न्रस्थिमालिन् (nrasthimAlin)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishShabdartha Kaustubha
Kannadaन्रस्थिमालिन्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನರಾಸ್ಥಿ ಮಾಲೆಯನ್ನು ಧರಿಸಿರುವ ಪರಮೇಶ್ವರ /ಪರಶಿವ
निष्पत्तिः - > "इनिः" (५-२-११५)
व्युत्पत्तिः - > नुरस्थिमाला अस्त्यस्य
वाचस्पत्यम्
Sanskritन्रस्थिमालिन् नुरस्थिमाला अस्त्यस्य इनि । १ नरास्थि-मालाभूषणे स्त्रियां ङीप् । २ शिवे त्रिका० । शुभम्इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलितेवाचणत्ये नकारादिशब्दार्थसङ्कलनम् ।इतः परं ग्रन्थसंक्षेपाशया पकारादिशब्दावधि हका-रादिशब्दान्तानां निरुदाहरणा अर्था सङ्कलयितव्याः ।परिशिष्टे खण्डे च उदाहरणानि वक्तव्यानि ।परिशिष्टम् ।३९२६ पृष्ठस्थनकुलीशब्दार्थपरिशिष्टम् । ३ शिवे तत्प्रणी-तञ्च पाशुमतशास्त्रं तन्मतञ्च सर्वदर्शनसंग्रहे दर्शितं यथा“तदेतद्वैष्णवमतं दासत्वादिपदवेदनीयं परतन्त्रत्वदुःखाव-हत्वान्न दुखं जिहीर्षुणामीप्सितास्पदमित्यरोचयमानाःपारमैश्वर्य्यं कामयमानाः पराभिमता मुक्ता न भवन्तिपरतन्त्रत्वात् पारमैश्वर्य्यरहितत्वादस्मदादिवत् मुक्तात्मा-नश्चा परमेश्वरगुणसम्बन्धिनः पुरुषत्वे सति समस्तदुःख-वीजबिधुरत्वात् परमेश्वरवदित्याद्यनुमानं प्रमाणं प्रति-पद्यमानाः केचन माहेश्वराः परमपुरुषार्थसाधनपञ्चार्थ-प्रपञ्चनपरं पाशुपतशास्त्रमाश्रयन्ते । तत्रेदमादिमं सूत्रम् ।“अथातः पशुपतेः पाशुपतयागविधं व्याख्यास्यामः” इति ।अस्यार्थः अत्राथशब्दः पूर्वप्रकृतापेक्षः । पूर्वप्रकृतश्च गुरुंप्रति शिष्यम्य प्रश्नः । गुरुस्वरूपं गणकारितायां निरू-पितम् “पञ्चकास्त्वष्टविज्ञेया गणश्चैकत्रिकात्मकः । वेत्तानवगणस्यास्य संस्कर्त्ता पुरुरुच्यते” इति । “लाभामलउपायाश्च देशावस्थाविशुद्धयः । दीक्षाकारिबलान्यष्टौपञ्चका स्त्रीणि वृत्तयः” इति । तिस्रो वृत्रय इति प्रयोक्रव्यो त्रीणि वृत्तय इति छान्दसः प्रयोगः । तत्र विधी-यमानमुपायफलं लाभः ज्ञानतपोदेवनित्यत्वस्थितिशुद्धि-भेदात् पञ्चविधः । तदाह हरदत्ताचार्य्यः “ज्ञानं तपो-ऽथ नित्यत्वं स्थितिः शुद्धिश्च पञ्चमीति” । आत्माश्रितोदुष्टभावो मलः स मिथ्याज्ञानादिभेदात् पञ्चविधः । तद-प्याह सएव “मिथ्याज्ञानमधर्भश्च सक्तिर्हेतुश्च्युतिस्तथा ।