| YouTube Channel

नृपसभा (nRpasabhA)

 
L R Vaidya
English
nf-pa˚saBA {% f. %} an assembly of kings.
वाचस्पत्यम्
Sanskrit
नृपसभ(भा)
न०
स्त्री नृपाणां सभा “राजामनुष्यपूर्य्येति”पा० राजपर्य्यायग्रहणात् क्रीवत्वम् बहूनां नृपाणांसभायाम् एकस्य सभायां तु स्त्री तत्सभाप्रकारश्चऔशनसनीतिपरिशिष्टे अ० उक्तो यथा“राज्ञा राजसभा कार्य्या सुगुप्ता मनोरमा त्रि-कौष्ठैः पञ्चकीष्ठैर्वा सप्तकोष्ठैः सुविस्तृता दक्षिणोदक्तथा दीर्धा प्राक प्रत्यग द्विगुणाऽथ वा त्रिगुणा वायथाकाममेकभूमिर्द्विभूमिका त्रिभूमिका वा कर्त्तव्यासोपकार्य्याशिरोगृहा परितः परिकोष्ठेषु वातायनविरास्त्रिता पार्श्वकोष्ठात्तु द्विगुणा मध्यकोष्ठेषु वि-स्तृता पञ्चमांशाधिकं त्वौच्च्यं मध्यकोष्ठस्य विस्तरात् ।विस्तारेण समं त्वौच्चत्रं पञ्चमांशाधिकं तु वा कोष्ठ-कानां भूमिं यदि वा तत्र कारयेत् द्विभूमिकेपार्श्वकोष्ठे मध्यमं त्वेकभूमिकम् पृथक्स्तम्भा तु सत्कोष्ठा चतुर्मार्गानमा शुभा जलोद्वारादियन्त्रैश्च युतासुखरयन्त्रकैः वातप्रेरकयन्त्रैश्च यन्त्रौ कालप्रयो-धकैः प्रतिष्टिता सादर्शैस्तथा प्रतिरूपकैः ।एवंविधा राजसभा यन्त्रार्था कार्यदर्शने तथाविधा-मात्यसेख्यश्चभ्याधिकृतशालिकाः कर्चव्याः प्रागुदक्चितास्तदर्थाश्च पृथक् वृषक् शतहस्तमिर्ता भूमिंत्यक्ता राजगृहात् सदा उदक् द्विशतहस्ता प्राक् सेनासन्निवेशनार्थिका आराद्राजगृहस्यैव प्रजानां निल-यानि सधनिश्रेष्ठिकाननुक्रभतश्च सदा ततः सम-न्ताच्च चतुर्दिक्षु विन्यसेच्च ततःपरम् प्रकृत्यनुप्रकृतयोह्याधिकारिगणस्ततः सेनाधिपपदातीनां गणः सादिगणस्ततः साश्वश्च सगजश्चापि गजपालगणस्ततः ।वृहन्नालिकयन्त्राणि ततः सत्वरगोगणः ततः खगो-ल्मिकगणो ह्यारण्यकगणस्ततः क्रमादेषां गृहाणिस्युः शोभनानि परे सदा पान्थशाला ततः कार्य्यासुगुप्ता सजलाशया सजातीयगृहाणां समुदायेनपङ्क्तितः निवेशने पुरे ग्रामे प्रागुदक् सुखमेधते ।सजातिपण्यनिवहैरापणे पण्यवेशनम् धनिकादिक्रमे-णैव राजमार्गस्य पार्श्वतः एवं हि पत्तनं कुर्य्यात् प्रभंचैव नराधिपः” तदधिवेशनप्रकारः तत्रैव “सभायांप्रत्यगर्द्धस्य मध्ये राजासनं भवेत् दक्षसंस्था वाम-संस्थाः विशेयुः पार्श्वपृष्ठगाः पुत्राः पौत्राः भ्रातरश्चभागिनेयाश्च पृष्ठतः दौहित्रा दक्षभागास्तु वामसं-स्थाः क्रमादिमे पितृव्याः स्वकुलश्रेष्ठाः सभ्याः सेनाधि-पास्तया स्वाग्रे दक्षिणभागे तु प्राक्संस्थाः पृथना-सनाः मातामहकुलश्रेष्ठा मन्त्रिणो कान्धवास्तथा ।श्वशुराश्चैव श्यालाश्च वामाशे चाधिकारिणः वाम-दक्षिणपार्श्वस्थो जामाता भगिनीपतिः स्वसदृशस-मीपे वा स्वार्द्धासनगतः सुहृत् दौहित्रभागिनेयानांस्थाने स्युर्दत्तकादयः भागिनेयाश्च दौहित्राःपुत्रादिस्थानसंस्थिताः यथा पिता तथार्चायां समःश्रेष्ठासने स्थितः पार्श्वयोरग्रतः सर्वे सेवका मन्त्रिण-स्तथा परिवारगणाः सर्वेः सर्वेभ्यः पृष्ठसंस्थिताः ।स्वर्णदण्डघरौ स्यातां प्रवेशननिवेदकौ विशिष्टचिह्नधृक्राजा स्वासने प्रवसेत् स्वके सुभूषणः सुवसनः कवचीमुकुटान्वितः स्निग्धास्त्रलग्नशस्त्रस्तु सावधानःमनाः सदा”