| YouTube Channel

पचि (paci)

 
शब्दसागरः
English
पचि
m.
(-चिः)
1. Fire.
2. Cooking, maturing.
E.
पच् to be cooked,
(by it, ) इन् Unādi
aff.
Yates
English
पचि (चिः) 2.
m.
Fire
cooking.
Wilson
English
पचि
m.
(-चिः)
1 Fire.
2 Cooking, maturing.
E.
पच to be cooked, (by it, ) इन् Uṇādi
aff.
Apte
English
पचिः [paciḥ], 1 Fire.
Cooking
&c.
Apte 1890
English
पचिः 1 Fire.
2 Cooking &c.
Monier Williams Cologne
English
पचि
m.
fire,
L.
cooking, maturing,
L.
Monier Williams 1872
English
पचि, इस्, m. fire
cooking, maturing.
Apte Hindi
Hindi
पचिः
पुं*
- पच् + इन्
अग्नि
Shabdartha Kaustubha
Kannada
पचि
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅಗ್ನಿ/ಬೆಂಕಿ
निष्पत्तिः - > डुपचष्(पाके) "इन्" (उ० ४-११७)
विस्तारः - > "बुभुक्षेच्छाशनाया क्षुज्जिघत्साशिशिषा पचिः" वैज०
पचि
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹಸಿವು
L R Vaidya
English
paci {% m. %} Fire.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
पञ्च्
मूलधातुः:
पचि
धात्वर्थः:
व्यक्तीकरणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
पञ्चते
धातुः:
पञ्च्
मूलधातुः:
पचि
धात्वर्थः:
विस्तारवचने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
प्रपञ्चयति-ते
धातुप्रदीपः
Sanskrit
पचिँ पचि व्यक्तीकरणे
- पञ्चते पङ्कः बहुलवचनात् कनिन् षङ्भ्यो लुक् (7/1/22) पञ्च पञ्चमः पञ्चक इति संख्याया अतिशदन्तायाः कन् (8/1/22) पङ्क्तिविंशति (5/1/59) इति निपातनात्-पङ् क्तिर्दशसंख्या प्रपञ्चयति प्रपञ्च इति तु चुरादिपाठात् ।। 171 ।।
पचिँ पचि विस्तारे , वचने
- पञ्चयति प्रपञ्चः पङ्क इति भौवादिकस्य पञ्चतेः 112
शब्दकल्पद्रुमः
Sanskrit
पचिः,
पुं,
(पचतीति पच् + “सर्व्वधातुभ्यः इन् ।”उणां ११७ इति इन् ।) अग्निः इतित्रिकाण्डशेषः
पचनम् इति संक्षिप्तसार-व्याकरणम्
वाचस्पत्यम्
Sanskrit
पचि
पु०
पच--इन् अग्नौ उज्ज्वलदत्तः धातुनिर्देशे इक् ।२ पचधातौ “द्व्यर्थः पचिरिति” महाभाष्यम्
क्षीरतरङ्गिणी
Sanskrit
पचिँ पचि व्यक्तीकरणे
पञ्चते, प्रपञ्च्यते अच् - पञ्चः पञ्चिका न्यासः पञ्च पञ्चालाः घञ् - पङ्कः चुरादौ पचि विस्तारवचने (10119) प्रपञ्चयति एरजण्यन्तानाम् इत्यस्य प्रायिकत्वात् प्रपञ्चः, अस्य तु घञि कुत्वं स्यात् दुर्गोऽदन्तमाह 173
पचिँ पचि विस्तारवचने
- प्रपञ्चयति प्रपञ्चः भ्वादौ पचि व्यक्तीकरणे (1107) पञ्चते, पञ्चिका, विपञ्ची, पङ्कः 110
धातुवृत्तिः
Sanskrit
पचिँ पचि (अर्थः) व्यक्तीकरणे