पशुत्वमूलं पञ्चैते तन्त्रे हेया विविक्तितः” इति । साधकस्यशुद्धिहेतुरुपायः वासचर्य्यादिभेदात् पञ्चविधः । तदप्याह“वासचर्य्या जपो ध्यानं सदा रुद्रस्मृतिस्तथा । प्रति-पत्तिश्च लाभानामुपायाः पञ्च निश्चिताः” । येनार्था-नुसन्धानपूर्वकं ज्ञानतपोवृद्धी प्राप्नीति स देशो गुरुज-नादिः यदाह “गुरुर्जनो गुहा देशः श्मशानं रुष्ट्र एवचेति” आ लाभप्राप्तेरेकतमादौ यदवस्थानं साऽवस्थाव्यक्तादिविशेषेण विशिष्टा, तदुक्तम् “व्यक्ताव्यक्तजपादानं निष्ठा चैव हि पञ्चमीति” । मिथ्याज्ञानादीना-मत्यन्तव्यपोहो विशुद्धिः सा प्रतियोगिभेदात् पञ्चविधा ।तदुक्तम् “अज्ञानस्याप्यसङ्गस्य हानिः सङ्गकरस्य च ।च्युतिर्हानिः पशुत्वस्य शुद्धिः पञ्चविधा स्मृतेति”दीक्षाकारिपञ्चकं चोक्तम् “द्रव्यं कालः क्रिया मूर्त्ति-र्गुरुश्चैव हि पञ्चमः” इति बलपञ्चकञ्च “गुरुभक्तिः प्रसा-दश्च मतेर्द्वन्द्वजयस्तथा । धर्मश्चैवाप्रमादश्च बलं पञ्च-विधं स्मृतमिति” पञ्चमललघूकरणार्थं मानामानवि-रोधिनोऽर्थार्जनोपाया वृत्तयः भैक्ष्योत्सृष्टयथालब्धाभिधाइति । शेषमशेषमाकर एवावगन्तव्यम् । अत्राथशब्देनदुःखान्तस्य प्रतिपादनम् आध्यात्मिकादिदुःखव्यपोहप्र-श्नार्थत्वात्तस्य पशुशब्देन कार्यस्य, परतन्त्रत्ववचनत्वात्तस्य, पतिशब्देन कारणस्य, ईश्वरः पतिरीशितेति जगत्कारण-णीभूतेश्वरवचनत्वात्तस्य । योगविधी तु प्रसिद्धौ । तत्रदुःखान्तो द्विविधः अनात्मकः सात्मकश्चेति तत्राना-त्मकः सर्वदुःखानामत्यन्तोच्छेदरूपः । सात्मकस्तु दृक्-क्रियाशक्तिलक्षणमैश्वर्य्यम् । तत्र दृक्शक्तिरेकापि विषय-भेदात् धञ्चविधा उपचर्यते” दर्शनं श्रवणं मननं विज्ञानंसर्वज्ञत्वञ्चेति । तत्र सूक्ष्मव्यवहितविपकृष्टाशेषचाक्षुष-स्पर्शादिविषयं ज्ञानं दर्शनम् । अशेषशब्दविषयं सिद्धि-ज्ञानं श्रवणम् । समस्तचिन्ताविषयं सिद्धिज्ञानं मन-नम् । निरवशेषशास्त्रविषयं ग्रन्यतोऽर्थतश्च सिद्धि-ज्ञानं विज्ञानम् । उक्तानुक्ताशेषार्थेषु समासविस्तर-विभागविशेषतश्च तत्त्वव्याप्तसदोदितसिद्धिज्ञानं सर्वज्ञत्वम्इत्येषा धीशक्तिः । क्रियाशक्तिरेकापि त्रिविधोपचर्य्यतेमनोजवित्वं कामरूपित्वं विक्रमणधर्मित्वञ्चेति । तत्रनिरतिशयशीघ्रकारित्वं मनोजवित्वम् । कर्मादिनिर-पेक्षस्य स्वेच्छयैवानन्तसलक्षणविलक्षणसरूपकरणाधि-ष्ठातृत्वं कामरूपित्वम् । उपसंहृतकरणस्यापि निरति-शयैश्वर्य्यसम्बन्धित्वं विक्रमणधर्मित्वभित्येषा क्रियाशक्तिः ।