| YouTube Channel

पञ्चकं (paJcakaM)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चकं, त्रि, (पञ्चैव इति स्वार्थे कन् ।) पञ्च ।यथा, भाषापरिच्छेदे ३३ “संख्यादि-पञ्चकं कालदिशोः शब्दश्च ते खे ।” इति
(पञ्च संख्यापरिमाणमस्य “तदस्य परि-माणम् ।” ५७ इत्यनुवृत्तौ “संख्यायाःसंज्ञा संङ्घसूत्राध्ययनेषु ।” ५८ इतिपञ्चसङ्ख्यापरिमिति संघार्थे कन् प्रत्ययः धनि-ष्ठादि पञ्चनक्षत्रम् यथाह चिन्तामणिः ।“अग्निचौरभयं रोगो राजपीडा धनक्षतिः ।संग्रहे तृणकाष्ठानां कृते वस्वादिपञ्चके
”पञ्चभिः क्रीतम् “संख्याया अतिशदन्तायाःकन् ।” १२ इति कन् पञ्चभिः क्रीतेद्रव्यविशेषे
)