| YouTube Channel

नेतीयोग (netIyoga)

 
वाचस्पत्यम्
Sanskrit
नेतीयोग
पु०
हठयोगभेदे सच रुद्रयामले उत्तरखण्डे उक्तोयथा “नेतीयोगविधानानि शृणुष्व वीरपूजित! येनसर्वमस्तकस्थकफानां दाहां भवेत् सूक्ष्मसूत्रं दृढतरंप्रदद्यान्नासिकाबिले मुखरन्ध्रे समानीय सन्धानेन स-माश्रयेत् पुनःपुनः सदा योगी यातायातेन घर्षयेत् ।क्रमेण वर्द्धनं कुर्य्यात् सूत्रस्य परमेश्वर! नेतीयोगेननासाया रन्ध्रं निर्मलकं भवेत् वायोर्गमनकाले तुमहायुष्मानिति प्रभो!”