| YouTube Channel

नैमिषारण्यं (naimiSAraNyaM)

 
शब्दकल्पद्रुमः
Sanskrit
नैमिषारण्यं,
क्ली,
(निमिषान्तरमात्रेण निहतंआसुरं बलं यत्र ततस्तत् नैमिषं अरण्य-मिति ।) अरण्यविशेषः तस्योत्पत्तिर्यथा, --“तेन चक्रेण तत्सैन्यमासुरं दौर्ज्जयं क्षणात् ।निमिषान्तरमात्रेण भस्मवद्बहुधा कृतम्
एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा ।उवाच निमिषेणेदं निहतं दानवं बलम्
अरण्येऽस्मिंस्त्वतस्त्वेवन्नैमिषारण्यसंज्ञकम् ।भविष्यति यथार्थं वै ब्राह्मणानां विणेषतः
”इति वराहपुराणे गौरमुखं प्रति भगवद्वाक्यम्
अपि ।“देशं वः संप्रवक्ष्यामि यस्मिन्देशे चरिष्यथ ।उक्त्वा मनोमयं चक्रं सृष्ट्वा तानुवाच
क्षिप्तमेतन्मया चक्रमनुव्रजत माचिरम् ।यत्रास्य नेमिः शीर्य्येत देशः पुरुषर्षभ
ततो मुमोच तच्चक्रं ते तत् समनुव्रजन् ।तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्य्यत
नैमिषं तत् स्मृतं नाम्ना पुण्यं सर्व्वत्र पूजितम् ।सिद्धचारणसङ्कीर्णं यक्षगन्धर्व्वसेवितम्
स्थानं भगवतः शम्भोरेतन्नैमिषमुत्तम् ।अत्र देवाः सगन्धर्व्वाः सयक्षोरगराक्षसाः ।तपस्तप्त्वा पुरा देवा लेभिरे प्रचुरान् भगान्
”इति कौर्म्मे ४० अध्याये षट्कुलीयान् प्रतिब्राह्मवाक्यम्
(क्वचि त्तालव्यशान्तोऽपि पाठोदृश्यते तत्र तु ब्रह्मणा विसृष्टस्य मनोमयचक्रस्यनेमिः शीर्य्यते यत्रेति व्युत्पत्त्र्या नेमिशं नेमिश-मेव नैमिशं तदाख्यमरण्यमिति बोध्यम् तथाच वायवीये ।“एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते ।यत्रास्य शीर्य्यते नेमिः देशः तपसः शुभः
इत्युक्त्रा सूर्य्यसङ्काशं चक्रं सृष्ट्वा मनोमयम् ।प्रणिपत्य महादेवं विससर्ज्ज पितामहः
तेऽपि हृष्टतमा विप्राः प्रणम्य जगतां प्रभुम् ।प्रययुस्तस्य चक्रस्य यत्र नेमिर्व्यशीर्य्यत
तद्बनं तेन विख्यातं नैमिशं मुनिपूजितम्
”तथा देवीभागवते २८-३२ ।“कलिकालविभीताः स्मो नैमिशारण्यवासिनः ।ब्रह्मणात्र समादिष्टाश्चक्रं दत्त्वा मनोमयम्
कथितं तेन नः सर्व्वान् गच्छन्त्वेतस्य पृष्ठतः ।नेमिः संशीर्य्यते यत्र देशः पावनः स्मृतः
कलेस्तत्र प्रवेशो कदाचित् संभविष्यति ।तावत् तिष्ठन्तु तत्रैव यावत् सत्ययुगं पुनः
तच्छ्रुत्वा वचनं तस्य गृहीत्वा तत्कथानकम् ।चालयन्निर्गतस्तूर्णं सर्व्वदेशदिदृक्षया
प्रेत्यात्र चालयंश्चक्रं नेमिः शीर्णोऽत्र पश्यतः ।तेनेदं नैमिशं प्रीक्तं क्षेत्रं परमपावनम्
”)