| YouTube Channel

पचनम् (pacanam)

 
Apte Hindi
Hindi
पचनम्
नपुं*
- पच् + ल्युट्
"पकाना, भोजन बनाना, परिपक्व करना"
पचनम्
नपुं*
- पच् + ल्युट्
"पकाने के उपकरण, बर्तन, इन्धन आदि"
अमरकोशः
Sanskrit
Word: पचनम्
Root: पचनम्
Gender: undefined
Number: undefined
Meaning(s):
child
ulcer
simple
infant
honest
result
baking
old age
burning
boiling
abscess
ripeness
ripening
roasting
ignorant
maturity
digestion
very young
perfection
completion
excellence
suppuration
inflammation
domestic fire
not artificial
cooking utensil
full development
young of an animal
confection [Pharm.]
assimilation of food
any cooked or dressed food
development of consequences
any act having consequences
digestion or assimilation of food
ripening of the hair i.e. greyness
maturing of so. [fruit, human body, etc]
general panic or revolution in a country
Shloka(s):
3|2|8|2 व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥ (सङ्कीर्णवर्गः)
Synonym(s):
3|2|8|2 पचा (पचा) (स्त्री)
3|2|8|2 पाकः (पाक) (पुं) child, ulcer, simple, infant, honest, result, baking, old age, burning, boiling, abscess, ripeness, ripening, roasting, ignorant, maturity, digestion, very young, perfection, completion, excellence, suppuration, inflammation, domestic fire, not artificial, cooking utensil, full development, young of an animal, confection [Pharm.], assimilation of food, any cooked or dressed food, development of consequences, any act having consequences, digestion or assimilation of food, ripening of the hair i.e. greyness, maturing of so. [fruit, human body, etc], general panic or revolution in a country
Related word(s):
परा_अपरासंबन्धः क्रिया
जातिः क्रिया
उपजीव्य_उपजीवक_भावः भक्ष्यकारः
अवयव_अवयवीसंबन्धः वास्तुकादिशाकः
कृदन्तरूपमाला
Sanskrit
1 {@“डु पचष् पाके”@} 2 पाचकः-चिका, पाचकः-चिका, 3 पिपक्षकः-क्षिका, 4 पापचकः-चिका
5 पक्ता-त्री, पाचयिता-त्री, पिपक्षिता-त्री, पापचिता-त्री
पचन्-न्ती, पाचयन्-न्ती, पिपक्षन्-न्ती
-- 6 प्रणिपक्ष्यन्-प्रनिपक्ष्यन्-7-न्ती-ती, पाचयिष्यन्-न्ती-ती, पिपक्षिष्यन्-न्ती-ती
8 पचमानः, पाचयमानः, पिपक्षमाणः, पापच्यमानः
पक्ष्यमाणः, पाचयिष्यमाणः, पिपक्षिष्यमाणः, पापचिष्यमाणः
9 ओदनपक्-पचौ-पचः
-- -- 10 पक्वम्-पक्वः-पक्ववान्, 11 प्रपक्वानि 12, पाचितः, पिपक्षितः, पापचितः-तवान्
13 पचः, 14 श्वपचः, 15 दूरेपाकः-अक्षेपाकः, फलेपाकः-क्षणेपाकः-का, 16 दूरेपाकुः- फलेपाकुः, 17 पचनः, 18 श्वपाकः-मांसपाकः ओदनपाचः, कपोतपाकः, पिण्डपाकः, मूलपाकः-उलूकपाकः, 19 प्रस्थंपचः- 20 खारिम्पचः-द्रोणंपचः, 21 मितम्पचः 22 - 23 नखम्पचः, 24 अल्पम्पचः, 25 26 27 उत्पचिष्णुः, 28 पचेलिमाः 29 30, 31 किम्पचानः, 32 पेचिवान्, पाचः, पिपक्षुः, पापचः
