| YouTube Channel

नीलसिन्दुवार (nIlasinduvAra)

 
शब्दकल्पद्रुमः
Sanskrit
नीलसिन्दुवारः,
पुं,
(नीलः सिन्दुवारः ।) कृष्ण-वर्णसिन्दुवारवृक्षः नीलसिन्दुयार इति भाषा ।तत्पर्य्यायः शीतसहा निर्गुण्डी नील-सिन्दुकः सिन्दुकः कपिका भूतकेशी ७इन्द्राणी नीलिका नीलनिर्गुण्डी १० ।अस्य गुणाः कटुत्वम् उष्णत्वम् तिक्तत्वम् ।रूक्षत्वम् कासश्लेष्मशोफसमीरणार्त्तिप्रदरा-ध्माननाशित्वञ्च इति राजनिर्घण्टः