| YouTube Channel

नृपगृह (nRpagRha)

 
Spoken Sanskrit
English
नृपगृह nRpagRha
n.
palace
नृपगृह nRpagRha
n.
king's house
Monier Williams Cologne
English
नृ-प—गृह
n.
‘k°'s house’, a palace,
Var.
Rājat.
Shabdartha Kaustubha
Kannada
नृपगृह
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ರಾಜನ ಅರಮನೆ /ರಾಜನ ವಾಸಸ್ಥಾನ
व्युत्पत्तिः - > नृपस्य गृहम्
विस्तारः - > "उत्तममष्टाभ्यधिकं हस्तशतं नृपगृहं पृथुत्वेन अष्टाष्टोनान्येवं पञ्च सपादानि दैर्घ्येण ॥" - बृहत्सं० ५३-४ ರಾಜನ ಅರಮನೆಯು ೧೦೮ ಮೊಳಗಳ ಅಗಲವುಳ್ಳದ್ದಾಗಿಯೂ ೧೩೫ ಮೊಳಗಳ ಉದ್ದಳತೆಯುಳ್ಳದ್ದಾಗಿಯೂ ಇರಬೇಕು.
L R Vaidya
English
nf-pa˚gfha {% n. %} a royal palace.
वाचस्पत्यम्
Sanskrit
नृपगृह
न०
त० राजमन्दिरे तल्लक्षणादि वृ० सं० ५३ अ०“उत्तममष्टाभ्यधिकं हस्तशतं नृपगृहं पृथुत्वेन अष्टा-ष्टोनान्येवं पञ्च सपादानि दैर्घ्येण” औशनसनीतिपरि-शिष्टे अ० तद्विवृतिर्यथा“राजगृहं सभामध्यं गवाश्वगजशालिकम् प्रशस्तवापीकूपादिजलयन्त्रैः सुशोभितम् सर्वतः स्यात् सम-भुजं दक्षिणोच्चमुदङ्नतम् शालां विना नैकभुजम् तथाविषमबाहुकम् प्रायःशाला नैकभुजा चतुशालं विनाशुभा शस्त्रास्त्रधारिभिर्युक्तप्राकारं सुष्ठुयन्त्रकम् ।सन्निकृष्टचतुर्द्वारं चतुर्दिक्षु सुशोभनम् दिवारात्रौसशस्त्रास्त्रैः प्रतिकक्षासु गोपितम् चतुर्भिः पञ्चभिःषड्मिर्यामिकैः परिवर्त्तकैः नानागृहोपकार्य्याट्ट-संयुतं कल्पयेत् सदा वस्त्रादिमार्जनार्थं स्नानार्थंयजनार्थकम् भोजनार्थं पाकार्थं पूर्बस्यां कल्पयेत्गृहम् निद्रार्थञ्च विहारार्थं पानार्थं रोदनार्थकम् ।धान्यार्थं द्वारपालार्थं दासीदासार्थमेव उत्-सर्गार्थं ग्रहान् कुर्य्यात् दक्षिणस्यामनुक्रमात् गोखगोष्ट्रगजाद्यर्थं ग्रहान् प्रत्यक् प्रकल्पयेत् रथवा-ज्यर्थशस्त्रार्थव्यायामयामिकार्थकम् वस्त्रार्थकं तद्भ-रार्थं विद्याभ्यासार्थमेव उदक् ग्रहान् प्रकुर्वीतसुगुप्तान् सुमनोहरान् यथामुखानि वा कुर्य्याद्गृहा-ण्येतानि वै नृपः धर्माधिकरणं शिल्पशालां कुर्य्यादुदग्ग्रहान् पञ्चमांशाधिकोच्छ्रायां भित्तिं विस्तरतो गृहे ।कोष्ठविरतारषष्ठांशस्थूला सा प्रकीर्त्तिता एकभूमेरिदं मानमूर्द्धमूर्द्ध्वं समन्ततः स्तम्भैश्च भित्तिभिर्वापिपृथक् कोष्ठानि संन्यमेत् त्रिकोष्ठं पञ्चकोष्ठं वा सप्त-कोष्ठं गृहं स्मृतम् द्वारार्थमष्टधा भक्तं द्वारस्यांशौतु मध्यमौ द्वौ द्वौ क्षेयौ चतुर्दिक्षु धनपुत्रपदौ नृ-णाम् तत्रैव कल्पयेत् द्वारं नान्यत्र तु कदाचन ।वातायनं पृथक् कोष्ठे कुर्य्याद्यादृक् सुखावहम् अन्यगेहद्वारविद्धं गृहद्वारं कारयेत् वृक्षकोणस्तम्भमार्गपीठकूपैश्च वेधितम् प्रासादमण्डपद्वारे मार्भवेधो नविद्यते गृहपीठं चतुर्थांशमुच्छ्रायस्य प्रकल्पयेत् ।प्रसादानां मण्डपानां चार्द्धांशं चापरे जगुः परवातायनैर्विद्धं नापि वातायनं स्मृतम् हीना निम्नाछदिर्न स्यात्तादृक् कोष्ठस्य विस्तरः स्वोच्छायस्यार्द्धमूलैकप्राकारः सममूलकः तृतीयांशकमूलो वा ह्रस्वस्यार्द्धप्रविस्तरः उच्छ्रितस्तु तथा कार्य्यो दस्युभिर्न विल-ङ्ग्यते यामिकैरक्षितो नित्यं नालिकास्त्रैश्च संयुतः ।बहुसुदृढगुल्मश्च सुगवाक्षप्रणालिकः स्वहीनमहा-प्राकारो ह्यसमीपमहोधरः परिखा तत्र कार्य्या चखातात् द्विगुणयिस्तरा नातिसमीपप्राकारा ह्यगाध-सलिला शुभा युद्धसाधनसम्भारैः सुयुद्धकुशलैर्विना ।न श्रेयसे दुर्गवामे राज्ञः स्याद् बन्धनाय वै”