नैवेद्यं (naivedyaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritनैवेद्यं, (निवेदं निवेदनमर्हतीति । निवेद +ष्यञ् ।) देवाय निवेदनीयद्रव्यम् । तस्य निरुक्ति-र्यथा, --“चतुर्व्विधं कुलेशानि द्रव्यं ते षड्रसान्वितम् ।निवेदनात् भवेत्तृप्तिर्नैवेद्यं तदुदाहृतम् ॥
”इति कुलार्णवे १७ उल्लासः ॥
तद्द्रव्याणि यथा, --“ससितेन सुशुद्धेन पायसेन ससर्पिषा ।सितोदनं सकदलिदध्याद्यैश्च निवेदयेत् ॥
”इति प्रपञ्चसारः ॥
तत् पञ्चविधम् । यथा, --“निवेदनीयं यद्द्रव्यं प्रशस्तं प्रयतं तथा ।तद्भक्ष्यार्हं पञ्चविधं नैवेद्यमिति कथ्यते ॥
भक्ष्यं भोज्यञ्च लेह्यञ्च पेयं चूष्यञ्च पञ्चमम् ।सर्व्वत्र चैतन्नैवेद्यमाराध्यास्यै निवेदयेत् ॥
” * ॥
तत् पात्रं यथा, --“तैजसेषु च पात्रेषु सौवर्णे राजते तथा ।ताम्रे वा प्रस्तरे वापि पद्मपत्रेऽथवा पुनः ॥
यज्ञदारुमये वापि नैवेद्यं स्थापयेद्बुधः ।सर्व्वाभावे च माहेये स्वहस्तघटिते यदि ॥
”इति तन्त्रसारः ॥
* ॥
तद्दानफलं यथा, --“नैबेद्येन भवेत् स्वर्गो नैवेद्येनामृतं भवेत् ।धर्म्मार्थकाममोक्षाश्च नैवेद्येषु प्रतिष्ठिताः ॥
सर्व्वयज्ञफलं नित्यं नैवेद्यं स्रर्व्वतुष्टिदम् ।ज्ञानदं मानदं पुण्यं सर्व्वभोग्यमयं तथा ॥
मनसापि महादेव्यै नैवेद्यं दातुमिच्छति ।यो नरो भक्तियुक्तः सन् दीर्घायुः स सुखी भवेत् ॥
महामायां कदा देवीमर्च्चयिष्यामि शक्तितः ।नानाविधैस्तु नैवेद्यैरिति चिन्ताकुलस्तु यः ।स सर्व्वकामान् संप्राप्य मम लोके महीयते ॥
”इति कालिकापुराणे । १६९ । १७० । अध्यायः ॥
तत्कालो यथा, --“अर्व्वाक् विसर्ज्जनाद्द्रव्यं नैवेद्यं सर्व्वमुच्यते ।विसर्ज्जिते जगन्नाथे निर्म्माल्यं भवति क्षणात् ॥
पञ्चरात्रविदो मुख्या नैवेद्यं भुञ्जते सुखम् ॥
”इति गरुडपुराणम् ॥
तस्य स्थापनक्रमो यथा, -- गौतमीये ।“नैवेद्यं दक्षिणे भागे पुरतो वा न पृष्ठतः ॥
दक्षिणभागस्तु देवताया एव न तु साधकस्य ।पक्वञ्च देवतावामे आमान्नञ्चैव दक्षिणे ॥
पुरश्चरणचन्द्रिकायाम् ।दक्षिणन्तु परित्यज्य वामे चैव निधापयेत् ।अभोज्यं तद्भवेदन्नं पानीयञ्च सुरोपमम् ॥
”इति तन्त्रसारः ॥
तन्मुद्रा यथा, --“नैवेद्यमुद्रामङ्गुष्ठकनिष्ठाभ्यां प्रदर्शयेत् ।कनिष्ठानामिकाङ्गुष्ठैर्मुद्रा प्राणस्य कीर्त्तिता ॥
तर्ज्जनीमध्यमाङ्गुष्ठैरपानस्य तु मुद्रिका ।अनामामध्यमाङ्गुष्ठैरुदानस्य तु सा स्मृता ॥
तर्ज्जन्यनामामध्याभिः साङ्गुष्ठाभिश्चतुर्थिका ।सर्व्वाभिः सा समानस्य प्राणाद्यन्नेषु योजिता ॥
