| YouTube Channel

नीलवृषः (nIlavRSaH)

 
शब्दकल्पद्रुमः
Sanskrit
नीलवृषः,
पुं,
कृष्णवर्णवृषः वृषविशेषः तस्यलक्षणं यथा, --“लोहितो यस्तु वर्णेन मुखे पुच्छे पाण्डरः ।श्वेतः खुरविषाणाभ्यां नीलो वृष उच्यते
”इति शुद्धितत्त्वम्
अपि ।“लोहितो यस्तु वर्णेन शङ्खवर्णः खुरो वृषः ।लाङ्गूलशिरसोश्चैव वै नीलवृषः स्मृतः
”तस्योत्सर्गे गयाश्राद्धादितुल्यफलं यथा, --“जायेरन् बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।यजेद्वा अश्वमेधेन नीलं वा वृषमुत्सृजेत्
”इति देवीपुराणम्