पक्षोऽयं (pakSo'yaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“लिख अक्षरविन्यासे”@} 2 इत्यत्र ‘कुटस्य आदिः कुटादिः, कुटादिश्च कुटादयश्च इति बहुव्रीहितत्पुरुषयोः सह विवक्षां कृत्वा--कुटादेः पूर्वं पठितस्य अस्यापि धातोः ङित्त्वमभ्युपगच्छन्ति।
पक्षोऽयं पदमञ्जर्यां दूषितः
‘अपाच्चतुष्पा- च्छकुनिष्वालेखने’ 3 इति निर्देशात् ‘रलो व्युपधात्--’ 4 इत्यत्र काशिकादिषु लिखित्वा--लेखित्वा लिलिखिषति-लिलेखिषति इत्युदाहरणात्, ‘ईश्वरे तोसुन्--’ 5 इत्यत्र ‘विलिखितुमित्यर्थः’ इति वृत्तौ विवरणात् च न समञ्जसोऽयं पक्ष इति।
वर्धमानप्रभृतयोऽपि एवमेवाहुरिति धातुवृत्त्यादिषु स्पष्टम्।
लिखितुम्, लिखिष्यते इत्यादि तु ‘संज्ञापूर्वको विधिरनित्यः’ 6 इति कथञ्चित् समर्थनीयम्।
एतेन ‘लिखन- संक्षेपनिर्बन्धवतो दीधितिकारस्य--’ इति गदाधरोक्तिरपि व्याख्याता।
बोपदेवव्याकरणे मुग्धबोधे तु कुटादित्वमेवास्यापि धातोरङ्गीकृतम्।]] लेखकः-खिका, लेखकः-खिका, लिलेखिषकः- 7 लिलिखिषकः-षिका, लेलिखकः-खिका
लेखिता-त्री, लेखयिता-त्री, लिलेखिषिता-लिलिखिषिता-त्री, लेलिखिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि तौदादिकिलतिवत् 8 ज्ञेयानि।
लेखः, विलेखनः 9 लेखनी, 10 हृल्लेखः, विलेखी- 11 व्यावलेखी, 12 लेखा-रेखा, 13 14 दन्तलेखकः इत्यादीनि रूपाण्यस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
15 लिखापयति।
01 (१४८५)
02 (६-तुदादिः-१३६५। सक। सेट्। पर। [[[अ] तुदादिष्वयं धातुः कुटादेः पूर्वं पठितः। ञित्णिद्भिन्नानां प्रत्ययानां ङिद्वद्भावः कुटादीनां विधीयते--कुटितुम्--कुटिता इत्यादिरूपसिद्धये। एवं ‘लिखितुं विश्वसृजोऽपि शक्तिहानिः’, ‘स्वयमेव लिखिष्यते’ इत्यादिषु गुणाभावोपपत्त्यर्थं ‘गाङ्कुटादिभ्यः--’ (१-२-१)
03 (६-१-१४२)
04 (१-२-२६)
05 (३-४-१३)
06 (परि। ९५)
07 [[१। सन्नन्ते ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पनात् रूपद्वयमिति ज्ञेयम्।]]
08 (१९३)
09 [[२। ल्युडन्तात् स्त्रियां टित्त्वेन ङीपि रूपमेवम्।]]
10 [[३। हृदयं लिखतीति हृल्लेखः। ‘कर्मण्यण्’ (३-२-१) इत्यणि ‘हृदयस्य हृल्लेख--’ (६-३-५०) इति हृदयशब्दस्य ‘हृत्’ इत्यादेशः।]]
11 [[४। कर्मव्यतीहारे णचि, ‘णचस्स्त्रियाम्--’ (५-४-१४) इत्यञि ङीपि रूपमेवम्।]]
12 [[५। भिदादि (३-३-१०४) पाठादङि रूपमेवम्। तत्रेव गणे पाठात् लकारस्य पाक्षिको रेफादेशश्च। तेन रेखा इत्यपि साधुः।]]
13 [पृष्ठम्११६१+ २७]
14 [[१। दन्तस्य लेखकः दन्तलेखकः। ‘नित्यं क्रीडाजीविकयोः’ (२-२-१७) इति षष्ठ्यन्तस्य दन्तशब्दस्य अकारान्तेन लेखकशब्देन तत्पुरुषसमासः। यस्य गजवराहादिदन्तेषु चित्रं विलिख्य तन्मूलिका जीविका तत्रैवायं--जीविकार्थे समास इति बोध्यम्।]]
15 [[२। लिखम् आचष्टे लिखापयतीति निष्पाद्य, ‘अर्थवेदयोरप्यापुग्वक्तव्यः’ (वा। ३-१-२५) इत्यत्र ‘अपुक्’ इति ह्रस्वोच्चारणेनैव सिद्धौ दीर्घोच्चारणात् उपात्तभिन्नेष्वपि आपुग् भवतीति मत्वा अत्रापि आपुग् भवतीति आत्रेयमतं धातुवृत्तौ प्रतिपादितमि- हानुसन्धेयम्।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