तारपूर्व्वां जपेन्मुद्रां प्राणादीनां प्रदर्शयेत् ॥
”इति यामलः ॥
ब्राह्मणाय तत्समर्पणं यथा, --“साक्षात् खादति नैवेद्यं विप्ररूपी जनार्द्दनः ।ब्राह्मणे परितुष्टे च सन्तुष्टाः सर्व्वदेवताः ॥
देवाय दत्त्वा नैवेद्यं द्बिजाय न प्रयच्छति ।भस्मीभूतञ्च नैवेद्यं पूजनं निष्फलं भवेत् ॥
देवदत्तं न भोक्तव्यं नैवेद्यञ्च विना हरेः ।प्रशस्तं सर्व्वदेवेषु विष्णोर्नैवेद्यभोजनम् ॥
”शूदस्य तद्भक्षणविधिर्यथा, --शूद्रश्चेद्धरिभक्तश्च नैवेद्यभोजनोत्सुकः ।आमान्नं हरये दत्त्वा पाकं कृत्वा च खादति ॥
”इति श्रीकृष्णजन्मखण्डे २१ अध्यायः ॥
* ॥
विष्णुनैवेद्यभोजनफलादि स्कान्दे ।“कृत्वा चैवोपवासन्तु भोक्तव्यं द्वादशीदिने ।नैवेद्यं तुलसीमिश्रं हत्याकोटिविनाशनम् ॥
पाद्मे ।हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ।पादोदकञ्च निर्म्माल्यं मस्तके यस्य सोऽच्युतः ॥
स्कान्दे ।अग्निष्टोमसहस्रैश्च वाजपेयशतैस्तथा ।तुल्यं फलं भवेद्देवि ! विष्णोर्नैवेद्यभक्षणात् ॥
पादोदकञ्च निर्म्माल्यं नैवेद्यञ्च विशेषतः ।महाप्रसाद इत्युक्त्वा ग्राह्यं विष्णोः प्रयत्नतः ॥
वह्वृचगृह्यपरिशिष्टे ।पवित्रं विष्णुनैवेद्यं सुरसिद्धर्षिभिः स्मृतम् ।अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणञ्चरेत् ॥
स्वदत्तमिति विशेषणीयम् ॥
स्मृतौ ।ब्रह्मचारिगृहस्थैश्च वनस्थयतिभिस्तथा ।भोक्तव्यं विष्णनैवेद्यं नात्र कार्य्या विचारणा ॥
”इत्येकादशीतत्त्वम् ॥
अपि च ।“विष्णोर्निवेदितं पुष्पं नैवेद्य वा फलं जलम् ।प्राप्तिमात्रेण भोक्तव्यं त्यागेन ब्रह्महा जनः ॥
भ्रष्टश्रीर्भ्रष्टबुद्धिश्च भ्रष्टज्ञानो भवेन्नरः ।यस्त्यजेद्विष्णुनैवेद्यं भाग्येनोपस्थितं शुभम् ॥
प्राप्तिमात्रेण यो भुङ्क्ते भक्त्या विष्णुनिवेदितम् ।पुंसां शतं समुद्धृत्य जीवन्मुक्तः स्वयं भवेत् ॥
विष्णुनैवेद्यभोजी यो नित्यं वा प्रणमेद्धरिम् ।पूजयेत् स्तौति वा भक्त्या स विष्णुसदृशो भवेत् ॥
पुंश्चल्यन्नमवीरान्नं शूद्रश्राद्धान्नमेव च ।यद्धरेरनिवेद्यञ्च वृथामांसमभक्षणम् ॥
शिवलिङ्गप्रदत्तान्नं यदन्नं शूद्रयाजिनाम् ।चिकित्सकद्बिजान्नञ्च देवलान्नं तथैव च ॥
कन्याविक्रयिणामन्नं यदन्नं योनिजीविनाम् ।अशुद्धान्नं पर्य्युषितं सर्व्वभक्ष्यावशेषकम् ॥
शूद्रापतिद्बिजान्नञ्च वृषवाहद्विजान्नकम् ।अदीक्षितद्विजानाञ्च यदन्नं शवदाहिनाम् ॥
अगम्यागामिनाञ्चैव द्विजानामन्नमेव च ।मित्रद्रुहां कृतघ्नानामन्नं विश्वासघातिनाम् ॥
