| YouTube Channel

नीलपिङ्गला (nIlapiGgalA)

 
शब्दकल्पद्रुमः
Sanskrit
नीलपिङ्गला,
स्त्री,
(नीला पिङ्गला चेति कर्म्म-धारयः ।) गोजातिविशेषः यथा, --“गवां जातिन्तु वक्ष्यामि शृणुष्वैकमना द्विज ! ।प्रथमा गौरकपिला द्बितीया गौरपिङ्गला
तृतीया रक्तकपिला चतुर्थी नीलपिङ्गला ।पञ्चमी शुक्लपिङ्गाक्षी षष्ठी तु शुक्लपिङ्गला
सप्तमी चित्रपिङ्गाक्षी अष्टमी वभ्रुरोहिणी ।नवमी श्वेतपिङ्गाक्षी दशमी श्वेतपिङ्गला
तादृशास्तेऽप्यनड्वाहः कपिलास्तु प्रकीर्त्तिताः
”इति बृहद्धर्म्मपुराणे उत्तरखण्डे १५ अध्यायः