नृत्य (nRtya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishनृत्य - nRtya - - dance
नृत्यं करोति { कृ } - nRtyaMkaroti{kR} - verb 8 - dance
नट - naTa - - dancer
नर्तक - nartaka - - dancer
देशी - dezI - - dance
अनुकार - anukAra - - dance
ताल - tAla - - dance
नर्त - narta - - dance
विवर्त - vivarta - - dance
नाट - nATa - - dance
नटन - naTana - - dance
नृत्त - nRtta - - dance
नाट्य - nATya - - dance
लास्य - lAsya - - dance
कौतुक - kautuka - - dance
तौर्यत्रिक - tauryatrika - - dance
नर्तित - nartita - - dance
प्रनृत्त - pranRtta - - dance
लास्यक - lAsyaka - - dance
नृत्यति { नृत् } - nRtyati { nRt } - verb - dance
नृत्य - nRtya - - dance
नृत्य - nRtya - - pantomime
नृत्य - nRtya - - mime
नृत्य - nRtya - - acting
नृत्य - nRtya - - dancing
नृत्य - nRtya - - gesticulation
Monier Williams 1872
Englishनृत्य, अम्, n. dancing, acting, dance, gesticula-
tion, pantomime.
—नृत्य-गीत-वाद्य, आनि, n. pl.
dancing, singing, and instrumental music.
—नृत्य-
प्रिय, अस्, आ, अम्, fond of dancing
(अस्), m. a
peacock
(आ), f., N. of one of the Mātṛs attending
on Skanda.
—नृत्य-शाला, f. a dancing-room.
—नृत्य-सर्वस्व, अम्, n. ‘the whole essence of
dancing, ’ N. of a work.
—नृत्य-स्थान, अम्, n. a
place for dancing, a dancing-room.
Apte Hindi
Hindiनृत्यम्
- "नृ+क्त, क्यप् वा"
"नाचना, अभिनय करना, नाचमूक अभिनय, हावभाव"
नृत्यम्
- "नृत्+क्त्, क्यप् वा"
"नाच, अभिनय"
Shabdartha Kaustubha
Kannadaनृत्य
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ನರ್ತನ /ಕುಣಿತ
निष्पत्तिः - > नृती (गात्रविक्षेपे) - "क्यप्" (३-१-११०)
प्रयोगाः - > "सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम्"
उल्लेखाः - > रघु० ३-१९
विस्तारः - > "अन्यद्भावाश्रयं नृत्यं नृत्तं ताललयाश्रितम्" - दशरू० १-९ ನೃತ್ಯ ಮತ್ತು ನೃತ್ತಗಳೆರಡರಲ್ಲೂ ಗಾತ್ರವಿಕ್ಷೇಪವು ಸಮಾನವಾದರೂ ಅನುಕರಣಾತ್ಮಕವೂ ಭಾವಾಶ್ರಯವೂ ಆದ ನೃತ್ಯಕ್ಕಿಂತಲು ತಾಲಲಯಾಶ್ರಯವಾದ ನೃತ್ತವು ಭಿನ್ನವಾದುದು. "मधुरोद्धतभेदेन तद्वयं द्विविधं पुनः । लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥" - दशरू० १-१० ನೃತ್ತ ಮತ್ತು ನೃತ್ಯಗಳೆರಡೂ ಲಾಸ್ಯ ಮತ್ತು ತಾಂಡವಗಳೆಂದು ಎರಡು ವಿಧ. ಸುಕುಮಾರವಾದ ನೃತ್ತ ಮತ್ತು ನೃತ್ಯಗಳು ಲಾಸ್ಯ. ಉದ್ಧತವಾದ ನೃತ್ತ ಮತ್ತು ನೃತ್ಯಗಳು ತಾಂಡವ.
