| YouTube Channel

नृसिंहचतुर्दशी (nRsiMhacaturdazI)

 
Monier Williams Cologne
English
नृ—सिंह—चतुर्दशी
f.
the 14th day in the light half of the month Vaiśākha (a festival),
Col.
Shabdartha Kaustubha
Kannada
नृसिंहचतुर्दशी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ವೈಶಾಖ ಶುಕ್ಲ ಚತುರ್ದಶಿ /ಮಹಾವಿಷ್ಣುವು ನೃಸಿಂಹ ರೂಪದಿಂದ ಅವತರಿಸಿದ ದಿನ
व्युत्पत्तिः - > नृसिंहस्याविर्भावदिनं चतुर्दशी
विस्तारः - > "वैशाखे शुक्लपक्षे चतुर्दश्यां महातिथौ सायं प्रह्लादधिक्कारमसहिष्णुः परो हरिः सद्यः कटकटाशब्दविस्मापितसभाजनः लीलायास्तम्भगर्भान्तादुद्भूतः शब्दभीषणः नृहरेरवतारतां यत्नतः समुपोषयेत् महापुण्यतमायाञ्च सायं विष्णुं प्रपूजयेत् ।"
Wordnet
Sanskrit
Synonyms:
नृसिंहचतुर्दशी
noun
वैशाखमासस्य शुक्लपक्षस्य चतुर्दशी।
"केचन जनाः नृसिंहचतुर्दश्यां व्रतं कुर्वन्ति।"
शब्दकल्पद्रुमः
Sanskrit
नृसिंहचतुर्द्दशी,
स्त्री,
(नृसिंहप्रिया नृसिंहव्रतोप-लक्षिता वा चतुर्द्दशी ।) वैशाखशुक्लचतु-र्द्दशी तत्र व्रतविधिर्यथा, --“वैशाखस्य चतुर्द्दश्यां शुक्लायां श्रीनृकेशरी ।जातस्तदस्यां तत्पूजोत्सवं कुर्व्वीत सव्रतम्
”अथ श्रीनृसिंहचतुर्द्दशीव्रतनित्यता बृहन्नार-सिंहपुराणे श्रीभगवन्नृसिंहप्रह्लादसंवादे व्रत-विधिकथने ।“वर्षे वर्षे तु कर्त्तव्यं मम सन्तुष्टिकारणम् ।महागुह्यमिदं श्रेष्ठं मानवैर्भवभीरुभिः
”किञ्च“विज्ञाय मद्दिनं यस्तु लङ्घयेत् तु पापभाक् ।एवं ज्ञात्वा प्रकर्त्तव्यं मद्दिने व्रतमुत्तमम् ।अन्यथा नरकं याति यावच्चन्द्रदिवाकरौ
*
तत्राधिकारिनिर्णयः तत्रैव ।“सर्व्वेषामेव लोकानामधिकारोऽस्ति मद्व्रते ।मद्भक्तैस्तु विशेषेण प्रणेयं मत्परायणैः
*
अथ तन्माहात्म्यम् तत्रैव ।श्रीप्रह्लाद उवाच ।“नमस्ते भगवन् विष्णो नृसिंहवपुषे नमः ।त्वद्भक्तोऽहं मुरेशैकं त्वां पृच्छामि तत्त्वतः
स्वामिंस्त्वयि ममोत्पन्ना भक्तिर्ब्बहुविधा कथम् ।कथं ते सुप्रियो जातः कारणं वद मे प्रभो !