पञ्चते पङ्कः "चजोः कुघिण्ण्यतोः'' इति कुत्त्वम् वार्त्तिकमते न्यङ्क्वादिर्द्रष्टव्यः तेन हि निष्ठायामनिटः कुत्वमुच्यते पञ्चन् बाहुलकात्कनिन् बहुवचनान्तः तत्र "ष्णान्ता षट्"इति षट्संज्ञाविधानात् षड्भ्यो लुक्'' इति जस्शसोर्लुक् पञ्चानामित्यत्र "षट्चतुर्भ्यश्च'' इत्यामो नुटि ( सूत्रम्) नोपधायाः (इति सूत्रम्) नान्तस्योपधाया नामि दीर्घ इति दीर्घे "न लोपः प्रातिपदिकान्तस्य'' इति नलोपः स्त्रियामपीदमेव रूपम् "न षट्स्वस्रादिभ्य'' इति टापो ङीषश्च निषेधात् अस्ति टापः प्रसङ्गो नकारे लुप्ते पञ्चानामपत्यं, पाञ्चिः बाह्वादित्वादिञ् ( सूत्रम्) नस्तद्धिते (इति सूत्रम्) नान्तस्य भस्य तद्धिते टिलोप इति टिलोपः ( पङ्क्तिः )"पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्'' इति "तदस्य परिमाणम्'' इति विषये तिप्रत्ययो निपात्यते पञ्चपरिणामस्य वर्गस्य पञ्चत् "पञ्चद्दशतौ वर्गे वा'' इति डत्यन्तो निपातितः वाग्रहणात् "संख्याया अतिशदन्ताया कन्''इति कनि पञ्चकः पञ्चेति दुर्गः तथा वर्धमानोपि, यदाह अनिङ्विधो पच्यादिसूत्रे डुपचष्पाके पच व्यक्तीकरणइति संमतायां तु वर्धमानवदुक्त्वाऽन्यैस्त्वयमिदित् पठ्यतइत्युक्तम् "तिङो गोत्रादीनि'' इत्यत्र पचतिगोत्रमित्युपादाय पच व्यक्तीकरणइति पठन् न्यासकारः परस्मैपदिनं मन्यते डुपचष्पाकइत्यग्रे पचि विस्तारवचनइति चुरादौ 172
पचिँ पचि (अर्थः) विस्तारवचने
( पञ्चयति ) पञ्चति, पञ्चतइति व्यक्तार्थस्य शपि 116
कृदन्तरूपमाला
Sanskrit
1 {@“पचि व्यक्तीकरणे”@} 2 3 ‘पच व्यक्तीकरणे’ इति दुर्गः।
‘तिङो गोत्रादीनि--’ 4 इत्यत्र काशिकायां न्यासे ‘पचति 5 गोत्रम्’ इत्युक्तत्वात् तन्मतेऽपि ‘पच’ इत्येव पाठ इति गम्यते।
पच इत्यदन्तपाठेऽपि धातोरस्या- निट्त्वम्, अनिट्कारिकासु पाठात्--इति ज्ञेयम्।]] ‘णौ पञ्चयति विस्तारे व्यक्तौ तु शपि पञ्चते।’ 6 इति देवः।
पञ्चकः-ञ्चिका, पञ्चकः-ञ्चिका, पिपञ्चिषकः-षिका, पापञ्चकः-ञ्चिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककञ्चतिवत् 7 ज्ञेयानि।
8 पङ्कः, 9 पङ्क्तिः, 10 पञ्चालाः
इति अस्य धातो रूपाणीति विशेषः।
11 पञ्चितः।
प्रासङ्गिक्यः
01
=>
(९५८)
02
=>
(१-भ्वादिः-१७४। सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(८-१-२७)
05
=>
[= व्यक्तीकरोति]
06
=>
(श्लो। १८)
07
=>
(१४५)
08
=>
[[५। घञि, न्यङ्क्वादिपाठात् कुत्वम्।]]
09
=>
[[६। बाहुलकात् ‘क्तिन्नपि इष्यते’ (वा। ३-३-९४) इति क्तिन्, कुत्वं च।]]
10
=>
[[७। ‘तमिविडि--’ (द। उ। ८-११५) इति कालच्प्रत्यये रूपम्। पञ्चते पञ्चयति वा पञ्चालाः = विषयः, पर्वतेश्वरयक्षश्च।]]
11
=>
[[आ। ‘अमुञ्चनैर्मञ्चितचित्तपञ्चितत्रयीमतप्रस्तुचितैः शुभार्जकैः।’ धा। का। १। २४।]]
1 {@“पचि विस्तारवचने”@} 2 ‘विस्तारमात्रे च’ इति द्रुमे।
‘वचने’ इत्यविवक्षितमित्यर्थः।
3 ‘णौ पञ्चयति विस्तारे, व्यक्तौ तु शपि पञ्चते।’ 4 इति देवः।
पञ्चकः-पञ्चिका, पिपञ्चयिषकः-षिका, पञ्चकः-ञ्चिका, पिपञ्चिषकः-षिका, पापञ्चकः-ञ्चिका
इत्यादीनि सर्वाणि रूपाणि चौरादिकचम्पयतिवत् 5 ऊह्यानि।
घञि- 6 प्रपञ्चः।
प्रासङ्गिक्यः
01
=>
(९५९)
02
=>
(१०-चुरादिः-१६५२। सक। सेट्। उभ।)
03
=>
[पृष्ठम्०८३५+ ३१]
04
=>
(श्लो। १८)
05
=>
(४९९)
06
=>
[[आ। ‘कृष्णः प्रपञ्चरहितां धृततेजितास्त्रैः वीरैः स्तुतां गिरमकीर्तदरातिवर्धी।।’ धा। का। ३। २८।]]