| YouTube Channel

नृपतिवल्लभ (nRpativallabha)

 
शब्दकल्पद्रुमः
Sanskrit
नृपतिवल्लभः,
पुं,
(नृपतीनां वल्लभः प्रियः ।)औषधविशेषः नृपवल्लभ इति ख्यातः यथा, “जातीफलं लवङ्गाब्दत्वगेलाटङ्गरामठम् ।जीरकञ्च यमानी विश्वसैन्धवपत्रकम्
लौहमभ्रं रसं गन्धं ताम्रं प्रत्येकशः पलम् ।मरिचं त्रिपलं दत्त्वा छागीदुग्धेन पेषयेत्
धात्रीरसेन वा पिष्ट्वा वटिकां कुरु यत्नतः ।श्रीमद्गहननाथेन विचिन्त्य परिनिर्म्मितः
सूर्य्यवत्तेजसा चायं रसो नृपतिवल्लभः ।अष्टाद्दशवटीं खादेत् पवित्रः सूर्य्यदर्शकः
हन्ति मन्दानलं सर्व्वमामदोषं विसूचिकाम् ।प्लीहगुल्मोदराष्ठीलायकृत्पाण्डुहलीमकम्
हृत्शूलं कण्ठशूलञ्च चक्षुःशूलञ्च कामलाम् ।शिरःशूलं कटीशूलमानाहमोष्ठशूलकम्
कासश्वासामवातञ्च श्लीपदं शोथमर्व्वुदम् ।गलगण्डं गण्डमालामम्लपित्तञ्च गर्द्दभीम्
क्रिमिकुष्ठानि दद्रूणि वातरक्तं भगन्दरम् ।उपदंशमतीसारं ग्रहण्यर्शःप्रमेहकम्
अश्मरीं मूत्रकृच्छ्रञ्च मूत्राघातमसृग्दरम् ।ज्वरं जीर्णज्वरं कण्डुं तन्द्रालस्यं वमिं भ्रमिम्
दाहविद्रधिहिक्काश्च जडगद्गदमूकताः ।वाधिर्य्यं स्वरभेदञ्च वृध्नवृद्धिविसर्पकान्
ऊरुस्तम्भं रक्तपित्तं गुदभ्रंशारुचिं तृषाम् ।कर्णनासानुशोथांश्च दन्तरोगञ्च पीनसम्
स्थौल्यञ्च शीतपित्तञ्च स्थावराणि विषाणि ।वातपित्तकफोत्थांश्च द्वन्द्बजान् सान्निपाति-कान्
सर्व्वरोगचयान् हन्ति चण्डांशुरिव पापहा ।बलवर्णकरो ह्येष आयुष्यो वीर्य्यवर्द्धनः
परं वाजीकरः श्रेष्ठः पटुतामन्त्रसिद्धिदः ।अरोगीदीर्घजीवी स्यात् रोगी रोगं विमुञ्चति ।रसस्यास्य प्रसादेन सुबुद्धिर्जायते नरः
”इति रत्नावली
वाचस्पत्यम्
Sanskrit
नृपतिवल्लभ
पु०
त० वटिकात्मके औषधभेदे “जाती-फलं लवङ्गाब्दत्वगेलाटङ्गरामठम् जीरकञ्च यवानीच विश्वासौन्धवपत्रकम् लौहमभ्रं रसं गन्धं ताम्रंप्रत्ये कशः पलम् मरिचं त्रिपलं दत्त्या छागोदुग्धेनपेषयेत् धात्रीरसेन वा पिष्ट्वा वटिकां कुरु यत्नतः ।श्रीमद्गगननाथेन विचिन्त्य परिनिर्सितः सूर्य्यवत्ते-जसा चायं रसो नृपतिवल्लभः अष्टादशवटीं खादेत्पवित्रः सूर्य्यदर्शकः हन्ति मन्दानलं सर्वभामदोषं वि-सूचिकाम् प्लीहगुल्मोदराष्ठीला यकृत् पाण्डुहली-सकम् हृच्छूलं कण्ठशूलञ्च चक्षुःशूलञ्च कामलाम् ।शिरःशूलं कटीशूलमानाहमोष्ठशूलकम् कासश्वासाम-वातञ्च श्लीपदं शोथमर्बुदम् गलगण्डं गण्डमाला-मम्लपित्तञ्च गर्दभीम् क्रिमिकुष्ठानि दद्रूणि वातरक्तंभगन्दरम् उपदंशमतीसारं ग्रहण्यर्शःप्रमेहकम् ।अश्मरीं मूत्रकृच्छ्रञ्च मूत्राधातमसृग्दरम् ज्वरं जीर्ण-ज्वरं कण्डूं तन्द्रालस्यं वमिं भ्रमिम् दाहविद्रधिहिक्काश्च जडगद्गदमूकताः बाधिर्य्यं स्वरभेदञ्च मुष्क-वृद्धिविसर्प्रकान् उरुस्तम्भं रक्तपित्तं गुदभ्रंशारुचिंतृषाम् कर्णनासानुशोथांश्च दन्तरोगञ्च पीनसम् ।स्थौल्यञ्च शीतपित्तञ्च स्थावराणि विषाणि वात-पित्तकफोत्थांश्च द्वन्धजान् सान्निपातिकान् सर्वरोगचयान्हन्ति चण्डांशुरिव पापहा बलवर्णकरो ह्येष आ-युष्यो वीर्य्यवर्द्धनः परं वाजीकरः श्रेष्ठः पटुतामन्त्रसिद्धिदः अरोगी दीर्घजीवी स्यात् रोगी रोगं विमु-ञ्चति रसस्यास्य प्रसादेन सुबुद्धिर्जायते नरः” भैमज्य-रत्नावली राज्ञां प्रिये
त्रि०
राजपत्न्यां स्त्रीनृपवल्लभादयोऽप्यत्र