| YouTube Channel

नेजयितुम् (nejayitum)

 
कृदन्तरूपमाला
Sanskrit
1 {@“णिजिर् शौचपोषणयोः”@} 2 ‘निङ्क्ते, नेनेक्ति नेनिक्ते शौचेऽर्थे पोषणे तथा।।’ 3 इति देवः।
नेजकः- 4 निर्णेजकः-जिका, नेजकः-जिका, 5 निनिक्षकः-क्षिका, नेनिजकः-जिका
6 नेक्ता-त्री, नेजयिता-त्री, निनिक्षिता-त्री, 7 प्रणेनिजिता-त्री
8 नेनिजत् 9 -ती, नेजयन्-न्ती, निनिक्षन्-न्ती
-- नेक्ष्यन्-न्ती-ती, नेजयिष्यन्-न्ती-ती, निनिक्षिष्यन्-न्ती-ती
-- नेनिजानः, नेजयमानः, निनिक्षमाणः, नेनिज्यमानः
नेक्ष्यमाणः, नेजयिष्यमाणः, निनिक्षिष्यमाणः, नेनिजिष्यमाणः
सुनिक्-सुनिग्-सुनिजौ-सुनिजः
-- -- निक्तम्-क्तः-क्तवान्, नेजितः, निनिक्षितः, नेनिजितः-तवान्
10 निजः, नेजः, निनिक्षुः, नेनिजः
नेक्तव्यम्, नेजयितव्यम्, निनिक्षितव्यम्, नेनिजितव्यम्
नेजनीयम्, नेजनीयम्, निनिक्षणीयम्, नेनिजनीयम्
11 12 नेग्यम्, नेज्यम्, निनिक्ष्यम्, नेनिज्यम्
ईषन्नेजः-दुर्नेजः-सुनेजः
-- -- निज्यमानः, नेज्यमानः, निनिक्ष्यमाणः, नेनिज्यमानः
नेगः, नेजः, निनिक्षः, नेनिजः
नेक्तुम्, नेजयितुम्, निनिक्षितुम्, नेनिजितुम्
निक्तिः, नेजना, निनिक्षा, नेनिजा
नेजनम्, नेजनम्, निनिक्षणम् नेनिजनम्
निक्त्वा, नेजयित्वा, निनिक्षित्वा, नेनिजित्वा
प्रणिज्य, प्रणेज्य, प्रणिनिक्ष्य, प्रणेनिज्य
नेजम् २, निक्त्वा २, नेजम् २, नेजयित्वा २, निनिक्षम् २, निनिक्षित्वा २, नेनिजम्
नेनिजित्वा २।
प्रासङ्गिक्यः
01
=>
(६७३)
02
=>
(३-जुहोत्यादिः-१०९३। सक। अनि। उभ।)
03
=>
(श्लो। ६३)
04
=>
[[१। ‘उपसर्गादसमासेऽपि णोपदेशस्य’ (८-४-१४) इति धातुनकारस्य णकारः। ‘निजिर्--’ इति धातुप्रदीपादिसम्मते क्वाचित्कपाठे तु णत्वस्याप्रसक्तिरिति ज्ञेयम्। ‘निर्णेजकः स्याद् रजकः--’ इत्यमरः।]]
05
=>
[[२। अस्य धातोरनुदात्तत्वेनेडभावे, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वात् लघूपध- गुणो न। ‘कुहोश्चुः’ (७-४-६२) इति कुत्वे, ‘आदेशप्रत्यययोः’ (८-३-५९) इति षत्वे, ‘खरि च’ (८-४-५५) इति चर्त्वम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
06
=>
[[३। ‘एकाच उपदेशेऽनुदात्तात्’ (७-२-१०) इतीण्णिषेधः। एवं वलाद्यार्धधातुके सर्वत्र ज्ञेयम्। किति प्रत्यये परतः क्तादौ गुणाभावोऽपि बोध्यः।]]
07
=>
[[४। ‘उभौ साभ्यासस्य’ (८-४-२१) इति लिङ्गेन, ‘पूर्वत्रासिद्धीयमद्विर्वचने’ (परि। १२७) इत्यस्यानित्यत्वात् पूर्वं द्वित्वे, अभ्यासघटकस्यैव नकारस्य णत्वं ज्ञेयम्।]]
08
=>
[[५। विकरणप्रत्ययस्य शपः, ‘जुहोत्यादिभ्यः श्लुः’ (२-४-७५) इति श्लौ, ‘श्लौ’ (६-१-१०) इति द्वित्वे, ‘निजां त्रयाणां गुणःश्लौ’ (७-४-७५) इत्यभ्यासस्य गुणः। ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम्निषेधः। एवम्, नेनिजानः इत्यत्रापि गुणो बोध्यः।]]
09
=>
[[आ। ‘प्रणेनिजद्भिर्मतिमर्थतत्त्वं सुवेविजानैर्यदुभिः विष्णुः।’ धा। का। २। ५५।]]
10
=>
[[६। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कप्रत्ययः। कित्त्वान्न गुणः।]]
11
=>
[पृष्ठम्०६२६+ २६]
12
=>
[[१। अस्य धातोर्निष्ठायामनिट्त्वात्, ‘चजोः कुघिण्ण्यतोः’ (७-३-५२) इति कुत्वम्। एवं घञन्तेऽपि जकारस्य कुत्वेन गकारो ज्ञेयः।]]