| YouTube Channel

न्यग्रोधपरिमण्डल (nyagrodhaparimaNDala)

 
Spoken Sanskrit
English
न्यग्रोधपरिमण्डल - nyagrodhaparimaNDala -
adj.
- being a fathom in circumference
Monier Williams Cologne
English
न्यग्—रोध—परिमण्डल
mfn.
being a fathom in circumference,
MatsyaP.
Shabdartha Kaustubha
Kannada
न्यग्रोधपरिमण्डल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮಾರುದ್ದದ ಮನುಷ್ಯ /ನಾಲ್ಕು ಮೊಳಗಳ ಎತ್ತರದ ಮನುಷ್ಯ
व्युत्पत्तिः - > न्यग्रोधः व्यामः परिमण्डलं यस्य
Schmidt Nachtrage zum Sanskrit Worterbuch
German
न्यग्रोधपरिमण्डल 1., Mahāvy. 17, 20
Lalit. 120, 22
Lot. de la b. l. 570.
शब्दकल्पद्रुमः
Sanskrit
न्यग्रोधपरिमण्डलः,
पुं,
(न्यग्रोधः व्यामः परि-मण्डलं परिणाहो यस्य ।) व्यामपरिमितोच्छ्रय-परीणाहः पुरुषः एतादृशाः पुरुषास्त्रेतायुगेचक्रवर्त्तिन आसन् यथा मात्स्ये ११८ अः ।“महाधनुर्धराश्चैव त्रेतायां चक्रवर्त्तिनः ।सर्व्वलक्षणसम्पन्ना न्यग्रोधपरिमण्डलाः
न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उट्यते ।व्यामेन उच्छ्रयो यस्य अध ऊर्द्ध्वञ्च देहिनः ।समोच्छ्रयपरीणाहो न्यग्रोधपरिमण्डलः
”(अपिच भट्टिटीकायां भरतमल्लिकधृताग्नि-पुराणवचनम् ।“प्रसारितभुजस्येह मध्यभागद्वयान्तरम् ।उच्छ्रायेण समं यस्य न्यग्रोधपरिमण्डलः
”)
वाचस्पत्यम्
Sanskrit
न्यग्रोधपरिमण्डल
पु०
न्यग्रोधःव्यामः परिमण्डलं परिणाहोयस्य व्यामपरिमितोच्छ्रायपरिणाहे पुरुषे तल्लक्षणयथा “महाधनुर्द्धराश्चैव त्रेतायां चक्रवर्त्तिनः सर्व-लक्षणसम्पन्नान्यग्रोधपरिमण्डलाः न्यग्रोधौ तु स्मृतौवाहु व्यामी न्यग्रोध उच्यते व्यामेन उच्छ्रयो यस्यअध ऊर्द्ध्वञ्च देहिनः समोच्छ्रयपरिणाहो न्यग्रो-धपरिमण्डलः” मत्स्यपु० ११८ अ० अङ्गनाविशेषे स्त्री“स्तनौ सुकठिनौ यस्या नितम्बे विशालता मध्येक्षीणा भवेद्या सा न्यग्रोधपरिमण्डला” इति शब्दमा०दूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला” भट्टिः