| YouTube Channel

नैमित्तिकलयः (naimittikalayaH)

 
शब्दकल्पद्रुमः
Sanskrit
नैमित्तिकलयः,
पुं,
(नैमित्तिकः ब्रह्मणो दिवाव-साननिमित्तवशात् यो लयः ।) प्रलयविशेषः ।यथा, --“चतुर्युगसहस्रान्ते ब्राह्मो नैर्मित्तिको लयः ।अनावृष्टिश्च कल्पान्ते जायते शतवार्षिकी
उत्तिष्ठन्ति तदा रौद्रा दिवि सप्त दिवाकराः ।ते तु पीत्वा जलं सर्व्वं शोषयन्ति जगत्त्रयम्
भूर्भुवःस्वर्म्महर्लोकसंस्था यान्ति जनं जनाः ।रुद्रो भूत्वा त्वसौ विष्णुः पातालानि दहत्यधः
विष्णुर्दहेत्त्रिलोकञ्च मुखान्मेघान् सृजत्यलम् ।वर्षन्ते वर्षशतं नानावर्णा महाघनाः
विष्ण्वास्यजः शतं वाति वर्षाणां वायुरूर्ज्जितः
विष्णुरेकार्णवे पीत्वा सव्व ब्रह्मस्वरूपधृक् ।शेतेऽनन्तासने विष्णुर्नष्टे स्थावरजङ्गमे ।सुप्त्वा युगसहस्रं जगद्भूयोऽसृजद्धरिः
”इति गरुडपुराणम्
(तथा भागवते २४ ।“आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिकोलयः
”)