न्ती (ntI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“इ गतौ”@} 2 ‘अयत्येतीयते गत्यां अधीतेऽध्येति चेङिकोः।’ 3 इति देवः।
‘इट किट कटी गतौ’ इति धातुपाठे निर्दिश्यते।
‘कटी’ इत्यत्र ‘कटि + इ-’ इति ह्रस्वेकारात्मकं धात्वन्तरं प्रश्लिष्टमिति कचित्।
तस्य च अयति-इयाय-एता-इत्यादीनि रूपाणि।
अत एव ‘उदयति विततोर्ध्वरश्मि- रज्जौ अहिमरुचौ हिमधाम्नि याति चास्तम्’ 4, ‘उदयति दिननाथो याति शीतांशुरस्तम्’ इत्यादिप्रयोगाणामुपपत्तिः।
आयकः-यिका, आयकः-यिका, 5 ईषिषकः-षिका
6 एता-त्री, आययिता-त्री, ईषिषिता-त्री
7 उदयन् अयन् न्ती, आययन्-न्ती, ईषिषन्-न्ती
एष्यन्-न्ती-ती, आययिष्यन्-न्ती-ती, ईषिषिष्यन्-न्ती-ती
-- आययमानः, आययिष्यमाणः
-- 8 इत्-इतौ-इतः
-- -- इतं-तः-तवान्, आयितः, ईषिषितः, तवान्
अयः, आयः, ईषिषुः, आयिययिषुः
एतव्यम्, आययितव्यम्, ईषिषितव्यम्
अयनीयम्, आयनीयम्, ईषिषणीयम्
एयम्, उपेयम्, आय्यम्, 9 ईषिष्यम्
10 ईषदयः-दुरयः-स्वयः
-- 11 ईयमानः, आय्यमानः, ईषिष्ययाणः
12 अयः, 13 आयः, आयः, ईषिषः
एतुम्, आययितुम्, ईषिषितुम्
इतिः, आयना, ईषिषा, आयिययिषा
अयनम्, आयनम्, ईषिषणम्
इत्वा, आययित्वा, ईषिषित्वा
समित्य, 14 उपेत्य, समाय्य, समीषिष्य
आयम् २, इत्वा २, आयम् २, आययित्वा २, ईषिषम् २
ईषिषित्वा २
01 (६१-आ)
02 (१-भ्वादिः-३२०-सक-अनिट्-पर-)
03 (श्लो १४)
04 (शिशुपालवधे ४-२०)
05 [[१। ‘इको झल्’ (१-२-९) इति सनः कित्त्वाद् गुणाभावः। ‘अज्झनगमां--’ (६-४-१६) इति दीर्घः। ‘सन्यतः’ (७-४-७९) इत्यभ्यासस्येत्त्वम्। ‘श्र्युकः क्किती’ (७-२-११) ति इण्णिषेधः।]]
06 [[२। ‘सार्वंधातुकार्धधातुकयो--’ (७-३-८४) रिति गुणः।]]
07 [[आ। ‘प्रकण्डिताशोदयदंशुमण्डितैरकुण्डरत्नैर्मुडितार्कदीधितीन्।’ धा। का। १-४२]]
08 [[३। ‘ह्रस्वस्य पिति कृति तुक्’ (६-१-७१) इति तुक्।]]
09 [[४। ‘एङि पररूपम्’ (६-१-९४) इति पररूपम्।]]
10 [पृष्ठम्००६२+ २७]
11 [[१। ‘अकृत्सार्वधातुकयो--’ (७-४-२५) रिति दीर्घः।]]
12 [[२। ‘एरच्’ (३-३-५६) इति भावेऽच्।]]
13 [[३। ‘अकर्तरि च कारके--’ (३-३-१९) इति घञ्।]]
14 [[४। ‘षत्वतुकोरसिद्धः’ (६-१-८६) इत्येकादेशशास्त्रस्यासिद्धत्वात् तुक्।]]
1 {@“णट नृत्तौ”@} 2 अक।
सेट्।
पर।) 3 घटादौ ‘णट नृत्तौ’ इति पठ्यते।
भ्वादावेव पूर्वमपि एवमेव पठितम्।
अत्र घटादिपठितस्य धातोः नृत्यं, नृत्तं चार्थः।
पदार्थाभिनयो नृत्यम्।
अभिनयशून्यः शास्त्रोक्ताङ्गभङ्गरूपः गात्रविक्षेपो नृत्तम्
यत्कारिषु नर्तकव्यपदेशः प्रसिद्धः।
अनयोरर्थयोर्मित्त्वप्रयुक्तं कार्यं भवति।
णोपदेशत्वमप्यस्मिन्नेवार्थे।
अवस्पन्दनरूपार्थे तु मित्त्वं न।
णोपदेशकारिकायाम्, ‘अणाटि’ इति दीर्घघटितनिर्देशेन, दीर्घार्हस्य णोपदेशत्वं प्रतिषिध्यते।
