्यजस्रं देहेन्द्रियादिष्वभिमन्यते भृशम्”आनन्दमयकोषस्तु आनन्दमयकोषशब्दे ७२६ पृ०उक्तः