पङ्क्तिदूषक (paGktidUSaka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiपङ्क्तिदूषकः
पङ्क्ति-दूषकः -
जिसके साथ बैठकर भोजन करने में दूषण लगे
Shabdartha Kaustubha
Kannadaपङ्क्तिदूषक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪಂಕ್ತಿಯಲ್ಲಿ ಕೋಡಲು ಅನರ್ಹನಾದ ಬ್ರಾಹ್ಮಣ/ಪತಿತ ಬ್ರಾಹ್ಮಣ
निष्पत्तिः - > दुष(वैकृत्ये)+णिच् "ण्वुल्" (३-१-१३३)
व्युत्पत्तिः - > पङ्क्तिं दूषयति
विस्तारः - > ವಂಚಕ, ಮೋಸಗಾರ, ಶಿಶುಹತ್ಯೆ ಮಾಡಿದವನು, ಭ್ರೂಣ ಹತ್ಯೆಗೆ ಕಾರಣನಾದವನು, ವೇದಾಧ್ಯಯನ ಮಾಡದವನು, ಬಡ್ಡಿಯ ಹಣದಿಂದ ಜೀವಿಸುವವನು, ಆತತಾಯಿ, ವಿಷಪ್ರಯೋಗ ಮಾಡುವವನು, ತಾಯಿತಂದೆಗಳಿಗೆ ಅವಿಧೇಯನಾಗಿ ಅವರೊಡನೆ ಜಗಳವಾಡುವವನು, ಮಿತ್ರದ್ರೋಹಿ ಮುಂತಾದ ಬ್ರಾಹ್ಮಣರು ಪಂಕ್ತಿಗೆ ಅನರ್ಹರಾದವರು.
शब्दकल्पद्रुमः
Sanskritपङ्क्तिदूषकः, (श्राद्धकाले भोजनार्थमुप-विष्टानां व्रतस्नातानां ब्राह्मणानां पङ्क्तिं श्रेणींदूषयति यः । पङ्क्ति + दूष् + कर्त्तरि ण्वुल् ।)अपाङ्क्तेयः । श्राद्धभोजनानर्हब्राह्मणः । यथा, --“अपाङ्क्तेयास्तुयेराजन् ! कीर्त्तयिष्यामि तान् शृणु ।कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः ॥
ग्रामप्रेष्यो वार्द्धुषिको गायनः सर्व्वविक्रयी ।अगारदाही गरदः कुण्डाशी सोमविक्रयी ॥
सामुद्रिको राजदूतस्तैलिकः कूटकारकः ।पित्रा विवदमानश्च यस्य चोपपतिर्गृहे ॥
अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ।पर्व्वकारश्च सूची च मित्रध्रुक् पारदारिकः ॥
अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च ।श्वभिश्च यः परिक्रामेत् यः शुना दष्ट एव च ॥
परिवृत्तिस्तु यश्च स्याद्दुश्चर्म्मा गुरुतल्पगः ।कुशीलवो देवलको नक्षत्रैर्यश्च जीवति ॥
ईदृशा ब्राह्मणा ये च अपाङ्क्तेयास्तु ते मताः ।रक्षांसि गच्छते हव्यं यदेषान्तु प्रदीयते” ॥
* ॥
“श्राद्धे भुक्त्रा महाराज ! दुश्चर्म्मा गुरुतल्पगः ।श्राद्धं नाशयते तस्य पितरोऽपि न भुञ्जते ॥
सोमविक्रयिणे दत्तं विष्ठातुल्यं भवेन्नृप !भिषजे शोणितसमं नष्टं देवलके तथा ॥
अप्रतिष्ठं वार्द्धुषिके निष्फलं परिकीर्त्तितम् ।बहुवाणिजके दत्तं नेह नामुत्र तद्भवेत् ॥
भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे ।ये तु धर्म्मव्यपेतेषु चरित्रापगतेषु च ॥
हव्यं कव्यं प्रयच्छन्ति तेषां तत् परिनश्यति ।ज्ञानपूर्व्वन्तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः ॥
पुरीषं भुञ्जते तस्य पितरः प्रेत्य निञ्चितम् ।एतान्विद्धि महाबाहो अपाङ्क्तेयान् द्बिजाधमान् ।शूद्राणामुपदेशन्तु ये कुर्व्वन्त्यल्पबुद्धयः ॥
षष्टिं काणः शतं खञ्जः श्वित्री यावत् प्रपश्यति ।पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप ! ॥
यद्वेष्टितशिरा भुङ्क्ते यद्भङ्क्ते दक्षिणामुखः ।सोपानत्कश्च यद्भुङ्क्ते सर्व्वं विद्यात्तदासुरम् ॥
असूयते च यद्दत्तं यच्च श्रद्धादिवर्ज्जितम् ।सर्व्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ॥
