| YouTube Channel

नेत्ररोग (netraroga)

 
शब्दसागरः
English
नेत्ररोग
m.
(-गः) Any disease of the eye.
E.
नेत्र, and रोग disease.
Yates
English
नेत्र-रोग (गः) 1.
m.
Ophthalmia.
Wilson
English
नेत्ररोग
m.
(-गः) Any disease of the eye.
E.
नेच, and रोग disease.
Monier Williams Cologne
English
नेत्र—रोग
m.
id.,
Suśr.
नेत्र—रोग
mfn.
afflicted with e°-d°, (-ता
f.
),
Var.
Shabdartha Kaustubha
Kannada
नेत्ररोग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಣ್ಣಿಗೆ ಬರುವ ರೋಗ
शब्दकल्पद्रुमः
Sanskrit
नेत्ररोगः,
पुं,
(नेत्रस्य चक्षुषो रोगः ।) चक्षू-रोगः तस्य निदानं यथा, --“उष्णाभितप्तस्य जलप्रवेशाद्-दूरेक्षणात् स्वप्नविपर्य्ययाच्च ।स्वेदाद्द्रजोधूमनिषेवणाच्चछर्द्देर्व्विघाताद्बमनातियोगात्
द्रवात्तथान्नान्निशि सेविताच्चविण्मूत्रवातक्रमनिग्रहाच्च ।प्रसक्तसंरोदनशोककोपा-च्छिरोऽभिघातादतिमद्यपानात्
तथा ऋतूनाञ्च विपर्य्ययेणक्लेशाभिघातादतिमैथुनाच्च ।वास्पग्रहात् सूक्ष्मनिरीक्षणाच्चनेत्रे विकारान् जनयन्ति दोषाः
वातात् पित्तात् कफाद्रक्तादभिस्यन्दश्चतुर्विधः ।प्रायेण जायते घोरः सर्व्वनेत्रामयाकरः
”तस्य सम्प्राप्तिर्यथा, --“निस्तोदनस्तम्भनरोमहर्ष-संघर्षपारुष्यशिरोऽभितापाः ।विशुष्कभावः शिशिराश्रुता चवाताभिपन्ने नयने भवन्ति
दाहप्रपाकौ शिशिराभिनन्दाधूमायनं वास्पसमुच्छ्रयश्च ।उष्णाश्रुता पीतकनेत्रता चपित्ताभिपन्ने नयने भवन्ति
उष्णाभिनन्दा गुरुताक्षिशोथःकण्डूपदेहावतिशीतता ।स्रावो बहुः पिच्छिल एव चापिकफाभिपन्ने नयने भवन्ति
ताम्राश्रुता लोहितनेत्रता चबाह्यः समन्तादतिलोहितश्च ।पित्तस्य लिङ्गानि यानि तानिरक्ताभिपन्ने नयने भवन्ति
”इति माधवकरः
(अस्य निदानादिपूर्व्वकं लक्षणं चिकित्सा चयथा, --“उष्णातिक्षारकटुकैरभिघातेन वा पुनः ।सूक्ष्मवस्त्वीक्षणेनापि दोषाः कुप्यन्ति नेत्रजाः
सहजा ये परा ज्ञेया वक्ष्यामि शृणु लक्षणम् ।रूक्षः कण्डूश्च तोदश्च शुष्कशीतास्रसन्ततिः ।वातिकं तं विजानीयात् पैत्तिकं शृण्वतः परम्
सरक्तदाहे नेत्रे उष्णस्रावश्च पैत्तिके ।शोफकण्डूः सन्निपाते शीतजाड्ये कफात्मके
द्वन्द्वजो मिश्रलिङ्गैश्च सर्व्वैस्तैः सान्निपातिकः ।एतद्धि लक्षणं ज्ञात्वा चोपचारं शृणुष्व मे
शुण्ठी सुराह्वसुरसाः सह काञ्जिकेनचोष्णेन धावनमिदं सहपैत्तिके ।श्लेष्मोद्भवे त्रिफलकल्कमिदं समूत्र-मन्यैस्तथा कथितमत्रभिषग्वरैस्तत्
शुण्ठी शठी रजनी त्रिफला सनिम्बापत्राणि सैन्धवयुतानि तुषाम्लकेन ।शस्तं वदन्ति नयने ससन्निपातेरक्तोद्भवे सरुजे तथा प्रशस्तम्
