| YouTube Channel

न्विका (nvikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“दिवि प्रीणने”@} 2 ‘अर्दने देवयेद्, दीव्येत् क्रीडादौ, परिकूजने।।
देवयेत, इदितो दिन्वेत्, देवेर्देवेत देवने।’ 3 इति देवः।
दिन्वकः-न्विका, दिन्वकः-न्विका, दिदिन्विषकः-षिका, देदिन्वकः न्विका
इत्यादीनि सर्वाणि रूपाणि जिविधातुवत् 4 ज्ञेयानि।
5 दिन्वन्।
प्रासङ्गिक्यः
01
=>
(८३७)
02
=>
(१-भ्वादिः-५९२। सक। सेट्। पर।)
03
=>
(श्लो। १६०-१६१)
04
=>
(६०४)
05
=>
[[आ। ‘हिन्वन्तमाभीरकुलं विलासिनीदिन्वन्तमाधिन्वितदेवमण्डलम्।।’ धा। का। १। ७५।]]
1 {@“धिवि प्रीणने”@} 2 धिन्वकः न्विका, धिन्वकः-न्विका, दिधिन्विषकः-षिका, देधिन्वकः-न्विका
इत्यादीनि सर्वाण्यपि रूपाणि जिन्वतिवत् 3 ज्ञेयानि।
शतरि 4 धिन्वन् ती इति रूपम्।
5 धिन्वितम्।
प्रासङ्गिक्यः
01
=>
(८९९)
02
=>
(१-भ्वादिः-५९३। सक। सेट्। पर।)
03
=>
(६०४)
04
=>
[[१। शतरि, इदित्त्वान्नुमि, धिन्व् इति स्थिते, ‘धिन्विकृण्ब्योर च’ (३-१-८०) इति शपोऽपवादतया उप्रत्यये, तत्सन्नियोगेन धातुवकारस्याकारादेशे कृते, उप्रत्ययस्य ‘धातोः--’ (३-१-२२) इति विहितत्वात्, तिङ्शिद्भ्यो भिन्नत्वाच्चार्धधातुकत्वेन, ‘अतो लोपः’ (६-४-४८) इति अकारस्य लोपे, यणादेशे, उगित्त्वान्नुमि धिन्वन् इति रूपम्।]]
05
=>
[[आ। ‘हिन्वन्तमाभीरकुलं विलासिनीर्दिन्वन्तमाधिन्वितदेवमण्डलम्।।’ धा। का। १। ७५।]]