| YouTube Channel

पञ्चकोलं (paJcakolaM)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चकोलं,
क्ली,
पाचनविशेषः यथा, --“पञ्चकोलं कणामूलं कृष्णाचव्याग्निनागरैः ।”इति शब्दचन्द्रिका
अस्य गुणाः ।“पञ्चकोलं रसे पाके कटुकं रुचिकृन्मतम् ।तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत् ।गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम्
”इति भावप्रकाशः
अपि ।“पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् ।दीपनीयः शृतो वर्गः कफानिलगदापहः
”इति चक्रपाणिदत्तः
(पञ्चकोलघृतमुक्तं चरकेचिकित्सितस्थाने १८ अध्याये ।“पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ।सक्षारैरर्द्धपलिकैर्द्विः प्रस्थं सर्पिषः पचेत्
कल्कैर्द्बिपञ्चमूलस्य तुलार्द्धस्य रसेन ।दधिमण्डातकोपेतं तत्सर्पिर्जठरापहम् ।श्वयथुं वातविष्टम्भं गुल्मार्शांसि नाशयेत्
”)