क्षीरस्वामी तु ‘नतौ’ इति पठित्वा, ‘नटयति’ शाखाम्’ इत्युदाहृत्य, ‘नृतौ तु नटति, नाटयति।’ इत्युक्तवान्।
‘नृत्तौ’ इत्यस्य, नाट्यमित्यर्थोऽभिमत इति वक्तव्यम्
नृत्तनृत्ययोस्त्वर्थयोर्मित्संज्ञायाः सर्वाभिमतत्वात्।
‘नट गतौ’ इत्यन्ये पठन्ति।]] घटादिः।
‘नृतौ नटत्यवस्पन्दे चुरादेर्णिचि नाटयेत्।’ 4 इति देवः।
नाटकः-टिका, 5 प्रणटकः-प्रनाटकः-टिका, निनटिषकः-षिका, नानटकः-टिका
नटिता-त्री, प्रणटयिता-प्रनाटयिता-त्री, निनटिषिता-त्री, नानटिता-त्री
नटन्, न्ती, 6 प्रणटयन्-नटयन्, प्रनाटयन्-न्ती, निनटिषन्-न्ती
-- नटिष्यन्-न्ती-ती, प्रणटयिष्यन्-प्रनाटयिष्यन्-न्ती-ती, निनटिषिष्यन्-न्ती-ती
व्यतिनटमानः, व्यतिनटिष्यमाणः, -- नानट्यमानः, नानटिष्यमाणः
नट्-नड्-नटौ-नटः
-- -- -- नटितम्-तः, नटितः-नाटितः, निनटिषितः, नानटितः-तवान्
7 नटः, 8 नटी, नटः-नाटः, निनटिषुः, नानटः
नटितव्यम्, नटयितव्यम्-नाटयितव्यम्, निनटिषितव्यम्, नानटितव्यम्
नटनीयम्, नटनीयम्-नाटनीयम्, निनटिषणीयम्, नानटनीयम्
नाट्यम्, नट्यम्, नाट्यम्, निनटिष्यम्, नानट्यम्
ईषन्नटः- 9 दुर्नटः-सुनटः
-- -- -- नट्यमानः, नट्यमानः-नाट्यमानः, निनटिष्यमाणः, नानट्यमानः
नाटः, नटः-नाटः, निनटिषः, नानटः
नटितुम्, नटयितुम्-नाटयितुम्, निनटिषितुम्, नानटितुम्
10 नट्टिः, नटना-नाटना, निनटिषा, नानटा
नटनम्, नटनम्-नाटनम्, निनटिषणम्, नानटनम्
नटित्वा, नटयित्वा-नाटयित्वा, निनटिषित्वा, नानटित्वा
प्रणट्य, 11 प्रणटय्य-प्रनाट्य, निनटिष्य, नानट्य
नटम् २, नटित्वा २, 12 नटम् २ -नाटम् २, नटयित्वा २ -नाटयित्वा २, निनटिषम् २, निनटिषित्वा २, नानटम् २
नानटित्वा २।
01 (६५७)
02 (१-भ्वादिः-३१०। (७८१)
03 [[[अ]
04 (श्लो। ७६)
05 [[१। नृत्तनृत्ययोरर्थयोः मित्त्वात् णौ परतः, ‘मितां ह्रस्वः’ (६-४-९२) इत्युप- धाया ह्रस्वो भवति। णोपदेशत्वाच्च णत्वमपि भवति। अन्यत्र तु मित्त्वं, णोपदेशत्वं च न। अत एव ण्यन्ते सर्वत्र रूपद्वयं प्रदर्शितम्।]]
06 [[२। ‘अणावकर्मकाच्चित्तवत्कर्तृकात्’ (१-३-८८) इति ण्यन्तात् परस्मैपदमेव, न शानच्।]]
07 [पृष्ठम्०६११+ २२]
08 [[१। पचाद्यचि गौरादिपाठात् (४-१-४१) स्त्रियां ङीष्।]]
09 [[२। ‘दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वाच्यः’ (वा। १-४-६०) इति वचनात् णत्वं न। एवं णोपदेशधातुषु सर्वत्र ज्ञेयम्।]]
10 [[३। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधे, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वम्।]]
11 [[४। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
12 [[५। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]
1 {@“दासृ दाने”@} 2 ‘दंसयेन्मोक्षणे, दस्येत् क्षये दंसयते णिचि।।
दंशदर्शनयोः, दासेर्दाने दासति दासते।’ 3 इति देवः।
दासकः-सिका, दासकः-सिका, दिदासिषकः-षिका, दादासकः-सिका
