| YouTube Channel

नृचक्षाः (nRcakSAH)

 
Wordnet
Sanskrit
Synonyms:
असुरः, दैत्यः, दैतेयः, दनुजः, इन्द्रारिः, दानवः, शुक्रशिष्यः, दितिसुतः, पूर्वदेवः, सुरद्विट्, देवरिपुः, देवारिः, कौणपः, क्रव्यात्, क्रव्यादः, अस्रपः, आशरः, रात्रिञ्चरः, रात्रिचरः, कव्वूरः, निकषात्मजः, यातुधानः, पुण्यजनः, नैर्ऋतः, यातुः, रक्षः, सन्ध्याबलः, क्षपाटः, रजनीचरः, कीलापाः, नृचक्षाः, नक्तञ्चरः, पलाशी, पलाशः, भूतः, नीलाम्बरः, कल्माषः, कटप्रूः, अगिरः, कीलालपः, नरधिष्मणः, खचरः
noun
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा देवानां ऋषीणां शत्रवः आसन्।
"पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।"
शब्दकल्पद्रुमः
Sanskrit
नृचक्षाः [स्]
पुं,
(नन् चष्टे भक्ष्यत्वेन पश्यतीति ।चक्ष ङ् दर्शने + “सर्व्वधातुभ्योऽसुन्” उणां ।१८८ इत्यसुन् यद्वा, “चक्षेर्बहुलं शिच्च ।”उणां २३२ इत्यसिः असनयोश्चेतिन ख्याञादेशः ।) राक्षसः इति हेमचन्द्रः ।२ १०१
(नॄन् चष्टे पश्यतीति नॄन् शुभा-शुभकर्त्तॄन् चष्टे पश्यति जानातीत्यर्थः देवः ।यथा, ऋग्वेदे १० १०७ ।“शतधारं वायुमर्कं स्वर्विदंनृचक्षसस्ते अभिचक्षते हविः
”“नृचक्षसः नॄणां द्रष्टॄनन्यानिन्द्रादीन् देवांश्च ।”इति भाष्यकृत्सायनः
नॄणां कर्म्मणेतॄणा-मध्वर्यादीनामुपद्रष्टा यथा, ऋग्वेदे ५३ ।“अस्तभ्नात् सिन्धुमर्णवं नृचक्षाः
”)