| YouTube Channel

नैमित्तिकं (naimittikaM)

 
शब्दकल्पद्रुमः
Sanskrit
नैमित्तिकं, त्रि, (निमित्तादागतं निमित्तभवं वा ।इति ठक् ।) निमित्तजन्यम् यथा, --“नैमित्तिकानि काम्यानि निपतन्ति यथा यथा ।तथा तथैव कार्य्याणि नात्र कालं विचारयेत्
”इति ग्रहयागतत्त्वम्
माससंवत्सरादिविशेष नियम-शून्यावश्यकर्त्तव्य-कादाचित्कनिमित्तोत्पन्नं पुत्त्रजन्मादिनिमि-त्तकश्राद्धादि यथा, --“नित्यनैमित्तिके कुर्य्यात् प्रयतः सन् मलिम्लुचे ।तीर्थस्नानं गजच्छायां प्रेतश्राद्धं तथैव
”इति मलमासतत्त्वम्
(निमित्तं वेत्ति निमित्तबोधकग्रन्थमधीते वा इतिठक् निमित्तशास्त्राभिज्ञे तदध्ययनकर्त्तरि
)