न्यूङ्ख (nyUGkha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritन्यु(न्यू)ङ्ख नि + उङ्ख घञ् पृषो० वा दीर्घः । १ ऋग्भेदे गीतिषुउदात्तानुदात्तरूपेषु षोडशसु ओकारेषु तत्र त्रयः प्लुताःत्रयोदश अर्द्धौकारा इत्येवं षोडश ओकाराः तत्प्र-कारादिः आश्व० श्रौ० ७११ प्रथमादिसूत्रेषूक्तो यथा“चतुर्थेऽहनि यत् प्रातरनुवाकं प्रतिपद्यर्धर्चाद्योर्न्युङ्खः”१ सू० “पार्ष्टिके चतुर्थेऽहनि यत् प्रातरनुवाकं तस्या-द्याया ऋचोयावर्धर्चयोरादी तयोन्युङ्खो भवति ।अहरधिकारे पुनेरहनीतिवचनम् अहर्धर्मोऽयं न्युङ्खइति प्रदर्शनार्थम् । तेनात्र यान्युङ्खभाज ऋचस्तासा-सन्यत्र वचनादृते त्युङ्खो न भवति नारा० वृ० “द्वितीयंस्वरमोकारत्रिमात्रमुदात्तन्त्रिः” २ सू० “इदानीं न्युङ्खस्यलक्षणमुच्यते तयोरर्धर्चयोर्यो द्वितीयः स्वरः संहिता-वस्थायान्तमोकारं त्रिमात्रं कृत्वा त्रिः ब्रूयात् पच्छो-ऽर्धर्चशः कृच्छ्रश इति सर्वत्र शंसनविधानात् । संहिताव-स्थायामेव मन्त्राणां शंसनमुक्त भवति । अत्र संहिताव-स्थायामेवमित्युक्तम् । पूर्वसूत्रेऽर्धचांद्योरित्याद्ययोर-क्षरयोर्न्युङ्खो विहितः इह तु द्वितीययोर्विधीयते कथ-मनयोः सम्बन्ध इति पूर्वसूत्रस्यायमभिप्रायः ब्राह्मणोक्तोथो न्युङ्खविधिरेकाक्षरद्व्यक्षरत्र्यक्षरचतुरक्षरैरिति सो-ऽयमर्धर्चाद्योरित्यनेन सूचितो भवति । यस्तु खलुपक्षस्तत्रैव सिद्धान्तितः तस्मात् द्व्यक्षरेणैव न्युङ्खयेत्इति तमेव पक्षमङ्गीछत्येदानीं न्युङ्खो विधीयते द्वितीयंस्वरम् इत्यादिना” नारा० वृ० । “तस्य तस्य चोपरि-ष्टादपरिमितान् पञ्च वार्धौकाराननुदात्तान्” ३ सू० “तस्यतस्यौकारस्योपरिष्टादर्धौकाराननुदात्तानपरिमितान् त्रोन्चतुरः पञ्च वा ब्रूयात् । यत्र सङ्ख्याविशेषनिर्दि-ष्टस्यापरिमितशब्द ब्रवीति तत्र निर्दिष्टसङ्ख्याविशेषा-दुपरिष्टादपरिमितशब्दार्थो ग्रहीतव्यः । यत्र पुनरु-परिष्टात् संख्याविशेषोन निर्दिष्टस्तत्र प्रागेव संख्यावि-शेषात् बहुत्वे सत्येवानियता ग्रहीतव्येति सिद्धम् ।अर्धश्चासौ ओकारश्चार्धौकार इति कर्मधारयः” नारा० वृ० ।“उत्तमस्य तु त्रीन्” ४ सू० “उत्तमस्यौकारस्योपरिष्टात्त्रीनेवार्धौकारान् ब्रूयात्” नारा० वृ० । “पूर्वमक्षरं निह-न्यते न्युङ्ख्यमाने” ५ सू० “निहन्यत इत्यनुदात्तीक्रियतइत्यर्थः । न्युङ्खाधिकारे पुनर्न्युङ्ख्यमान इति वचनप्रथमे द्वितीये तृतीये चतुर्थे वाक्षरे न्युङ्ख्यमानेऽपि तस्मात्पूर्वमक्षरं न निहन्यत इत्येवमर्थम्” नारा० वृ० । “तदपिनिदर्शनायोदाहरिष्यामः” ६ सू० “उक्तलक्षणस्यापिन्युङ्खस्यार्धौकारस्वरूपस्यालौकिकत्वादन्यदप्येवं जाती-यकं सन्देहं व्यबर्त्तयितुं निदर्शनं क्रियते” नारा० वृ० ।