फलत्रिकं दारु निशासु धूमोवचासु वर्षाभवसैन्धवेन ।प्रलेपनं श्लेष्मभवे विकारेसवातिके वा हितमेव शस्तम्
शुण्ठी सैन्धवतक्रेण ताम्रभाण्डे विघर्षितम् ।अपामार्गस्य मूलं वा मूलं धूस्तूरकस्य वा
अञ्जनञ्च हितं तेषां वातनेत्रामयापहम्
दुग्धोत्पन्नं नवनीतं यष्टीनिम्बस्तिलाश्चसंयोज्याः ।त्रिफला गुडसंयुक्ता लेपनं कफनेत्रजरोगघ्नम्
शुण्ठी सैन्धवतुल्यं मागधिका ताम्रभाजने घृष्टम् ।दध्ना धृतेनाञ्जनकं निहन्ति सर्व्वांश्च नेत्रगदान्
वातपित्तकफदोषसम्भवान्नेत्रयोर्बहुपीडनं क्षणात् ।एक एव हरति प्रयोजितःशिशुपल्लवरसः समाक्षिकः
”इति हारीते चिकित्सितस्थाने ४४ अध्यायः
)
वाचस्पत्यम्
Sanskrit
नेत्ररोग
पु०
त० नयनस्य रोगभेदे तन्निदानादि माधवकरेणोक्तं यथा “उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात्स्वप्नविपर्य्ययाच्च स्वेदाद्रजोधूमनिषेवणाच्च छर्देर्विघाता-द्वमनातियोगात् द्रवात्तथान्नान्निशि सेविताच्च विण्मूत्र-वातक्रमनिग्रहाच्च प्रसक्तसंरोदनशोककोपाच्छिरो-ऽभिघाताटतिमद्यपानात् तथा ऋतूनाञ्च विपर्यये-क्लेशाभिघातादतिमैथुनाच्च वास्पग्रहात् सूक्ष्मनिरी-क्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः वातात्पित्तात् कफाद्रक्तादभिस्यन्दश्चतुर्विधः प्रायेण जायतेघोरः सर्वनेत्रामयाकरः” तस्य सम्प्राप्तिर्यथा “निस्तो-दनस्तम्भनरोमहर्षसंघर्षपारुष्यशिरोऽभितापाः विशु-ष्कभावः शिशिराश्रुता वाताभिपन्ने नयने भवन्ति ।दाहप्रपाकौ शिशिराभिबन्धात् धूमायनं वास्पसमुच्छ-यश्च उष्णाश्रुता पीतकनेत्रता पित्ताभिपन्ने नयनेभवन्ति उष्णाभिवन्धो गुरुताक्षिशोथः कण्डूपदेहावतिशीतता स्रावो बहुः पिच्छिल एव चाषिकफाभिपन्ने नयने भवन्ति ताम्राश्रुता लोहितनेत्रताच बाह्यः समन्तादतिलोहितश्च वित्तस्य लिङ्गानि चयानि तानि रक्ताभिपन्ने नयने भवन्ति” ।नेत्ररोगहेतुदोष उक्तो वैद्यके“नेत्रं स्यात् पवनाद्रक्षं घूम्रवर्णं तथाऽरुणम् ।कोटरान्तप्रविष्टञ्च तथास्तञ्च विलोकनम् हरिद्रा-खण्डवर्णञ्च रक्तं वा हरितं तथा दीपद्वेषि सदाहञ्चनेत्रं स्यात् पित्तकोपतः चक्षुर्बलासबाहुल्यात् स्निग्धंस्यात् सलिलप्लुतम् तथा धवलवर्णञ्च ज्योतिर्हीनंबलान्वितम् नेत्रं द्विदोषबाहुल्यात् स्याद् दोषद्वयलक्षणम् त्रिदोषलिङ्गं सन्धेयं तन्मारयति रोगि-णम् त्रिदोषदूषितं नेत्रमन्तर्मग्नं भृशं भवेत् ।त्रिलिङ्गं सलिलस्रावि प्रायेणोन्मीलयत्यपि” नेत्ररोग-भेदाश्च सुश्रुते उत्तरतन्त्रे अष्टभिरध्यायैः सलक्षणमुक्ता-स्तत्रैव दृश्याः “त्रपुहारी पुरुषो जायते नेत्र-रोगवान्” “मधुहारी पुरुषो जायते नेत्ररोगवान्”शाता० त्रपुमधुहरणेन तद्रोगवान् जायते” इत्युक्तम्