4 इत्यादीनि सर्वाण्यपि रूपाणि पूर्वलिखितकासृधातुवत् 5 ज्ञेयानि।
अस्य धातोः परस्मैपदित्वात् शतरि एवं रूपमिति विशेषः--दासन्-न्ती, दासयन्- न्ती
इति।
01 (८३६)
02 (१-भ्वादिः-८९४। सक। सेट्। उभ।)
03 (श्लो १८६-१८७)
04 [पृष्ठम्०७४१+ २४]
05 (१८८)
1 {@“पुट भाषार्थः”@} 2 आस्वदीयः।
‘भाषासंसर्गसंश्लेषे पोटयेत् पुटयेत् पुटेत्।।’ 3 इति देवः।
पोटकः-टिका, पुपोटयिषकः-षिका, इत्यादीनि सर्वाण्यपि रूपाणि चौरादिक- 4 कोटयतिवत् 5 बोध्यानि।
अस्य धातोरुभयपदित्वात्, शतरि पोटयन्- न्ती, पुपोटयिषन्, पोटयिष्यन्, पुपोटयिषिष्यन्-न्ती-ती
इति विशेषः।
01 (१०११)
02 (१०-चुरादिः-१७५४। सक। सेट्। उभ।)
03 (श्लो। ७५)
04 [पृष्ठम्०८६७+ २५]
05 (२०५)
1 {@“मश शब्दे रोषकृते च”@} 2 ‘शब्दने, रोषक्रियायां चार्थे--’ इति क्षीरस्वामी।
“शब्दकोपयोः-इति द्रुमोक्त्या रोषकृतम् = रोष एव।” इति धा।
का।
व्याख्यायाम् 3।
माशकः-शिका, माशकः-शिका, मिमशिषकः-षिका, मामशकः-शिका
मशिता-त्री, माशयिता-त्री, मिमशिषिता-त्री, मामशिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि आदादिककशतिवत् 4 ज्ञेयानि।
शतरि--कशन्- न्ती, क्विपि- 5 मट्-मड्-मशौ-मशः
इत्यादीनि रूपाण्यस्य भवन्तीति विशेषः।
6 मशकः।
7 मशनः।
01 (१२३१)
02 (१-भ्वादिः-७२४। अक। सेट्। पर।)
03 (१-९०)
04 (१७८)
05 [[३। क्विपि, ‘व्रश्च--’ (८-२-३६) इत्यादिना षत्वे जश्त्वचर्त्वयोश्च रूपमेवम्।]]
06 [[४। ‘क्वुन् शिल्पिसंज्ञयोः--’ (द। उ। ३। ५) इति संज्ञायां क्वुन्प्रत्यये रूपमेवम्।]]
07 [[५। ‘चलनशब्दार्थात्--’ (३-२-१४८) इति ताच्छीलिके युचि रूपमेवम्।]]
1 {@“रभ राभस्ये”@} 2 राभस्यम् = कार्योपक्रमः।
अयं प्रायेण आङ्पूर्वक एव प्रयुज्यते।
3 4 आरम्भकः-म्भिका, 5 रम्भकः-म्भिका, 6 रिप्सकः-प्सिका, रारभकः-भिका
7 आरब्धा-ब्ध्री, रम्भयिता-त्री, रिप्सिता-त्री, रारभिता-त्री
-- रम्भयन् न्ती, रम्भयिष्यन्-न्ती-ती
-- 8 आरभमाणः, 9 आरभमाणः, रम्भयमाणः, रिप्समानः, रारभ्यमाणः, रप्स्यमानः, रम्भयिष्यमाणः, रिप्सिष्यमाणः, रारभिष्यमाणः
सुरप्-सुरभ्-सुरभौ-सुरभः
-- -- आरब्धम्-ब्धः, रम्भितम्-तः, रिप्सितम्, रारभितम्-तः-तवान्
10 11 रम्भः-रम्भा, 12 साध्वारम्भी, रम्भः, रिप्सुः, 13 रारम्भः
आरब्धव्यम्, आरम्भयितव्यम्, रिप्सितव्यम्, रारभितव्यम्
आरम्भणीयम्, आरम्भणीयम्, रिप्सनीयम्, रारभणीयम्
14 आरभ्यम्, आरम्भ्यम्, रिप्स्यम्, रारभ्यम्
ईषद्रम्भः-दूरम्भः-सुरम्भः
-- -- -- आरभ्यमाणः, आरम्भ्यमाणः, रिप्स्यमानः, रारभ्यमाणः
आरम्भः, आरम्भः, रिप्सः, रारभः
आरब्धुम्, आरम्भयितुम्, रिप्सितुम्, रारभितुम्
रब्धिः, आरम्भणा, रिप्सा, रारभा
आरम्भणम्, आरम्भणम्, रिप्सनम्, रारभणम्
रब्ध्वा, रम्भयित्वा, रिप्सित्वा, रारभित्वा
आरभ्य, आरम्भ्य, आरिप्स्य, आरारभ्य