“आपो ३ उउउउउ ओ ३ उउउउउ ओ ३ उउउ श्च स्थः स्वपस्यपत्नीः सरस्वती तद्गृणते । वयोधो ३ मापो २” ७ सू० “आपो ३प्लुतः रायो ३ प्लुतः वयोधो ३ मापो ३ प्लुत इत्येवं न्युङ्खस्यपुनरावृत्तिप्रदर्शनं प्रत्यावृत्ति न्युङ्खप्रापणार्थम् । अयमेवपाठः अवच्छिन्नसम्प्रदायागतः । यस्तु पुनःसंहितानुरू-मेण पाठः स प्रमादकृतत्वात् त्यक्तव्यः” नारा० वृ० । अत्रप्लुतस्य ओकारत्रयस्य उपरिशिष्टात् पञ्च पञ्च च अर्द्धो-कारा एव बोध्या उकाराकारेण ये दर्शितास्ते अर्द्धौ-कारा इति बोध्यम् “यज्ञकर्मण्यजपन्युङ्खसमासु” व्य०“यज्ञक्रियायां मन्त्रएकश्रुतिः स्याज्जपादीन्वर्ज्जयित्वा“अग्निर्मूर्द्ध्वादिवः ककुत्” । यज्ञेति किम्? स्वाध्याय-काले त्रैस्वर्य्यमेव । अजपेति किम्? ममाग्ने! वर्चोविहवेष्वस्तु । जपोनाम उपांशुप्रयोगः यथा जलेनिमग्नस्य । न्युङ्खानाम षोडश ओकाराः गीतिषु समा-ख्याः” सि० कौ० कात्या० श्रौ० भाष्यादौ द्वादश ओकारादीर्घमध्या न्यूङ्खतया उक्ता यथा“एकर्श्रुतिर्दूरात् सम्बुद्धौ यज्ञकर्मणि सुब्रह्मण्यासामजपन्यूङ्खयाजमानवर्जम्” कात्या० श्रौ० १ । ८ । १९ “एकश्रुति-र्दूरात्सम्बुद्धावित्यनुवर्त्तमाने यज्ञकर्मणि मन्त्राणामेकश्रु-तिर्भवति न केनचित् स्वरेण प्रयोगः किं सर्वत्र सुब्रह्म-ण्यासामजपन्यूङ्खयाजमानवर्जम् । एतानि वर्जयित्वाअन्येषु मन्त्रेष्वेकश्रुतिर्भवति । सुब्रह्मण्योऽमिन्द्रागच्छे-त्यादिर्निगदः सुब्रह्मण्या सामानि उङ्कातृभिर्यज्ञे गीय-मानानि । जपाश्च धूरसि इन्द्रस्य बाहुरसि मयिदित्याद्याजपतीति शब्देन चोदिता मन्त्राः । न्यूङ्खास्तु पृष्ठ्येप्रडहे होतृवेदे प्रसिद्धा ओकारा द्वादश पिबा सोममि-न्द्र मन्दतु त्वा यं तो ओ ओ ओ ३ ओ ओ ओ ३ ओओ ओ ओ ३ सुषाव । हर्य्यश्वाद्रिरित्यादयः । याजमानंच सर्वं विष्णुक्रमादिक्रम् । तत्सम्बन्धिनो ये मन्त्रा-दिवि विष्णुरित्याद्याः अथ वा यजमानस्येमे याजमानाःएषु सुब्रह्मण्यादिषु याजमानान्तेषु यथा प्राप्तएव संहितास्वरो भवति नैकश्रुतिः” कर्कः । अनयोः पक्षयोः वेदभे-दादविरोधः । २ अतिशये ३ मनोहरे ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