श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन् कथञ्चन ॥
” * ॥
“तस्मात् परिवृते दद्यात्तिलांश्चान्ने विकीरयेत् ।तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन च ॥
यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ।अपाङ्क्तेयानतः पङ्क्त्यां भुञ्जानो ननु पश्यति ।तावत् फलाद्भ्रंशयति दातारं तस्य वाऽनिशम् ॥
”इति पाद्मे स्वर्गखण्डे ३५ अध्यायः ॥
वाचस्पत्यम्
Sanskritपङ्क्तिदूष(क) पङ्क्तिम एकपङ्क्तिं भोजने दूषयतिदूषि--अण् ण्वुल् वा उप० स० । अपाङ्क्तेये अपकृष्ट-ब्राह्मणे स च अपाङ्क्तेयशब्दे २४३ पृ० उक्तः । अन्ये-ऽपि केचित् पाद्मे ३५ अ० उक्ता यथा“अपाङ्क्तेयास्तु ये राजन्! कीर्त्तयिष्यामि तान् शृणु ।कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृती । ग्रामप्रेष्यो बार्धुषिको गायनः सर्वविक्रयो । अगारदाहीगरदः कृण्डाशी सोमविक्रयी । सामुद्रिको राजदूत-स्तैलिकः कूटकारकः! पित्रा विवदमानश्च यस्य चोप-पतिर्गृहे । अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ।पर्वकारश्च सूची च मित्रध्रुक् पारदारिकः । अव्रता-नामुपाध्यायः काण्डपृष्ठस्तथैव च । श्वभिश्च यः परि-क्रामेद्यः शुना दष्ट एव च । परिवित्तिस्तु यश्च स्याद्दु-श्चर्मा गुरुतल्पगः । कुशीलवो देवलको नक्षत्रैर्यश्च जी-वति । ईदृशा ब्राह्मणा ये च अपाङ्क्तेयास्तु ते मताः ।रक्षांसिभुञ्जते हव्यं यदेषान्तु प्रदीयते । श्राद्धे भुक्त्रामहाराज! दुश्चर्मा गुरुतल्पगः । श्राद्धं नाशयते तस्यपितरोऽपि न भुञ्जते । सोमविक्रयिणे दत्तं विष्ठातुल्यंभवेन्नृप! भिषजे शोणितसमं नष्टं देवलके तथा ।अप्रतिष्ठं बार्धुषिके निष्फलं परिकीर्त्तितम् । बहुवा-णिजके दत्तं नेह नामुत्र तद्भवेत् । भस्यनीव हुतंहव्यं तथा पौनर्भवे द्विजे । ये तु धर्मव्यपेतेषु चरि-त्रापगतेषु च । हव्यं कव्यं प्रयच्छन्ति तेषां तत्प्ररि-णश्यति । ज्ञानपूर्वन्तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः ।पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चितम् । एतान् विद्धिमहाबाहो! अपाङ्क्तेयान् द्विजाधमान् । शूद्राणामुप-देशन्तु ये कुर्वन्त्यल्पबुद्धयः । षष्टिं काणः शतं खञ्जःश्वित्री यावत् प्रपश्यति । पङ्क्त्यां समुपविष्टानां ता-वद्दूषयते नृप! । यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते द-क्षिणामुखः । सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदा-सुरम् । असूयया च यद्दत्तं यच्च श्रद्धादिवर्जितम् ।सर्वं तदसुरेन्द्राय ब्रह्मा भागभकल्पयत् । श्वानञ्च पङ्क्ति-दूषञ्च नावेक्षेरन् कथञ्चन । तस्मात् परिवृते दद्यात्तिलां-श्चान्ने विकीरयेत् । तिलैर्विरहितं श्राद्धं कृतं क्रोध-वशेन च । यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ।अपाङ्क्त्यान् यावतः पङ्क्त्यां भुञ्जानो ननु पश्यति ।तावत् फलाद्भंशयति दातारं तस्य वाऽनिशम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