मिथ्यासाक्ष्यप्रदानाञ्च ब्राह्मणानान्तथैव च ।एतत् सर्व्वं विशुध्येत विष्णोर्नैवेद्यभक्षणात् ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३० अध्यायः ॥
*“विष्णोर्निवेदितान्नेन यष्टव्याः सर्व्वदेवताः ।पितरोऽतिथयश्चैवमिति वेदेषु विश्रुतम् ॥
अमृतं सर्व्ववस्तूनां मिष्टं सारं सुदुर्लभम् ।विष्णोर्निवेदितान्नस्य कलां नार्हन्ति षोडशीम् ॥
यदृच्छया तन्नैवेद्यं यो भुङ्क्ते साधुसङ्गतः ।षष्टिवर्षसहस्राणां प्राप्नोति तपसां फलम् ॥
यो निवेद्य हरिं भुङ्क्ते भक्त्या भुक्तश्च नित्यशः ।किं वा तपस्या सुतरां स हरेस्तेजसा समः ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३७ अध्यायः ॥
शिवनैवेद्ये विशेषो यथा, बह्वृचगृह्यपरिशिष्टे ।“अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् ।शालग्रामशिलास्पर्शात् सर्व्वं याति पवित्रताम् ॥
शालग्रामशिलायां शिवपूजने तद्ग्राह्यम् ।इत्याह्निकतत्त्वम् ॥
” कालिकापुराणे ।“यो यद्देवार्च्चनरतः स तन्नैवेद्यभक्षकः ।केवलं सौरशैवे तु वैष्णवो नैव भक्षयेत् ॥
”वैष्णवपदमन्यदेवोपासकपरम् ।‘समानन्त्वन्यनैवेद्यं भक्षयेदन्यदैवतः ।’एतदन्योत्सृष्टपरम् । नन्दिकेश्वरपुराणे ।‘दत्त्वा नैवेद्यवस्त्रादि नाददीत कथञ्चन ।त्यक्तव्यं शिवमुद्दिश्य तदादाने न तत्फलम् ॥
’इति शिवदत्ते विशेषः ।” इत्येकादशीतत्त्वम् ॥
स्वदत्तशिवनैवेद्यस्यापि भक्त्या भक्ष्यत्वमुक्तं यथा, “रोगं हरति निर्म्माल्यं शोकन्तु चरणादकम् ।अशेषं पातकं हन्ति शम्भोर्नैवेद्यभक्षणम् ॥
”इति शाक्तानन्दतरङ्गिणी ॥
शिवनैवेद्यस्याग्राह्यत्वकारणं यथा, --राधिकोवाच ।“एवम्भूतस्य च विभो ! सर्व्वेशस्य महात्मनः ।न शस्तं कथमुच्छिष्टं ब्रूहि सन्देहभञ्जन ! ॥
श्रीकृष्ण उवाच ।शृणु देवि ! प्रवक्ष्येऽहमितिहासं पुरातनम् ।पापेन्धनानां दहने ज्वलदग्निशिखोपमम् ॥
सनत्कुमारो वैकुण्ठमेकदा च जगाम ह ।ददर्श भुक्तवन्तञ्च नाथं नारायणं द्बिजः ॥
तुष्टाव गूढैः स्तोत्रैश्च ग्रणम्य भक्तितो मुदा ।अवशेषं ददौ तस्मै सन्तुष्ठो भक्तवत्सलः ॥
प्राप्तमात्रेण तत्रैव भुक्तं तेनैब किञ्चन ।किञ्चिद्ररक्ष बन्धूनां भक्षणाय च दुर्लभम् ॥
सिद्धाश्रमे च तद्दत्तं गुरवे शूलपाणिने ।भक्त्युद्रेकाच्च तत् सर्व्वं भुक्तञ्च प्राप्तिमात्रतः ॥
भुक्त्वा सुदुर्लभं वस्तु ननर्त्त प्रेमविह्वलः ।पुलकाञ्चितसर्व्वाङ्गः साश्रुनेत्रो मुदान्वितः ॥
गायन्मम गुणं भक्त्या सुकण्ठः पञ्चवक्त्रतः ।रागभेदैकतानेन तालमानेन सुन्दरम् ॥
पपात डमरुर्हस्तात् शूलञ्च व्याघ्रचर्म्म च ।स्वयं निपत्य पश्चाच्च रुदन्मूर्च्छामवाप च ॥
