| YouTube Channel

नीलोत्पलं (nIlotpalaM)

 
शब्दकल्पद्रुमः
Sanskrit
नीलोत्पलं
क्ली,
(नीलं नीलवर्णमुत्पलमिति ।)नीलवर्णोत्पलम् नीलशाँपला इति भाषा ।तत्पर्य्यायः उत्पलकम् कुवलयम् इन्दी-वरम् कन्दोत्थम् सौगन्धिकम् सुगन्धम् ७कुड्मलकम् असितोत्पलम्
(यथा, भागवते २४ १० ।“झषकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलय-कह्लारनीलोत्पललोहितशतपत्रादिवनेषु
”)अस्य गुणाः अतिस्वादुत्वम् शीतत्वम् ।सुरभिलम् सौख्यकारित्वम् पाके अत्यन्ततिक्त-त्वम् रक्तपित्तहरत्वञ्च इति राजनिर्घण्टः