| YouTube Channel

पंफणकः- (paMphaNakaH-)

 
कृदन्तरूपमाला
Sanskrit
1 {@“फण गतौ”@} 2 घटादिः।
फाणकः-णिका, 3 फणकः-फाणकः-णिका, पिफणिषकः-षिका, पंफणकः- पम्फणकः-णिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककणतिवत् 4 5 ज्ञेयानि।
6 फाण्टः 7, 8 फणितिः, 9 फेणिवान्-पेफणिवान्, 10 फणितः।
इति इमानि रूपाणि अस्य धातोर्भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१०८८)
02
=>
(१-भ्वादिः-८२१। सक। सेट्। पर।)
03
=>
[[५। घटादित्वेन मित्त्वात् णौ, ‘मितां ह्रस्वः’ (६-४-९२) इति उपधाह्रस्वे रूपमेवम्। ‘फणेः पूर्वे घटादयः।’ इति मैत्रेय-क्षीरस्वाम्याद्युपात्तवचनानुसारेण फण- धातोर्घटादित्वं नेति ज्ञायते। तदानीं मित्त्वाभावात् फाणकः-णिका, इत्यादीन्येव रूपाणि। किञ्च, धातूनामनेकार्थकत्वात्, गत्यर्थकस्य फणधातोरेव घटादिषु पाठ इति ज्ञायते
\n\n यतः ‘अन्यत्र फाणयति = घटं निःस्नेहयतीत्यर्थः।’ इति क्षीरस्वामी बभाण। ‘… फण-ण् निःस्नेहने--।’ इति कविकल्पद्रुम- (श्लो १७६) वाक्यमप्यत्र निःस्नेहनार्थेऽस्य धातोः प्रयोगेऽनुकूलम्।]]
04
=>
(१५७)
05
=>
[पृष्ठम्०९१२+ ३२]
06
=>
[[१। ‘क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमस्सक्ताविस्पष्टस्व- रानायासभृशेषु’ (७-२-१८) इत्यनेनास्य धातोर्निष्ठायाम्, अनायाससाध्यकषा- यविशेषश्चेत् प्रकृतिप्रत्ययसमुदायेनोच्यते तदानीमिडभावो निपात्यते। ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-१५) इति दीर्घः। पश्चात्, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वेन निष्ठातकारस्य टकारः। अन्यत्र फणितमित्येव। ‘उष्णाम्बुन्यौषधं क्षुण्णं क्षिप्त्वा सद्योऽभिषुत्य च। पीयते यः कषायोऽसौ फाण्टोऽनायाससाधितः।।’ इति प्र। सर्वस्वे। माधवस्तु ‘तद्वै नवनीतं घृतं देवानाम्, फाण्टं मनुष्याणाम्--’ इति शतपथ- श्रुतिव्याख्यायाम् (३-१-३-८) ‘नवनीतं फाण्टघृतयोरन्तरालवर्ति’ इत्याह। तेन नवनीतभावात् प्रागवस्थापन्नं द्रव्यं फाण्टम् इति लभ्यते। धातुवृत्तौ तु ‘औषधस्य पञ्च कल्पनाः--रसः, कल्कः, शृतः, शीतः, क्वाथः। शीतो नाम क्षुण्णमौषधमुदके प्रक्षिप्य रात्रावधिवासितं यदुदकं प्रातः पीयते तत्। तदेवोष्णोदके प्रक्षिप्य सद्योऽभिषुत्य पूत्वा पीयते। फाण्ट इति तद्विदः।’ इत्याह।]]
07
=>
[[आ। ‘अम्लिष्टनादा निरगुः फाण्टचित्रास्त्रपाणयः।।’ भ। का। ९। १७।]]
08
=>
[[२। क्तिनि, ‘तितुत्रेष्वग्रहादीनाम्--’ (वा। ७-२-९) इति वचनात् इडिति ज्ञेयम्। धातूनामनेकार्थकत्वाद् अत्र शब्दार्थकत्वमित्यपि ज्ञेयम्।]]
09
=>
[[३। कर्तरि लिटः क्वसौ, ‘फणां सप्तानाम्’ (६-४-१२५) इत्येत्वाभ्यासलोपविकल्पः। ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीट्।]]
10
=>
[[B। ‘दुष्टानपस्खादयितुं प्रयाते कृष्णे विलेपुः फणिता विमोहम्।।’ धा। का। २। १९।]]