अतीवकमनीयैतद्रूपध्यानैकमानसः ।सहस्रदलमध्यस्थं मां पश्यन् हृत्सरोरुहे ॥
एतस्मिन्नन्तरे देवी दुर्गा दुर्गतिनाशिनी ।मुदा जगाम शीघ्रं तत् प्रसन्नवदनेक्षणा ॥
रुदन्तं मूर्च्छितं दृष्ट्वा निपतन्तञ्च भक्तितः ।प्रहस्य वार्त्तां पप्रच्छ कुमारं शूलपाणिनः ।सर्व्वं तां कथयामास कुमारः संपुटाञ्जलिः ।श्रुत्वा चुकोप सा देवी शिवं प्रस्फुरिताधरा ॥
तां शप्तुमुद्यतां देवीमुत्थाय च त्रिलोचनः ।बोधयामास विविधं तुष्टाव संपुटाञ्जलिः ॥
श्रुत्वा मनोहरं स्तोत्रं न शशाप शिवं शिवा ।दुष्टञ्चक्रे तदुच्छिष्टमभक्ष्यं विदुषामपि ॥
पार्व्वत्युवाच ।सुचिरञ्च तपस्तप्त्वा मया लब्धस्त्वमीश्वरः ।त्वया विष्णोः प्रसादेन वञ्चिताहं कथं विभो ।यतो न दत्तन्नैवेद्यं विष्णोर्मह्यं त्वयाधुना ।अतो मत्तो गृहाणैतत् फलमेव महेश्वर !अद्यप्रभृति ये लोका नैवेद्यं भुञ्जते तव ।ते जन्मैकं सारमेया भविष्यन्त्येव भारते ॥
इत्यक्त्वा पार्व्वती मानाद्रुरोद पुरतो विभोः ।दृष्टिः पपात तत्कण्ठे नीलकण्ठो बभूव सः ॥
तदा शिवः शिवां भक्त्या कृत्वा वक्षसि सादरम् ।तन्मानभङ्गं स्तोत्रेण विनयेन चकार ह ॥
करेण चक्षुषोर्नीरं संमृज्य च पुनः पुनः ।बोधयामास विविधैर्नीतिवाक्यैर्मनोहरैः ॥
परितुष्टा च सा देवी भर्त्तारं समुवाच ह ।कलेवरञ्च त्यक्ष्यामि नैवेद्येन विना हरेः ॥
विभर्म्मि देहं सततं तव सौभाग्यवर्द्धितम् ।कथं वहामि सौभाग्यरहितञ्च कलेवरम् ॥
अपूर्व्वं तव नैवेद्यं जन्ममृत्युजराहरम् ।कृतं दुष्टं यतस्तस्मात् पश्य देहं त्यजामि च ॥
लिङ्गोपरि च यद्दत्तं तदेवाग्राह्यमीश्वर ! ।सुपवित्रं भवेत्तत्र विष्णोर्नैवेद्यमिश्रितम् ॥
इत्येवमुक्त्वा सा देवी देहं त्यक्तुं समुद्यता ।त्रस्तो हरस्तत्पुरतः स्तुत्वा च स्वीचकार ह ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्ण जन्मखण्डे ३७ अः ॥
तत्कारणान्तरं यथा, --श्रीदेव्युवाच ।“दुर्लभं तव निर्म्माल्यं ब्रह्मादीनां कृपानिधे ! ।तत् कथं परमेशान ! निर्म्माल्यं तव दूषितम् ॥
ईश्वर उवाच ।माभैर्मार्भैर्महादेवि ! ज्ञानसारं शृणु प्रिये ।एतज्ज्ञानं महादेवि ! सारात्सारं परात्परम् ॥
पञ्चभूतात्मकं देवि मुखं मे परिकीर्त्तितम् ।मध्यस्थानं स्थितं तत्तु तन्मुखं परमेश्वरि ! ॥
श्यामलं तत्तु ईशानं सदा ऊर्द्धं सुचिस्मिते ! ।कालाग्निरूपिणं तत्तु सर्व्वशक्तिमयं सदा ।तेजोमयं महेशानि मुखमूर्द्ध्वं वरानने ! ॥
क्षीरोदमन्थने देवि उत्थितं गरलं विषम् ।उत्थितं गरलं यत्तु ब्रह्माण्डनाशकारकम् ॥