रम्भम् २, रब्ध्वा २, रम्भम् २, रम्भयित्वा २, रिप्सम् २, रिप्सित्वा २, रारभम् २
रारभित्वा २
15 इत्यसच्प्रत्यये रूपम्।
बाहुलकात्, ‘राभस्ये’ इति निर्देशाद्वा नुम् न।]] रभसः।
01 (१३७८)
02 (१-भ्वादिः-९७४। अक। अनि। आत्म।)
03 [पृष्ठम्११०२+ २८]
04 [[१। ‘रभेरशब्लिटोः’ (७-१-६३) इति, अजादिषु प्रत्ययेषु शब्लिड्वर्जं नुमागमः। एवमेव घञादिष्वपि ज्ञेयम्। “काशकृत्स्नधातुपाठीयकन्नडटीकायां रभकः रभः, रभमाणः, रभणीयम् इत्यादिप्रयोगेषु नुमोऽदर्शनात् वस्तुतः सानुषङ्गाः आरम्भः, आरम्भणम्… इत्येवमादयः प्रयोगाः न रभधातोः, किं तर्हि? सानुषङ्गस्य रम्भधातोः…” इत्यादिकं क्षीरतरङ्गिणीटिप्पणे (पुटे १५१) सुदूरं विचारितम्। तत्र पाणिनीयधातुपाठकोशेषु कुत्रापि सानुषङ्गस्य रम्भधातोरुल्लेखाभावात् प्रमाणं मृग्यमिति बोध्यम्। ‘रेभृ शब्दे’ इति भौवा- दिकस्य धातोः दुर्गसम्मतं ‘रभि शब्दे’ इति पाठमाश्रित्य निर्वाहं केचित् कुर्वन्ति। तदपि दुर्गान्यैस्तत्पाठानादरात् न प्रमाणमिति बोध्यम्।]]
05 [[२। ण्यन्ते ण्वुलि, ‘अत उपधायाः’ (७-२-११६) इति प्राप्तां परामपि वृद्धिं बाधित्वा, ‘रभेरशब्लिटोः’ (७-१-६३) इति नुम् नित्यत्वाद्भवति।]]
06 [[३। सन्नन्ते, ‘सनि मीमाघुरभ--’ (७-४-५४) इत्यादिना इस्। ‘अत्र लोपोऽ- भ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। ‘स्कोः--’ (८-२-२९) इति सलोपः। भकारस्य चर्त्वेन पकारः।]]
07 [[४। तृजादिषु ‘झषस्तथोः--’ (८-२-४०) इति धत्वे, जश्त्वे च रूपमिति ज्ञेयम्।]]
08 [[५। शानचि, ‘रभेरशब्लिटोः’ (७-१-६३) इत्युक्तत्वात् नुमागमो न। यस्तु परि- भाषेन्दुशेखरे ‘गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः’ (परिभाषा १६) इत्यत्र, “…संज्ञाभूतानां प्रतिषेधम् आरभता वार्तिककृता…” इति वाक्ये, आत्मनेपदस्यास्य धातोः शत्रन्तप्रयोगः प्रयुक्तः, स तु सम्पातायात इति न तावता धातोरस्योभयपदित्वं कल्प्यम्। न च ‘अनुदात्तेत्त्वलक्षणमात्मनेपदम् अनित्यम्’ (परि। ९७) इति वचनात् आत्मनेवदस्यानित्यत्वात् ‘आरभता’ इति प्रयोगः सूपपन्न इति वाच्यम्। तस्याः परिभाषायाः भाष्याद्यनादृतत्वेनाप्रामाण्यस्य नागेशभट्टैरेव समर्थितत्वादित्यन्यत्र विस्तरः। ‘भोक्तुम् आरभमाणः’ इत्यत्र, ‘शकधृषज्ञाग्लाघटरभ--’ (३-४-६५) इत्यादिना धातुमात्रात् तुमुन्।]]
09 [भोक्तुम्]
10 [पृष्ठम्११०३+ २६]
11 [[१। पचाद्यचि नुमि रम्भः। स्त्रियां टापि रम्भा = अप्सरोविशेषः, कदली च।]]
12 [[२। ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिः।]]
13 [[३। यङन्तात् पचाद्यचि, यङो लुकि नुमागमे च रूपमेवम्।]]
14 [[४। ‘पोरदुपधात्’ (३-१-९८) इति यत्प्रत्ययः। हलन्तलक्षणण्यतोऽपवादः।]]
15 [[५। ‘अत्यविचमितमिरभि--’ [द। उ। ९-४४]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
