| YouTube Channel

नीललोहितः (nIlalohitaH)

 
Hindi
Hindi
गहरे नीले रंग का रंग
Apte Hindi
Hindi
नीललोहितः
पुं*
नील-लोहितः -
शिव का विशेषण
Wordnet
Sanskrit
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
Tamil
Tamil
நீலலோஹித: : நீலக்3ரீவ: = சிவன்.
शब्दकल्पद्रुमः
Sanskrit
नीललोहितः,
पुं,
(नीलश्चासौ लोहितश्चेति ।“वर्णो वर्णेन ।” ६९ इति समासः ।नीलः कण्ठे लोहितश्च केशेष्विति स्वामी ।)शिवः इत्यमरः ३५
(यथा, कुमारे ५७ ।“संयुगे सांयुगीनं तमुद्यन्तं प्रसहेत कः ।अंशादृते निषिक्तस्य नीललोहितरेतसः
”)चैत्रे मासि तस्य व्रतविधानं यथा, --“चैत्रे शिवोत्सवं कुर्य्यान्नृत्यगीतमहोत्सवैः ।स्नात्वा त्रिसन्ध्यं रात्रौ हविष्याशी जितेन्द्रियः
किमलभ्यं भगवति प्रसन्ने नीललोहिते ।उपोष्य हुत्वा संक्रान्त्यां व्रतमेतत् समर्पयेत्
”इति मासकृत्ये बृहद्धर्म्मपुराणम्
कल्पविशेषः इति महाभारतम्
अस्य विव-रणं कल्पशब्दे द्रष्टव्यम्
) नीलरक्तमिश्रितवर्णश्च