तदेव गरलं देवि हस्ते कृत्वा तु तद्बिषम् ।कृष्णाञ्जननिभं दिव्यं गरलं जलवत्तदा ॥
मम हस्ते महेशानि आविरासीत् शुचिस्मिते ।ततः करतलीकृत्य तद्बिषं परमेश्वरि ॥
निपीय तद्बिषं सूक्ष्मं तीक्ष्णं ब्रह्माण्डनाशकम् ।ततः श्याममुखे देवि न पीत्वा तद्बिषं प्रिये ॥
तद्विषं कण्ठदेशे तु स्थितं हि सर्व्वदा मम ।ततःप्रभृति देवेशि मुखं ज्वालायते सदा ॥
कण्ठे तु कलुषं भूत्वा सदा तिष्ठति कामिनि ।ततःप्रभृति देवेशि नीलकण्ठत्वमाप्नुयाम् ॥
ईशानं मन्मुखं देवि परं ब्रह्म वरानने ।प्रत्यङ्गिरामयं देवि मन्मुखं कमलानने ॥
साक्षात् ज्योतिर्मयी देवी सदा मे मुखसंस्थिता ।पत्रं वा यदि वा पुष्पं जलं वा वरवर्णिनि ॥
अन्यं हि परमेशानि उपचारं मनोहरम् ।यो दद्यात् परमेशानि मन्मुखोपरि पार्व्वति ॥
अग्राह्यं तत्तु निर्म्माल्यं साक्षाद्ब्रह्ममयं ततः ।एतत्तु परमेशानि निर्म्माल्यं यस्तु धारयेत् ॥
स भ्रष्टो जायते देवि निष्कृतिर्नास्ति तत्र वै ।अग्राह्यं मम निर्म्माल्यं अतएव वरानने ॥
यद्दत्तं मन्मुखे देवि पुष्पं वा पत्रमुत्तमम् ।तन्निर्म्माल्यं महेशानि ! गृह्णीयात् शिरसा सदा ॥
स ब्रह्मतेजसा तस्य समतां याति सुन्दरि ! ।न दद्याद्यदि देवेशि ! उपचारं शुचिस्मिते ! ॥
लिङ्गापरि वरारोहे ! यश्च तस्य शुचिस्मिते ।निगदामि शृणु प्रौढे वचनं मम कामिनि ॥
स एव नारकी भूत्वा नरकं सर्व्वदाप्नुयात् ।अशेषनरकं भुक्त्वा अशेषयोनिमाव्रजेत् ॥
अशेषस्थावरं देवि जङ्गमञ्च तथा प्रिये ।भुक्त्वा तु सर्व्वपापान् स अशेषक्रिमितां व्रजेत् ॥
शृणु देवि प्रवक्ष्यामि उच्छिष्टं मम पार्व्वति ।उपचारं स्थापयित्वा पूतं पात्रान्तरे प्रिये ॥
कृत्वा तु मन्त्रपूतं हि उपचारं निवेदयेत् ।वामदेवादि देवेशि मुखेषु वरवर्णिनि ॥
भक्षणं मम देवेशि ब्रह्माण्डसृष्टिकारकम् ।एतद्धि परमेशानि ! ब्रह्मादीनां सुदुर्लभम् ॥
अशुचिर्व्वा शुचिर्व्वापि उच्छिष्टं भक्षयेद्यदि ।स एव परमाराध्यः साक्षाद्ब्रह्म शुचिस्मिते ॥
उच्छिष्टभक्षणे कामी स एव श्रीसदाशिवः ।निर्म्माल्यं दृढभक्तित्वाद्गृह्णीयाद्यस्तु पार्व्वति ॥
प्रथमं विष्णवे दत्त्वा विष्णुमन्त्रेण सुन्दरि ।निर्म्माल्यं मम देवेशि विष्णोर्ग्राह्यं वरानने ॥
देवासुरमनुष्याश्च गन्धर्व्वाः किन्नरादयः ।ते सर्व्वे परमेशानि वराकाः क्षुद्रबुद्धयः ॥
निर्म्माल्येषु च देवेशि ! अधिकारी कथं भवेत् ॥
”इति लिङ्गार्च्चनतन्त्रे । १३ । १४ । पटलः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
