पक्षाघातः (pakSAghAtaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiपक्षाघातः
पक्षः-आघातः -
"शरीर के एक अंग का मारा जाना, अधलकवा"
Wordnet
Sanskrit पक्षाघातः, अङ्गघातः
रोगविशेषः- यस्याम् अङ्गार्धं वा पूर्णाङ्गं क्रियाहीनं भवति।
"सः पक्षाघातेन पीडितः।"
शब्दकल्पद्रुमः
Sanskritपक्षाघातः (पक्षस्य देहाद्धस्य घातं विना-शनं यस्मात् यत्र वा ।) स्वनामख्यात-वातरोगविशेषः । तल्लक्षणादि यथा, --“गृहीत्वार्द्धं ततो वायुः शिरास्नायू विशोष्य च ।पक्षमन्यतमं हन्ति सन्धिबन्धान् विमोक्षयन् ॥
कृत्स्नोऽर्द्धकायस्तस्य स्यादकर्म्मण्यो विचेतनः ।एकाङ्गवातं तं केचिदन्ये पक्षवधं विदुः” ॥
अर्द्धं अर्द्धनारीश्वरवत् । पक्षं बाहुपार्श्वोरु-जङ्घादिभागम् । अन्यतमं वामं दक्षिणं वा ।विमोक्षयन् शिथिलीकुर्व्वन् । अकर्म्मण्यः कर्म्मा-समर्थः । विचेतनः ईषत्र्स्पशादिज्ञानयुक्तः ॥
* ॥
अस्य साध्यासाध्यज्ञानार्थमाह ।“दाहसन्तापमूर्च्छाः स्युर्व्वायौ पित्तसमन्वित ।शैत्यशोथगुरुत्वानि तस्मिन्नेव कफावृते” ॥
दाहो वाह्यः । सन्तापः आभ्यन्तरः । एतच्चलक्षणमन्यत्रापि वातव्याधौ बोद्धव्यम् । सामा-न्यतो वायाविति निर्दिष्टत्वात् ॥
* ॥
पक्षाघातस्य साध्यत्वादिकमाह ।“शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः ।साध्यमन्येन संयुक्तमसाध्यं क्षयहेतुकम्” ॥
शुद्धः केवलः । अन्येन पित्तेन कफेन वा । क्षय-हेतुकं क्षयो धातुक्षयः । तत्कुपितं वातनिमि-त्तकम् ॥
* ॥
अपरमसाध्यलक्षणमाह ।“गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये ।पक्षाघातं परिहरेत् वेदनारहितो यदि” ॥
वेदनारहितो यदीति भिन्नमसाध्यलक्षणम् ॥
* ॥
अथ तस्य चिकित्सा ।“माषात्मगुप्तावातारिवाट्यालकजटाशृतम् ।हिङ्गुसैन्धवसंयुक्तं पक्षाघातं विनाशयेत् ।माषिके हिङ्गुसिन्धूत्थे जरणाद्यास्तु शाणिकाः” ॥
इति माषादिक्वाथः ॥
१ ॥
“ग्रन्थिकाग्निकणाशुण्ठीरास्नासैन्धवकल्कितम् ।माषक्वाथशृतं तैलं पक्षाघातं व्यपोहति” ॥
इति ग्रन्थिकादितैलम् ॥
२ ॥
“माषात्मगुप्तातिविषारुवूक-रास्नाशताह्वालवणैः सुपिष्टैः ।चतुर्गुणे माषवलाकषायेतैलं शृतं हन्ति हि पक्षघातम्” ॥
इति माषादितैलम् ॥
३ ॥
इति भावप्रकाशः ॥
* ॥
पक्षाघातस्तु जन्मान्तरीयमहापातकशेषपाप-चिह्नविशेषः । यथा, --“पूर्व्वजन्मकृतं पापं नरकस्य परिक्षये ।बाधते व्याधिरूपेण तस्य कृच्छ्रादिभिः शमः ॥
कुष्ठञ्च राजयक्ष्मा च प्रमेहो ग्रहणी तथा ।मूत्रकृच्छ्राश्मरीकाशा अतिसारभगन्दरौ ॥
दुष्टव्रणं गण्डमाला पक्षाघातोऽक्षिनाशनम् ।इत्येवमादयो रोगा महापापोद्भवा गदाः” ॥
* ॥
तत्प्रायश्चित्तं यथा, --“लक्षमुच्चावचं पुष्पं प्रदद्यात् केशवार्च्चने ।दद्यात् द्विजसहस्राय मिष्टान्नं द्बिजभोजने” ॥
इति मलमासतत्त्वम् ॥
किञ्च ।“कुनखी श्यावदन्तश्चद्वादशरात्रं कृच्छ्रं चरित्वाउद्धरेयातां तद्दन्तनखाविति । अत्र द्वादशरात्रंपराकरूपम् । तत्र पञ्च धेनवः । न तु प्राजापत्यंतद्दाहकर्त्तुर्यतिचान्द्रायणेन विषमशिष्टत्वात् ।अत्र बहूनामेकधर्म्माणामिति वचनादाकाङ्क्षि-तत्वात् कुष्ठ्यादीनामपि प्रायश्चित्तम् । अत-एव प्रायश्चित्तविवेकेऽप्युक्तम् । एवं दुश्चर्म्मादिष्व-प्यूह्यम्” । इति शुद्धितत्त्वम् ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