L R Vaidya
EnglishSanskrit Tibetan
Tibetangar
१) कुत्र २) कुह ३) क्व ४) ताण्डव ५) नट ६) नृत्य ७) भाव ८) यत्र
gar bro
१) नट २) नृत्य ३) भाव
अभिधानचिन्तामणिः
Sanskritगीतं गानं गेयं गीतिर्गान्धर्वमथ नर्तनम् ।
नटनं नृत्यं नृत्तं च लास्यं नाट्यं च ताण्डवम् ॥ २८० ॥
गीत (क्ली), गान (क्ली), गेय (क्ली), गीति (स्त्री), गान्धर्व (क्ली), नर्तन (क्ली), नटन (क्ली), नृत्य (क्ली), नृत्त (क्ली), लास्य (क्ली), नाट्य (क्ली), ताण्डव (पुंक्ली)
अभिधानरत्नमाला
Sanskritनृत्य
नृत्य, ताण्डव, लास्य
नृत्यं तु ताण्डवं लास्यं त्रितयं नाट्यमुच्यते ॥ ९३ ॥
verse 1.1.1.93
page 0012
अमरकोशः
SanskritWord: नृत्यम्
Root: नृत्य
Gender: नपुं
Number: all
Meaning(s):
⇒ mime
⇒ dance
⇒ acting
⇒ dancing
⇒ pantomime
⇒ gesticulation
Shloka(s):
1|7|10|1 ► ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने। (नाट्यवर्गः)
Synonym(s):
➠ 1|7|10|1 ⇢ ताण्डवः (ताण्डव) (पुं)
➠ 1|7|10|1 ⇢ ताण्डवम् (ताण्डव) (नपुं)
➠ 1|7|10|1 ⇢ नटनम् (नटन) (नपुं)
➠ 1|7|10|1 ⇢ नाट्यम् (नाट्य) (नपुं) ⇒ dance, dancing, dramatic art, costume of an actor, mimic representation, performance [theatre], dramatic representation
➠ 1|7|10|1 ⇢ लास्यम् (लास्य) (नपुं) ⇒ dance, dancing, dance representing the emotions of love dramatically
➠ 1|7|10|1 ⇢ नृत्यम् (नृत्य) (नपुं) ⇒ mime, dance, acting, dancing, pantomime, gesticulation
➠ 1|7|10|1 ⇢ नर्तनम् (नर्तन) (नपुं)
Related word(s):
परा_अपरासंबन्धः ➡ नृत्यविशेषः
जातिः ➡ क्रिया
उपजीव्य_उपजीवक_भावः ➡ नर्तकी
शब्दकल्पद्रुमः
Sanskritनृत्यं, (नृत् + “ऋदुपधाच्चाकॢपिचृतेः ।”२ । १ । ११० । इति क्यप् ।) तालमानरसा-श्रयसविलासाङ्गविक्षेपः । नाच इति भाषा ।तत्पर्य्यायः । ताण्डवम् २ नटनम् ३ नाट्यम् ४लास्यम् ५ नर्त्तनम् ६ । इत्यमरः । ४ । ७ । १० ॥
नृत्तम् ७ । उद्धृतं नृत्यं ताण्डवम् । सुकुमारन्तुलास्यम् । भावाश्रयं नृत्तम् । ताललयाश्रयंनृत्यमिति भेदोऽत्र नादृतः । इति भरतः ॥
नाटः८ लासः ९ लास्यकम् १० नृतिः ११ इतिशब्दरत्नावली ॥
* ॥
तस्य लक्षणादि यथा, --“देवरुच्या प्रतीतो यस्तालमानरसाश्रयः ।सविलासोऽङ्गविक्षेपो नृत्यमित्युच्यते बुधैः ॥
* ॥
ताण्डवञ्च तथा लास्यं द्बिविधं नृत्यमुच्यते ।पेवलिर्बहुरूपञ्च ताण्डवं द्बिविधं मतम् ॥
अङ्गविक्षेपबाहुल्यं तथाभिनयशून्यता ।यत्र सा पेवलिस्तस्याः सङ्गादेशीति लोकतः ॥
छेदनं भेदनं यत्र बहुरूपा मुखावली ।ताण्डव बहुरूपन्तद्बारुणागलमुद्बतम् ॥
* ॥
छरितं यौवतञ्चेति लास्यं द्विविधमुच्यते ।यत्राभिनयाद्यैर्भावै रसैराश्लेषचुम्बनैः ॥
नायिकानायकौ रङ्ग नृत्यतश्छुरितं हि तत् ॥
मधुरं बद्धलीलाभिर्नटीभिर्यत्र नृत्यते ।वशीकरणविद्याभं तल्लास्यं यौवतं मतम् ॥
