| YouTube Channel

न्युब्जं (nyubjaM)

 
शब्दकल्पद्रुमः
Sanskrit
न्युब्जं,
क्ली,
(न्युब्जति अधोमुखीभवतीति नि +उब्ज + अच् ।) कर्म्मरङ्गफलम् इति मेदिनी ।जे, १२
श्राद्धादिपात्रभेदः इति शब्दरत्नावली
तथा गोभिलः प्रथमे पात्रे संस्रवान् सम-वनीय पात्रं न्युब्जं कुर्य्यात् पितृभ्यः स्थान-मसीति प्रथमे पात्रे पितृपात्रे संस्रवान्पितामहादिपञ्चार्घपात्रस्थशेषजलानि समव-नीय क्रमेण स्थापयित्वा तत्पात्रस्य प्रपितामह-पात्रेणाच्छादनमाह शौनकः प्रपितामह-पात्रेण पिधाय प्रतिष्ठापयतीति याज्ञवल्क्ये-नापि तत्पात्रस्याधःस्थत्वाभिधानात् पात्रा-न्तरेण पिधानमाक्षिप्तम् तथा याज्ञ-वल्क्यः ।“दत्त्वार्घ्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः ।पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः
”विधानतः यथापूर्व्वं स्थापितं क्रमेण तेनप्रपितामहपात्रेणाधःकृतं पितृपात्रं ऊर्द्ध्वमुख-मवस्थितं न्युब्जं करोति तन्न्यासश्च पितृ-पात्रे निधायाथ न्युब्जमुत्तरतो न्यसेत् इतिमत्स्यपुराणवचने न्यसेदित्यत्राख्यातोपस्थापित-कर्त्तुर्व्वामपार्श्वे कर्त्तव्यः इति श्राद्धतत्त्वम्