पक्तव्यम्, पाचयितव्यम्, पिपक्षितव्यम्, पापचितव्यम्
पचनीयम्, पाचनीयम्, पिपक्षणीयम्, पापचनीयम्
33 पाक्यम् 34, 35 कृष्टपच्यम्, 36 कृष्टपाक्यम्, 37 अवश्यपाक्यम्, पाच्यम्, पिपक्ष्यम्, पापच्यम्
ईषत्पचः-दुष्पचः-सुपचः
-- -- पच्यमानः, पाच्यमानः, पिपक्ष्यमाणः, पापच्यमानः
38 पाकः, 39 मांसपाकः-मांस्पाकः, 40 पक्त्रिमम्, 41 पाचः, पिपक्षः, पापचः
42 पक्तुम्, पाचयितुम्, पिपक्षितुम्, पापचितुम्
43 पचा, 44 पक्तिः, 45 पाचिका, पाचना, पिपक्षा, पापचा
पचनम्, 46 मांसपचनम्-मांस्पचनम्, पाचनम्, पिपक्षणम्, पापचनम्
पक्त्वा, पाचयित्वा, पिपक्षित्वा, पापचित्वा
विपच्य, प्रपाच्य, प्रपिपक्ष्य, प्रपापच्य
पाचम् २, पक्त्वा २, पाचम् २, पाचयित्वा २, पिपक्षम् २, पिपक्षित्वा २, पापचम्
पापचित्वा २।
प्रासङ्गिक्यः
01
=>
(९५७)
02
=>
(१-भ्वादिः-९९६। सक। अनि। उभ।)
03
=>
[[४। सन्नन्ताण्ण्वुलि, ‘चोः कुः’ (८-२-३०) इति कुत्वे, षत्वे रूपम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[५। यङन्ते सर्वत्र, ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासदीर्घः।]]
05
=>
[[६। तृजादिषु सर्वत्र ‘चोः कुः’ (८-२-३०) इति कुत्वं ज्ञेयम्।]]
06
=>
[[७। ‘लृट् शेषे च’ (३-३-१३) इति लृडत्र भविष्यति काले
\n\n ‘पक्ष्यामीति व्रजति’ इत्यर्थः। ‘शेषे विभाषा--’ (८-४-१८) इति नेर्णत्वविकल्पः।]]
07
=>
[व्रजति]
08
=>
[पृष्ठम्०८३२+ २८]
09
=>
[[१। ओदनं पचतीति ओदनपक्। ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विप्। ‘अनुनासिकस्य क्विझलोः--’ (६-४-१६) इत्यत्र काशिकायामुदाहृतमेवम्।]]
10
=>
[[२। ‘पचो वः’ (८-२-५२) इति निष्ठातकारस्य वकारः। वकारस्यासिद्धत्वात् झल्पर- त्वम्। तेन, ‘चोः कुः’ (८-२-३०) इति कुत्वं भवतीति ज्ञेयम्।]]
11
=>
[[३। ‘प्रपक्वानि’ इत्यत्र ‘कुमति च’ (८-४-१३) इति प्राप्तं णत्वम्, ‘युवादीनां प्रतिषेधः’ (वा। ८-४-११) इत्यनेन भवति।]]
12
=>
[फलानि]
13
=>
[[४। ‘नन्दिग्रहिपचादिभ्यः--’ (३-१-१३४) इति, अच्प्रत्ययः।]]
14
=>
[[५। पचादिषु (३-१-१३४) पाठादत्र कर्मण्यणं बाधित्वा कर्तरि, अच्प्रत्ययः।]]
15
=>
[[६। अत्र सर्वत्र, पचादिषु पाठादचि, वृद्धौ, तथा न्यङ्क्वादिषु (७-३-५३) पाठात् कुत्वे रूपम्।]]
16
=>
[[७। न्यङ्क्वादिषु (७-३-५३) पाठात् कुत्वम्, पचादिष्वेव पाठादुप्रत्ययश्च।]]
17
=>
[[८। नन्द्यादिषु (३-१-१३४) पाठात् कर्तरि ल्युप्रत्ययः इति केचित्।]]
18
=>
[[९। ‘अणपीष्यते’ इति क्षीरतरङ्गिण्यामुक्तम्। तदानीमत्र कुत्वं न्यङ्क्वादित्वात ज्ञेयम्। वस्तुतस्तु ‘कर्मण्यण्’ (३-२-१) इत्यत्र भाष्ये ‘ओदनपाचः’ इति प्रयुक्तत्वात् अण्विषये कुत्वं नेति ज्ञायते।]]
19
=>
[[१०। ‘परिमाणे पचः’ (३-२-३३) इति खश्प्रत्यये मुमि रूपमेवम्। एवं परिमाण- वाचकेषु सर्वेष्वपि उपपदेषु खश् ज्ञेयः।]]
20
=>
[[आ। ‘खारिम्पचामत्र विपक्वमन्नं विष्वण्य सुष्वाप रक्षिवर्गः।।’ वा। वि। ३। ४।]]
21
=>
[[११। ‘मितनखे च’ (३-२-३४) इति खशि मुमागमः।]]
22
=>
[[B। ‘अमितम्पचमीशानं सर्वभोगीणमुत्तमम्।’ भ। का। ६। ९७।]]
23
=>