श्रीनृसिंह उवाच ।कथयामि महाप्राज्ञ शृणुष्वैकाग्रमानसः ।भर्क्तेर्यत् कारणं वत्स ! प्रियत्वस्य तत् पुनः
पुराकल्पे ह्यभूर्व्विप्रः किञ्चित्त्वं नाप्यधीतवान् ।नाम्ना वसुदेवो हि वेश्यायां तत्परो ह्यभूः
तस्मिन् जन्मनि नैव त्वं चकर्थ सुकृतं कियत् ।मुक्त्वा तु मद्व्रतं चैकं वेश्यासङ्गतिलालसः
मद्व्रतस्य प्रभावेण भक्तिर्ज्जाता तवेदृशी ।श्रीप्रह्लाद उवाच ।श्रीनृसिंहाच्युत स्वामिन् कस्य पुत्त्रेण किं कृतम् ।वेश्यायां वर्त्तमानेन कथं तद्धि कृतं मया
आख्यानं विस्तरेणेदं वक्तुमर्हसि साम्प्रतम् ।श्रीनृसिंह उवाच ।पुरावन्तीपुरे ह्यासीद्ब्राह्मणो वेदपारगः ।तन्नाम वसुशर्म्मेति सर्व्वलोकेषु विश्रुतम्
नित्यं होमक्रियामेष करोति द्बिजसत्तमः ।ब्रह्मक्रियासु सततं सर्व्वासु किल तत्परः
अग्निष्टोमादिभिर्यज्ञैरिष्टाः सर्व्वे सुरोत्तमाः ।तेनापि विद्यमानेन कृतं दुष्कृतं कियत्
तस्य भार्य्या सुशीलाभूद्विख्याता भुवनत्रये ।पतिव्रता सदाचारा पतिभक्तिपरायणा
जज्ञिरे सुताः पञ्च तस्यां द्बिजवरात्ततः ।सदाचाराः सुविद्बांसः पितृभक्तिपरायणाः
तेषां मध्ये कनिष्ठस्त्वं वेश्यायां तत्परः सदा ।तां सन्निवेशमानेन सुरापानं कृतं त्वया
सदा पापरतस्त्वं हि नाकृथाध्ययनं भृशम् ।विलासिनीगृहे नित्यं वसतिर्ह्यभवत्तव
एकदा तद्गृहे ह्यासीत्तया सह महान् कलिः ।ततः कलहभावेन भोजनं कृतं त्वया
अज्ञानान्मद्व्रतं चक्रे व्रतानामुत्तमं व्रतम् ।तया सह विवादेन रात्रौ जागरणं कृतम्
वेश्याया अपि तत् सर्व्वं प्रजातं तु त्वया समम् ।रात्रौ जागरणे तस्याः सञ्जातं कायशोधनम्
युवयोर्म्मद्व्रतं जातमज्ञानाद्बहुपुण्यदम् ।येन चीर्णव्रतेनाद्य मोदन्ते दिवि देवताः
सृष्ट्यर्थन्तु ततो ब्रह्मा चक्रे मद्व्रतमुत्तमम् ।मद्व्रतस्य प्रभावेण निर्म्मितं सचराचरम्
ईश्वरेणापि तच्चीर्णं वधार्थं त्रिपुरस्य ।महिम्नैव व्रतस्यास्य त्रिपुरं संनिपातितम्
अन्यैश्च बहुभिर्देवैरृषिभिश्च पुरातनैः ।राजभिश्च महाप्राज्ञैर्व्विहितं व्रतमुत्तमम्
एतद्व्रतप्रभावेण सर्व्वे सिद्धिमुपागताः
वेश्यापि मत्प्रिया जाता त्रैलोक्ये सुखचारिणी ।ईदृशं मद्व्रतं वत्स ! त्रैलोक्ये चैव विश्रुतम्
धूर्त्तायाश्च विलासिन्या व्रतमेतदुपस्थितम् ।प्रह्लाद ! तेन ते भक्तिर्म्मयि जाता ह्यनुत्तमा ।सा वेश्या त्वप्सरा जाता दिवि भोगाननेकशः ।भुक्त्वा कामं विलीना तु त्वं प्रह्लाद विविष्ट माम्
