| YouTube Channel

नीलाञ्जनं (nIlAJjanaM)

 
शब्दकल्पद्रुमः
Sanskrit
नीलाञ्जनं,
क्ली,
(नीलमञ्जनम् ।) सौवीराञ्जनम् ।(यथा, नवग्रहस्तोत्रे शनैश्चरप्रणाममन्त्रम् ।“नीलाञ्जनचयप्रख्यं रविसूनुं महाग्रहम् ।छायाया गर्भसग्भूतं वन्दे भक्त्या शनैश्चरम्
”)तत्तु उपधातुविशेषः तस्य गुणाः कटुत्वम् ।श्लेष्ममुखरोगनेत्ररोगव्रणदाहनाशित्वम् उष्ण-त्वम् रसायनत्वम् तिक्तत्वम् भेदकत्वञ्च ।इति राजवल्लभः
(अस्य शोधनविधिर्यथा, --“नीलाञ्जनं चूर्णयित्वा जम्बीरद्रवभावितम् ।दिनैकमातपे शुद्धं भवेत् कार्य्येषु योजयेत्
”इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-कारे
) तुत्थम् इति राजनिर्घण्टः