| YouTube Channel

नैजं (naijaM)

 
शब्दकल्पद्रुमः
Sanskrit
नैजं, त्रि, (निजस्येदमिति निज + अण् ।)निजसम्बन्धि स्वीयम् यथा, --“ब्रह्मास्त्रस्य ब्रह्मास्त्रं वायव्यस्य पार्व्वतम् ।आग्नेयस्य पार्ज्जन्यं नैजं पाशुपतस्य
”इति श्रीभागवते १० स्कन्धे वाणयुद्धे
(यथा हरिवंशे भविष्ये ३३ ।“स ददौ दर्शनं नैजं व्याघ्रचर्म्माम्बरो हरः
”)