कार्य्यार्थमवतारस्ते मच्छरीरात् पृथक् त्वसौ ।विधाय सर्व्वकार्य्याणि शीघ्रं मयि गमिष्यसि
इदं व्रतमग्र्यन्तु प्रविधास्यन्ति मानवाः ।न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि
अपुत्त्रो लभते पुत्त्रान्मद्भक्तांश्च सुवर्च्चसः ।दरिद्रो लभते लक्ष्मीं धनदस्य यादृशी
तेजस्कामो लभेत्तेजो राज्येप्सू राज्यमुत्तमम् ।आयुस्कामो लभेत्त्वायुर्यादृशन्तु शिवस्य
स्त्रीणां व्रतमिदं साधु पुत्त्रदं भाग्यदं तथा ।अवैधव्यकरं तासां पुत्त्रशोकविनाशनम्
धनधान्यफलञ्चैव पतिप्रियकरं सुखम् ।सार्व्वभौमसुखं तासां दिव्यसौख्यं भवेत्ततः
स्त्रियो वा पुरुषा वापि कुर्व्वन्ति व्रतमुत्तमम् ।तेभ्यो ददाम्यहं सौख्यं भुक्तिमुक्तिफलं तथा
बहुनोक्तेन किं वत्स ! व्रतस्यास्य फलस्य हि ।यद्व्रतस्य फलं वक्तुं नाहं शक्तो शङ्करः ।ब्रह्मा चतुर्भिर्व्वक्तैश्च नालं स्याज्जीवितावधि
”किञ्च तत्रैव व्रतविधिकथने ।“यथा यथा प्रवृत्तिः स्यात् पातकस्य कलौ युगे ।तथा तथा विधास्यन्ति मद्व्रतं विरलं जनाः
मद्व्रतस्य विधाने मतिर्व स्यात् दुरात्मनाम् ।सदा पापरतानान्तु पुरुषाणां विकर्म्मणि
विचार्य्यैवं प्रकर्त्तव्यं माधवे मासि मद्व्रतम् ।प्राप्ते भूतदिने वत्स ! सर्व्वकल्मषनाशनम्
येनैव क्रियमाणेन सहस्रद्वादशीफलम् ।जायते मृषा वच्मि मानुषाणां महात्मनाम्
”तदन्ते ।“य इद्दं शृणुयाद्भक्त्या व्रतं पापप्रणाशनम् ।तस्य श्रवणमात्रेण ब्रह्महत्यां व्यपोहति
पवित्रं परमं गुह्यं कीर्त्तयेत् यस्तु मानवः ।सर्व्वान् कामानवाप्नोति व्रतस्यास्य फलं लभेत्
अथ तद्व्रतदिननिर्णयः आगमे ।“वैशाखे शुक्लपक्षे चतुर्दश्यां महातिथौ ।सायं प्रह्लादधिक्कारमसहिष्णुः परो हरिः
सद्यः कटकटाशब्दविस्मापितसभाजनः ।लीलया स्तम्भगर्भान्तादुद्भूतः शब्दभीषणः
नृहरेरवतारात्तां यत्नतः समुपोषयेत् ।महापुण्यतमायाञ्च सायं विष्णुं प्रपूजयेत्
”बृहन्नारसिंहे ।“वैशाखशुक्लपक्षस्य चतुर्द्दश्यां समाचरेत् ।मज्जन्मसम्भवं पुण्यं व्रतं पापप्रणाशनम्
”किञ्च ।“स्वातीनक्षत्रयोगे तु शनिवारे हि मद्व्रतम् ।सिद्धयोगस्य योगे लभ्यते दैवयोगतः
सर्व्वैरेतैस्तु संयुक्तैर्हत्याकोटिविनाशनम् ।केवलञ्च प्रकर्त्तव्यं मद्दिनं फलकाङ्क्षिभिः ।वैष्णवैर्न तु कर्त्तव्या स्मरविद्धा चतुर्द्दशी