यदस्वतन्त्रं सर्वं कार्य्यं त्रिविधं विद्या कला पशु-श्चेति । तत्र पशुगुणो विद्या, सापि द्विविधा बोधा-बोधस्वभावभेदात् बोधस्वभावा विवेकाविवेकप्रवृत्तिभेदात्द्विविधा तत्र या विवेकप्रवृत्तिः प्रमाणमात्रव्यङ्ग्याचित्तमित्युच्यते । चित्तेन हि सर्वः प्राणी बाह्यार्था-त्मप्रकाशानुगृहीतं सामान्येन विवेचितमविवेचितञ्चार्थंचेतयते इति । पश्वर्थधर्माधर्मिका पुनरवबोधात्मिका विद्यास्त्रशास्त्रं येनोच्यते । चेतनपरतन्त्रत्वे सत्यचेतना कलासापि द्विविधा कार्य्याख्या कारणाख्या चेति । तत्रकार्य्याख्या दशविधा पृथिव्यादीनि पञ्च तत्त्वानि रूपा-दयः पञ्च गुणाश्चेति । कारणाख्या त्रयोदशविधाज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकम् अध्यवसायाभिमान-सङ्कल्पाभिधवृत्तिभेदात् बुद्ध्यहङ्कारमनोलक्षणमन्वःकरण-त्रयञ्चेति । पशुत्वसम्बन्धी पशुः सोऽपि द्विविधः साञ्जनोनिरञ्जनश्चेति । तत्र साञ्जनः शरीरेन्द्रियसम्बन्धी निर-ञ्जनस्तु पञ्चार्थभाव्यदीपिकादौ द्रष्टव्यः । समस्तसृष्टिसं-हारानुग्रहकारि कारणं तस्यैकस्यापि गुणकर्मभेदा-पेक्षया विभाग उक्तः पतिः साद्य इत्यादिना । तत्रपतित्वं निरतिशयदृक्क्रियाशक्तिमत्त्वं तेनैश्वर्य्येणनित्यसम्बन्धित्वम् । आद्यत्वमनागन्तुकैश्वर्य्यसम्बन्धित्वम्इत्यादर्शकारादिभिस्तीर्थकरैर्निरूपितम् । चित्तद्वारेणा-त्मेश्वरसम्बन्धो योगः स च द्विविधः क्रियालक्षणःक्रियोपरमलक्षणश्वेति तत्र जपध्यानादिरूपः क्रिया-लक्षणः क्रियोपरमलक्षणस्तु संविद्गत्या संज्ञितः । धर्मा-र्थसाधकव्यापारो विधिः । स च द्विबिधः प्रधानभूतोगुणभूतश्च तत्र प्रधानभूतः साक्षाद्धर्महेतुः चर्य्या ।सा द्विबिधा व्रतं द्वाराणि चेति । तत्र भत्स्मस्नान-शय्योपहारजपप्रदक्षिणादि व्रतम् । तदुर्क्तम् भगवतनकुलीशेन “भस्मना त्रिषवणं स्रायीत भस्मनि शयीतेति” ।अत्रोपहारो नियमः स च षडङ्गः । तदुक्तम् सूत्र-कारेण “हसितगीतनृत्यहुडुक्कारनमस्कारजप्यषडङ्गोप-हारेण उपतिष्ठेतेति” । तत्र हसितं नाम कण्ठो-ष्ठपुटविस्कूर्जनपुरःसरमहहहेत्यदृहामः । गीतं गान्ध-र्वशास्त्रसमयानुसारेण महेश्वरसम्बन्धिगुणधर्मादिनिमि-त्तानां चिन्तनम् । नाट्यमपि नाट्यशास्त्रानुसारेण ह-स्तपादादीनामवक्षेपणादिकमङ्गप्रत्यङ्गोपाङ्गसहितं भावा-भावसमेतञ्च प्रयोक्तव्यम् । हुडुक्कारो नाम जिह्वा-तालुर्सयोगान्निष्पाद्यमानः पुष्टवृषनादसदृशो नादः ।