| YouTube Channel

पङ्क्तिपावनः (paGktipAvanaH)

 
Apte Hindi
Hindi
पङ्क्तिपावनः
पुं*
पङ्क्ति-पावनः -
आदरणीय या सम्मानित व्यक्ति
शब्दकल्पद्रुमः
Sanskrit
पङ्क्तिपावनः,
पुं,
(पङ्क्तिं श्राद्धोपलक्षे भोज-नायोपविष्टानां वेदविद्याविशारदानां ब्राह्म-णानां श्रेणीं पुनाति पावयति वा स्वोपवेशने-नेति पङ्क्ति + पावि + ल्युः ।) श्रेणिपवित्र-कर्त्ता श्राद्धभोजनार्हब्राह्मणः यथा, --“इमे हि मनुजश्रेष्ठ ! विज्ञेयाः पङ्क्तिपावनाः ।विद्यावेदव्रतस्नाता ब्राह्मणाः सर्व्व एव हि
सदाचारपराश्चैव विज्ञेयाः पङ्क्तिपावनाः ।मातापित्रोर्यश्च वश्यः श्रोत्रियो दश पूरुषः
ऋतुकालाभिगामी धर्म्मपत्नीषु यः सदा ।वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत
अथर्व्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः ।सत्रवादी धर्म्मशीलः स्वकर्म्मनिरतश्च यः
ये पुण्येषु तीर्थेषु अभिषेककृतश्रमाः ।मखेषु समस्तेषु भवन्त्यवभृथप्लुताः
अक्रोधना ह्यचपलाः क्षान्ता दान्ता जितेन्द्रियाः ।सर्व्वभूतहिता ये श्राद्धेष्वेतान् निमन्त्रयेत्
एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ।यतयो मोक्षधर्म्मज्ञा योगाः सुचरितव्रताः
ये चेतिहासं प्रयताः श्रावयन्ति द्बिजोत्तमान् ।ये भाष्यविदः केचिद्ये व्याकरणे रताः
अधीयते पुराणं ये धर्म्मशास्त्राणि चाप्युत ।अधीत्य यथान्यायं विधिवत्तस्य कारिणः
उपपन्नो गुरुकुले सत्यवादी सहस्रदः ।अग्य्राः सर्व्वेषु वेदेषु सर्व्वप्रवचनेषु
यावदेते प्रपश्यन्ति पङ्क्त्यां तावत् पुनन्ति ।ततो हिपावनात् पङ्क्त्या उच्यन्ते पङ्क्तिपावनाः
अनृत्विगनुपाध्यायः चेदग्र्यासनं व्रजेत् ।ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम्
अथ चेद्वेदवित् सर्व्वैः पङ्क्तिदोषैर्व्विवर्ज्जितः ।न स्यात् पतितो राजन् ! पङ्क्तिपावन उच्यते
”इति पाद्मे स्वर्गखण्डे ३५ अध्यायः
(पञ्चाग्निर्गृ हस्थः यथाह हारीतः ।“पवनः पावनस्त्रेता यस्य पञ्चाग्नयो गृहे ।सायं प्रातः प्रदीप्यन्ते विप्रः पङ्क्तिपावनः
”)