”अथ तद्व्रतविधिः तत्रैव ।“प्रातरुत्थाय कुर्व्वीत नियमं मनसा स्मरन् ।मामेव मद्दिने वत्स ! दन्तधावनपूर्व्वकम्
”नियममन्त्रम् ।“श्रीनृसिंह महोग्रस्त्वं दयां कुरु ममोपरि ।अद्याहं ते विधास्यामि व्रतं निर्व्विघ्नतां नयेति
व्रतस्थेन वक्तव्यं मद्दिने पापिभिः सह ।मिथ्यालापो कर्त्तव्यः समग्रफलकाङ्क्षिभिः
स्त्रियं दूतं विहायोच्चैर्व्रतस्थेन महात्मना ।स्मर्त्तव्यं मम रूपञ्च मद्दिने सकले शुभे
ततो मध्याह्नवेलायां नद्यादौ विमले जले ।गृहे वा देवखाते वा तडागे वातिशोभने
वैदिकेन मन्त्रेण स्नानं कुर्य्याद्विचक्षणः ।मृत्तिकागोमयेनैव तथा धात्रीफलेन वा
तिलैर्व्वा सर्व्वपापघ्नैः स्नानं कृत्वा महात्मभिः ।परिधाय शुचिर्व्वस्त्रे नित्यकर्म्म समाचरेत्
ततो गृहं समागत्य स्मरन् मां भक्तियोगतः ।गोमयेन विलिप्याथ कुर्य्यादष्टदलाम्बुजम्
कलसं तत्र संस्थाप्य ताम्ररत्नसमन्वितम् ।तस्योपरि न्यसेत् पात्रं तण्डुलैः परिपूरितम्
हैमी मूर्त्तिस्तु तत्रैव स्थाप्या लक्ष्मीस्तथैव ।पलेन तदर्द्धेन तदर्द्धार्द्धेन वा पुनः
यथाशक्ति तथा कार्य्ये वित्तशाठ्यविवर्ज्जितैः ।पञ्चामृतेन ते स्नाप्य पूजनन्तु समाचरेत्
ततो ब्राह्मणमाहूय तमाचार्य्यमलोलुपम् ।कुर्य्याच्छास्त्रसमायुक्तं शान्तं दान्तं जितेन्द्रियम्
तेनैव कारयेत् पूजां दृष्ट्वा शास्त्रानुसारतः ।आचार्य्यवचनाद्धीमान् पूजां कुर्य्याच्चरन् व्रतम्
”तत्राग्रे प्रह्लादः पूजनीयः तथा चागमे ।“प्रह्लादक्लेशनाशाय या हि पुण्या चतुर्द्दशी ।पूजयेत्तत्र यत्नेन हरेः प्रह्लादमग्रतः
”बृहन्नारसिंहे ।“मण्डपं कारयेत्तत्र पुष्पस्तवकशोभितम् ।ऋतुकालोद्भवैः पुष्पैः पूज्योऽहञ्च यथाविधि
उपचारैः षोडशभिर्म्मन्मन्त्रैर्नामभिस्तथा ।ततः पौराणिकैर्म्मन्त्रैः पूजनीयो विशेषतः
”तत्र चन्दनमन्त्रः ।“चन्दनं शीतलं दिव्यं चन्द्रकुङ्कुममिश्रितम् ।ददामि ते प्रतुष्ट्यर्थं नृसिंह परमेश्वरेति
”पुष्पमन्त्रः ।“कालोद्भवानि पुष्पाणि तुलस्यादीनि वै प्रभो ! ।पूजयामि नृसिंहेश ! लक्ष्म्या सह नमोऽस्तु ते
”धूपमन्त्रः ।“कालागुरुमयं धूपं सर्व्वदेवसुवल्लभम् ।करोमि ते महाविष्णो ! सर्व्वकामसमृद्धये
”द्वीपमन्त्रः ।“दीपः पापहरः प्रोक्तस्तमसां राशिनाशनः ।दीपेन लभते तेजस्तस्माद्दीपं ददामि ते
”नैवेद्यमन्त्रः ।“नैवेद्यं सौख्यदं चास्तु भक्ष्यभोज्यसमन्वितम् ।ददामि ते रमाकान्त सर्व्वपापक्षयं कुरु
