| YouTube Channel

नैशं (naizaM)

 
शब्दकल्पद्रुमः
Sanskrit
नैशं, त्रि, (निशायाइदम् निशा + “तस्येदम् ।”४ १२० इति अण् ।) निशासम्बन्धि ।(यथा, बृहत्संहितायाम् ।“सलिलमये शशिनि रवेर्दीधितयो मूर्च्छिता-स्तमो नैशम् ।क्षपयन्ति दर्पणोदरनिहिता इव मन्दिर-स्यान्तः
*
निशायां भवम् निशा + “निशाप्रदोषाभ्याञ्च ।”४ १४ इति पक्षे अण् ।) निशाभवम् ।इति सिद्धान्तकौमुदी
(यथा, मनुः १०२ ।“पूर्व्वां सन्ध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति ।पश्चिमान्तु समासीनो मलं हन्ति दिवाकृतम्
”)