हुडुगिति शब्दानुकारो वषडितिवत् । यत्र लौकिका नभवन्ति तत्रैतत् सर्वं गूढं प्रयोक्तव्यम् । शिष्टं प्रसिद्धम् ।द्वाराणि तु क्राथनस्पन्दनभन्दनशृङ्गारणावितत्करणा-वितद्भाधणानि । तत्रासुप्तस्येव सुप्तलिङ्गवद्दर्शनं क्राथ-नम् । वाय्वभिभूतस्येव शरीरावयवानां कम्पनंस्पन्दनम् । उपहतपादेन्द्रियस्येव गमनं भन्दनम् । रूप-पौयनसम्पन्नां कामिनीमवलोक्यात्मानं कामुकमिव यै-र्विलासैः प्रदर्शयति तत् शृङ्गारणम् । कार्य्याकार्य्य-विवेकविकलस्येव लोकनिन्दितकर्मकरणमवितत्करणम् ।भ्याहतापार्थकादिशब्दोच्चारणमवितद्भाषणमिति । गुणभू-तस्तु चर्य्यानुग्राहकोऽनुस्नानादिः भैक्षोच्छिष्टादिनिर्मितायोग्यताप्रत्ययनिवृत्त्यर्थः । तदप्युक्तं सूत्रकारेण “अनु-स्नाननिर्साल्यलिङ्गधारीति” । तत्र समासो नाम धर्मि-मात्राभिधानं तच्च प्रथमसूत्र एव विवृतम्, पञ्चानां पदा-र्थानां प्रमाणतः प्रपञ्चाभिधानं विस्तरः । स खलुराशीकरभाष्ये द्रष्टव्यः । एतेषां यथासम्भवं लक्षण-तोऽसङ्करेणाभिधानं विभागः स तु विहितशास्त्रा-न्तरेभ्योऽमीषां गुणातिशयेन कथनं विशेषः । तथा हिअन्यत्र दुःखनिवृत्तिरेव दुःखान्तः इह तु पारमैश्वर्य्य-प्राप्तिश्च । अन्यत्राऽभूत्वा भावि कार्य्यमिह तु नित्यंपश्वादि । अन्यत्र सापेक्षः कारणम् इह तु निरपेक्षोभगवानेव । अन्यत्र कैवल्यादिफलको योगः इह तुपारमेश्वर्य्यदुःखान्तफलकः । अन्यत्र पुनरावृत्तिः स्वर्गादिःइह पुनरपुनरावृत्तिरूपः सामीप्यादिफलकः । ननु मह-देतदिन्द्रजालं यन्निरपेक्षः परमेश्वरः कारणमिति तथात्वेकर्मवैफल्यं सर्वकार्य्याणां समसमयसमुत्पादश्चेति दोषद्वयंप्रादुःष्यात् मैवं मन्येथाः व्यधिकरणत्वात् । यदि निर-पेक्षस्य भगवतः करणत्वं स्यात्तर्हि कर्मणो वैफल्ये किमा-यातम् । प्रयोजनाभाव इति चेत् कस्य प्रयोजनाभावःकर्मवैफल्ये कारणं किं कर्मिणः? किं वा भगवतः ।नाद्यः ईश्वरेच्छानुगृहीतस्य कर्मणः सफलत्वोपपत्तेः ।तदनुगृहीतस्य ययातिप्रभृतिकर्मवत् कदाचित् निष्फल-त्वसम्भवाच्च । न चैतावता कर्मस्वप्रवृत्तिः कर्षकादिवदुप-पत्तेः ईश्वरेच्छायत्तत्वाच्च पशूनां प्रवृत्तेः । नापि द्वितीयःपरमेश्वरस्य पर्य्याप्तकामत्वेन कर्मसाध्यप्रयोजनापेक्षायाअभावात् । यदुक्तं “समसमयसमुत्पाद” इति तदप्ययुक्तम्अचिन्त्यशक्तिकस्य परमेश्वरस्येच्छानुविधायिन्या अव्याहत-क्रियाशक्त्याः कार्यकारित्वाभ्युपगमात् । तदुक्तं सम्प्र-दायविद्भिः “कर्मादिनिरपेक्षस्तु स्वेच्छाचारीयतो ह्ययम् ।