[[C। ‘नखम्पचोष्णं नलिनेक्षणानामुरोजमेवातितरामुपास्ते।।’ च। भारते। ४। ५६।]]
24
=>
[[१२। ‘मितनखेच’ ‘(३-२-३४) इत्यत्र मितशब्देन मितपर्यायाणामपि ग्रहणमिति मते ‘अल्पम्पचः’ इत्यत्र खशि मुमागमो ज्ञेयः।]]
25
=>
[[ड्। ‘ऐव विद्वन् पितुः कामात् पान्तावल्पंपचान् मुनीन्।।’ भ। का। ६। ९७।]]
26
=>
[पृष्ठम्०८३३+ २९]
27
=>
[[१। ‘अलङ्कृञ्निराकृञ्प्रजनोत्पच--’ (३-२-१३६) इत्यादिना तच्छीलादिषु कर्तृषु इष्णुच्प्रत्ययः।]]
28
=>
[[२। ‘केलिमर उपसंख्यानम्’ (वा। ३-१-९६) इति केलिमर्प्रत्यये रूपम्। कर्मकर्तर्ये- वायं प्रत्यय इति वृत्तिकारादयः। अविशेषात् भावकर्मणोरेवेति दीक्षि- तादयः।]]
29
=>
[[आ। ‘स वारनारीकुचसञ्चितोवमं ददर्श मालूरफलं पचेलिमम्।।’ नैषधे १। ९४।]]
30
=>
[शालयः]
31
=>
[[३। किम्शब्दे उपपदे, ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति चानशि, बाहुलकात् मुमागमाभाव इति अमरव्याख्यायां भानुजीदीक्षितः।]]
32
=>
[[४। कर्तरि लिटः क्वसौ, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमे, ‘अत एक- हल्मध्येऽनादेशादेर्लिटि’ (६-४-१२०) इत्येत्वाभ्यासलोपयो रूपम्।]]
33
=>
[[५। निष्ठायामस्य धातोरनिट्त्वेन ण्यति, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इत्यनेन कुत्वम्।]]
34
=>
[[B। ‘पितॄणां कुरुषे कार्यमपाक्यैः स्वादुभिः फलैः।।’ भ। का। ६। ६४।]]
35
=>
[[६। ‘राजसूयसूर्यमृषोद्यरुच्यकृष्टपच्याव्यथ्याः’ (३-१-११४) इत्यनेन यत्प्रत्यये कर्म- कर्तरि कृष्टपच्यः इति निपात्यते। कृष्टे ये स्वयमेव पच्यन्ते केचन व्रीहि- विशेषाः ते कृष्टपच्याः। अन्यत्र कृष्टपाक्यः इत्येव।]]
36
=>
[[C। ‘अकृष्टपच्याः पश्यन्तौ ततो दाशरथी लताः।’ भ। का। ६। ५९।]]
37
=>
[[७। ‘ण्य आवश्यके’ (७-३-६५) इति निषेधाद् आवश्यकार्थे तु ण्यत्प्रत्यये कुत्वं भवति।]]
38
=>
[[८। घञि, ‘चजोः कु--’ (७-३-५२) इति कुत्वम्।]]
39
=>
[[९। मांसस्य पाकः मांसपाकः मांस्पाको वा। ‘मांसस्य पचि ल्युड्घञोः’ (वा। ६-३-१०९) इति वचनात् पचतेर्घञि मांसशब्दस्योपपदस्यान्त्यलोपो वा भवति।]]
40
=>
[[१०। ‘ड्वितः क्त्रिः’ (३-३-८८) इति क्त्रिप्रत्यये, ‘तेन’ इत्यधिकारे, निर्वृत्तार्थे ‘क्त्रेर्मम्नित्यम्’ (४-४-२०) इति नित्यं मप्प्रत्यये रूपम्।]]
41
=>
[[ड्। ‘विपक्त्रिमज्ञानगतिर्मनस्वी मान्यो मुनिः स्वां पुरमृष्यशृङ्गः।।’ भ। का। १। १०।]]
42
=>
[पृष्ठम्०८३४+ २८]
43
=>
[[१। षित्त्वाद् ‘षिद्भिदादिभ्यः--’ (३-३-१०४) इत्यङ् भवति।]]
44
=>
[[२। ‘स्थागापापचो भावे’ (३-३-९५) इति वचनात् पक्षे क्तिन्नपि भावे भवति।]]
45
=>
[[३। ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (३-३-१११) इति ऋणे ण्वुच्। ‘शायिकाऽद्य तव प्रापदर्हसि क्षीरपायिकाम्। पाचिका मे त्वया देया प्रोत्पन्ना मेऽन्नभोजिका।।’ इति प्र। सर्वस्वे।]]
46
=>
[[४। ‘मांसस्य पचि युड्घञोः’ (काशिका ६-१-१४४) इति मांसशब्दस्थाकारस्य लोपः ल्युट्प्रत्यये परतः। तेन मांस्पचनम् इत्यपि साधु। ‘मांस्पचन्या उखायाः’ इति प्रयोगोऽत्रानुसन्धेयः (भाष्य०, काशिका० ६-१-६३)।]]