”अर्घमन्त्रः ।“नृसिंहाच्युत देवेश लक्ष्मीकान्त जगत्पते ।अनेनार्घ्यप्रदानेन सफलाः स्युर्म्मनोरथाः
”पूजामन्त्रः ।“पीताम्बर महाविष्णो प्रह्लादभयनाशकृत् ।यथा भूतार्च्चने नाथ यथोक्तफलदो भवेति
रात्रौ जागरणं कुर्य्यात् गीतवादित्रनर्त्तनैः ।पुराणपठनं नृत्यं श्रोतव्यं मत्कथानकम्
ततः प्रभातसमये स्नानं कृत्वा ह्यतन्द्रितः ।पूर्व्वोक्तेन विधानेन पूजयेन्मां प्रयत्नतः
”किञ्च ।“मद्वंशे ये नरा जाता ये जनिष्यन्ति मत्पुरः ।तांस्त्वमुद्धर देवेश ! दुःसहात् भवसागरात्
पातकार्णवमग्नस्य व्याधिदुःखाम्बुराशिभिः ।तीव्रैस्तु परिभूतस्य महादुःखगतस्य मे
करावलम्बनं देहि शेषशायिन् जगत्पते ।श्रीनृसिंह रमाकान्त भक्तानां भयनाशन
क्षीराम्बुधिनिवास त्वं प्रीयमाणो जनार्द्दन ।व्रतेनानेन मे देव भुक्तिमुक्तिप्रदो भव
एवं प्रार्थ्य ततो देवं विसर्ज्ज्य यथाविधि ।उपहारादिकं सर्व्वमाचार्य्याय निवेदयेत्
दक्षिणाभिः सुसन्तोष्य ब्राह्मणांश्च विसर्ज्जयेत् ।मम ध्यानसमासक्तो भुञ्जीत सह बन्धुभिरिति
”इति श्रीहरिभक्तिविलासे १४ विलासः
वाचस्पत्यम्
Sanskrit
नृसिंहचतुर्दशी स्त्री नृसिंहस्याविर्भावदिनं चतुर्दशी शा०त० वैशाखशुक्लचतुर्दश्याम् आगमे “वैशाखे शुक्लपक्षेच चतुर्दश्यां महातिथौ सायं प्रह्लादधिक्कारमसहि-ष्णुः परोहरिः सद्यः कटकटाशब्दविस्मापितसभाजनः ।लीलया स्तम्भगर्भान्तादुद्भूतः शब्दभीषणः नृहरेरव-तारात्तां यत्नतः समुपोषयेत् महापुण्यतमायाञ्च सायंविष्णुं प्रपूजयेत्” वृहन्नारसिंहे “वैशाखशुक्लपक्षस्य चतु-र्दश्यां समाचरेत् मज्जन्मसम्भवं पुण्यं व्रतं पापप्रणा-शनम्” किञ्च “स्वातीनक्षत्रयोगे तु शनिवारे हि मद्-व्रतम् सिद्धियोगस्य योगे लभ्यते दैवयोगतः ।सर्वैरेतैस्तु संयुक्तैर्हत्याकोटिविनाशनम् केवलञ्च प्रक-र्त्तव्यं मद्दिनं फलकाङ्क्षिभिः वैष्णवैर्न तु कर्त्तव्यास्मरविद्धा चतुर्दशी” तत्र व्रतनित्यत्वादि वृहन्नरसिं-हपुराणे “वर्षे वर्षे तु कर्त्तव्यं मम सन्तुष्टिकारणम् ।महागुह्यमिदं श्रेष्ठं मानवैर्भवभीरुभिः” किञ्च “विज्ञायमद्दिनं यस्तु लङ्घयेत् तु पापभाक् एवं ज्ञात्वा प्रक-र्त्तव्यं मद्दिने व्रतमुत्तमम् अन्यथा नरकं याति याव-च्चन्द्रदिवाकरौ” तत्राधिकारिनिर्णयः तत्रैव “सर्वेषा-मेव लोकानामधिकारोऽस्ति मद्व्रते मद्भक्तैस्तु विशे-षेण प्रणेयं मत्परायणैः”