| YouTube Channel

नीलदूर्वा (nIladUrvA)

 
Monier Williams Cologne
English
नील—दूर्वा
f.
a species of Dūrvā or Dūrb grass,
Bhpr.
शब्दकल्पद्रुमः
Sanskrit
नीलदूर्व्वा,
स्त्री,
(नीला दूर्व्वा ।) हरितदूर्व्वा ।तत्पर्य्यायः हरिता शाम्भवी श्यामा ४शीता शतपर्व्विका अमृता पूता ८शतग्रन्थिः अनुष्णवल्लिका १० शिवा ११शिवेष्टा १२ मङ्गला १३ जया १४ सुभगा १५ भूत-हन्त्री १६ शतमूला १७ महौषधी १८ विजया १९गौरी २० शान्ता २१
(यथा निघण्टौ धन्व-न्तरिः ।“नीलदूर्व्वा स्मृता शस्यं शाद्बलं हरितं तथा ।शतपर्व्वा शीतकुम्बी शीतला वामनी तथा
”)तस्या गुणाः हिमत्वम् तिक्तत्वम् मधु-रत्वम् तुवरत्वम् लघुत्वम् रक्तपित्ताति-सारकफवान्तिज्वरनाशित्वञ्च पुस्तकान्तरेरोचनत्वम् वातापहत्वञ्च इति राजनिर्घण्टः
(अस्याः पर्य्यायान्तरं गुणान्तरञ्च यथा, --“नीलदूर्व्वारुहानन्ता भार्गवी शतपर्व्विका ।शष्पं सहस्रवीर्य्या शतवल्ली कीर्त्तितानीलदूर्व्वा हिमा तिक्ता मधुरा तुवरा हरेत् ।कफपित्तास्रवीसर्पतृष्णादाहत्वगामयान्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)
वाचस्पत्यम्
Sanskrit
नीलदूर्वा स्त्री कर्म० हरिद्वर्णदूर्वायां राजनि०