* ॥
गेयादुत्तिष्ठते वाद्यं वाद्यादुत्तिष्ठते लयः ।लयतालसमारब्धं ततो नृत्यं प्रवर्त्तते ॥
”इति सङ्गीतदामोदरः ॥
अरूपस्य नृत्यं व्यर्थम् । यथा, --“नृत्येनालमरूपेण सिद्धिर्नाट्यस्य रूपतः ।चार्व्वधिष्ठानवन्नृत्यं नृत्यमन्यद्विडम्बना ॥
”इति मार्कण्डेयपुराणम् ॥
विष्णुगृहे नृत्यफलं यथा, --“नृत्यमानस्य वक्ष्यामि तच्छृणुष्व वसुन्धरे ! ।मनुजा येन गच्छन्ति छित्वा संसारसागरम् ॥
त्रिंशद्वर्षसहस्राणि त्रिंशद्बर्षशतानि च ।पुष्करद्वीपमासाद्य मोदते वै यदृच्छया ॥
पुष्कराच्च परिभ्रष्टः स्वच्छन्दगमनालयः ।फलं प्राप्नोति सुश्रोणि ! मम कर्म्मपरायणः ॥
रूपवान् गुणवान् शूरः शीलवान् सुपथेस्थितः ।मद्भक्तश्चैव जायेत संसारपरिमोचितः ॥
”इति वाराहे शौकरमाहात्म्यम् ॥
“दृष्ट्वा संपूजितं देवं नृत्यमानोऽनुमोदयेत् ।असंशयमतिः शुद्धः परं ब्रह्म स गच्छति ॥
”इत्यग्निपुराणम् ॥
अपि च । द्बारकामाहात्म्ये श्रीभागवते ।“यो नृत्यति प्रहृष्टात्मा भावैर्बहुसुभक्तितः ।स निर्द्दहति पापानि जन्मान्तरशतेष्वपि ॥
”हरिभक्तिसुधोदये ।“बहुधोत्सार्य्यते हर्षाद्विष्णुभक्तस्य नृत्यतः ।पद्भ्यां भूमेर्दिशोऽक्षिभ्यां दोर्भ्याञ्चामङ्गलं दिवः ॥
”विष्णुधर्म्मोत्तरे ।“नृत्यं दत्त्वा तथाप्नोति रुद्रलोकमसंशयम् ।स्वयं नृत्येन संपूज्य तस्यैवानुत्तरो भवेत् ॥
”अन्यत्र च नारदोक्तौ ।“नृत्यतां श्रीपतेरग्रे तालिकावादनैर्भृशम् ।उड्डीयन्ते शरीरस्थाः सर्व्वे पातकपक्षिणः ॥
”इति हरिभक्तिविलासः ॥
वाचस्पत्यम्
Sanskritनृत्त(त्य) नृत--क्त क्यप् वा । तालमानयुक्ते सविलासा-ङ्गविक्षेपरूपे नर्त्तने “ताण्डवं नटनं नृत्यं लास्यं नृत्यञ्चनर्त्तने” अमरे ईषद्भेदेऽपि पर्यायता । तल्लक्षणादि यथा“देवरुच्या प्रतीतो यस्तालमानरसाश्रयः । सविलासोऽङ्गविक्षेपो नृत्यमित्युच्यते बुधैः । ताण्डवश्च तथा खास्यंद्विविधं नृत्यमुच्यते । अङ्गविक्षेपबाहुल्यं तथाभिनय-शून्यता । यत्र सा पेरलिस्तस्याः संज्ञा देशीति लोकतः ।क्लेदनं भेदनं यत्र बहुरूपा मुखावली । ताण्डवं बहु-रूपन्तद्वारुणागलमुद्धतम् । छुरितं यौवतञ्चेति लास्य”द्विविधमुच्यते । यत्राभिनयाद्यैर्भावैरसैराश्लेषचुम्बनैः ।नायिकानायकौ रङ्गे नृत्यतश्छुरितं हि तत् । मधुरंबद्वलीलाभिर्नटीभिर्यत्र नृयते । वशीकरणविद्याभं त-ल्लास्यं यौवतं मतम् । गेयादुत्तिष्ठते वाद्यं वाद्यादुत्तिष्ठतेलयः । लयतालसमारब्धं ततो नृत्यं प्रवर्त्तते” सङ्गी-तदा० । अपरूपस्य नृत्यं व्यर्थं यथा “नृत्येनालमरु-पेण सिद्धिर्नाट्यस्य रूपतः । चार्वधिष्ठानवन्नृत्यं नृत्य-मन्यद्विडम्बना” इति मार्क० “रङ्गस्य दर्शयित्वा न-र्त्तकी निवर्त्तते यथा नृत्यात्” सा० का० । “गोपाङ्गनानृत्यमनन्दयत्तम्” भट्टिः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
