| YouTube Channel

न्यग्रोधपरिमण्डलः (nyagrodhaparimaNDalaH)

 
शब्दकल्पद्रुमः
Sanskrit
न्यग्रोधपरिमण्डलः,
पुं,
(न्यग्रोधः व्यामः परि-मण्डलं परिणाहो यस्य ।) व्यामपरिमितोच्छ्रय-परीणाहः पुरुषः एतादृशाः पुरुषास्त्रेतायुगेचक्रवर्त्तिन आसन् यथा मात्स्ये ११८ अः ।“महाधनुर्धराश्चैव त्रेतायां चक्रवर्त्तिनः ।सर्व्वलक्षणसम्पन्ना न्यग्रोधपरिमण्डलाः
न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उट्यते ।व्यामेन उच्छ्रयो यस्य अध ऊर्द्ध्वञ्च देहिनः ।समोच्छ्रयपरीणाहो न्यग्रोधपरिमण्डलः
”(अपिच भट्टिटीकायां भरतमल्लिकधृताग्नि-पुराणवचनम् ।“प्रसारितभुजस्येह मध्यभागद्वयान्तरम् ।उच्छ्रायेण समं यस्य न्यग्रोधपरिमण्डलः
”)