| YouTube Channel

नेडुली (neDulI)

 
वाचस्पत्यम्
Sanskrit
नेउ(डु)ली स्त्री हठयोगभेदे तत्प्रकारस्तु रुद्रयामले“धौतीयोगानन्तरं हि ने(उ)डुलीकर्म समाचरेत् ।ने(उ)डुलीयोगमात्रेण आसने ने(उ)डुलोपमः नेउ-(डु)लीसाधनादेव चिरजीवी निरामयः तत्कारणंप्रवक्ष्यामि सावधनावधारय भुक्त्वा मुद्गान्नपक्वञ्च वारैकंप्रतिचालयेत् प्रतिचालयेत् स्वोदरञ्च कठिनाशाविव-र्जितः पुनःपुनश्चालनञ्च कुर्य्यात् सोदरमध्यकम् ।कुलालचक्रवत् कुर्य्यात् भ्रमणञ्चोदरस्य सर्वाङ्गचा-लनादेव कुण्डलीशक्तिचालनम् चालनात् कुण्डली-देव्याश्चेतना सा भवेत् प्रभो! एतस्यानन्तरं देव! क्षालनंपरिकीर्त्तितम् नाडीनां क्षालनादेव सर्वविद्यानिधिर्भ-वेत् वायुसिद्धिर्भवेत्तस्य पञ्चभूतसुसिद्धिभाक् मुण्डा-सनं हि सर्वत्र सर्वदा कारयेद्बुधः बद्ध्वपद्मासनं कृत्वाअधोहस्ते जपं चरेत् तदा त्रिदिनमाकर्त्तुं समर्थोमुण्डिकासनम् तदा हि सर्वनाड्यश्च वशीभूता नसंशयः नाडीक्षालनयोगेन सिद्धिमाप्नोति साधकः ।नेडु(उ)लीं यो जानाति कथं कर्त्तुमुद्यतः सधीरो मानसचरोमतिमान् जितेन्द्रियः यो नेउ-(डु)लीयोगसारं कर्त्तुमुद्यमपारगः चावश्यं क्षा-लनञ्च कुर्य्यन्नाड्यादिसाधनम् नेउ(डु)लीयोगमार्गेणनाडीक्षालनतत्परः भवत्येव महाकाल! राजराजेश्वरोयथा केवलं प्राणवायोश्च धारणात् क्षालनं भवेत् ।विना क्षालनयोगेन देहशुद्धिर्न जायते क्षालनं नाडि-कादीनां कफपित्तादिनाशनम् करोति यत्नतो योगीमुण्डासनानिलाशनात् वायुग्रहणमेवं हि नेडु(उ)-लीवशकालके कुर्य्यात् केवलं नाथ! अन्यकाले सदा-चरेत् यावन्नेउ(डु)लीं जानाति तावद्वायुं नसंपिबेत् बहुतरं संग्राह्यं वायोरोगमलादिकृत् ।केवलं श्वासगणनं यावन्नेउ(डु)ली सिद्ध्यति पञ्चा-रामसाधनाच्च पञ्चवायुवशो भवेत्”