| YouTube Channel

नेत्रमीना (netramInA)

 
शब्दकल्पद्रुमः
Sanskrit
नेत्रमीना,
स्त्री,
(नेत्रयोर्म्मिला मेलनं मुद्रणंयस्याः ततः पृषोदरादित्वात् लस्य नत्वम् ।क्वचित् नेत्रमिला इति वा पाठः ।) यवतिक्ता-लता इति राजनिर्घण्टः
वाचस्पत्यम्
Sanskrit
नेत्रमीला(ना) स्त्री नेत्रयोः मीला मुद्रणं यस्याः ब०पृषो० वा लस्य नः, लान्तपाठः साधुः यवतिक्तायांराजनि० तत्सेवने हि नेत्रयोर्मीलनं जायते इतितस्यास्तथात्वम्