ततः कारणतः शास्त्रे सर्वकारणकारणमिति” । ननु दर्श-नान्तरेऽपीश्वरज्ञानान्मोक्षो लभ्यत एवेति कुतोऽस्य विशेषइति चेन्मैवं वादीः विकल्पानुपपत्तेः किमीश्वरविषयज्ञा-नमात्रं निर्वाणकारणं किं वा साक्षात्कारः अथ वायथावत्तत्त्वनिश्चयः । नाद्यः शास्त्रमन्तरेणापि प्राकृरजन-बद्देवानामधिपो महादेव इति ज्ञानोत्पत्तिमात्रेण मोक्षसिद्धौ शास्त्राभ्यासवैफल्यप्रसङ्गात् । नापि द्वितीयः अने-कमलप्रचयोपचितानां पिशितलोचनानां पशूनां पर-मेश्वरसाक्षात्कारानुपपत्तेः । तृतीयेऽस्मन्मतापातः पाशु-पतशास्त्रमन्तरेण यथावत्तत्त्वनिश्चयानुपपत्तेः! तदुक्त-माचार्य्यैः “ज्ञानमात्रे यथाशास्त्रं साक्षाद्दृष्टिस्तुदुर्लभा । पञ्चार्थादन्यतो नास्ति यथावत्तत्त्वनिश्चयः”इति । तस्मात् पुरुषार्थकामैः पुरुषधौरेयैः पञ्चार्थ-प्रतिपादनपरं पाशुपतशास्त्रमाश्रयणीयम्” । नकुलीश्च-रोऽपि शिवे काशीस्थशिवलिङ्गभेदे च काशीख० १०० अ० ।४०० पृष्ठस्थनष्टशब्दार्थपरिशिष्टम् । छन्दःशास्त्रसिद्धेप्रस्तारे इयत्सङ्ख्यकत्वमात्रज्ञाने तत्स्वरूपावधारणाय४ क्रियाभेदे “प्रस्तारो नष्टमुद्दिष्टमेकद्व्यादिलगक्रिया”वृत्तर० उपक्रमे “नष्टस्य यो भवेदङ्कस्तस्यार्द्धेऽर्द्धे समे चलः । विषमे चैकमाधाय तस्यार्द्धेऽर्द्धे गुरुर्भवेत्” । नष्टस्यअज्ञातस्वरूपस्य योऽङ्कः प्रस्तारमध्यपातिसंख्याज्ञापकःअङ्कः तस्य तत्संख्यायाः समत्वे लोलघुर्लेख्यः तस्यअर्द्धे कृते तस्य समत्वे च सति लो लघुर्लेख्यः । पुन-स्तस्याप्यर्द्धे समे लघुः एवं याबदक्षरसंख्या तावत् ।नष्टस्य संख्याया विषमत्वे गुरुः, तत्रैकमाधाय संयोज्यतस्यार्द्धे कृते विषमत्वे गुरुः समत्वे लघुः विषमत्वेएकयोजिते पुनरर्द्धे कृते समत्वे लघुः विषमत्वेगुरुः, यथा त्र्यक्षरप्रस्तारे चतुर्थो भेदः कीदृशः इतिप्रश्ने, तत्संख्यायाः समत्वात् प्रथमं लघुः तस्यार्द्धे कृतेतस्य समत्वेन पुनर्लघुः शिष्टे द्व्यङ्केऽर्द्धीकृते तस्यविषमत्वात् गुरुः एवञ्च चतुर्थो भेदः अन्त्यगुरुइत्युत्तरम् इत्यर्थः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
