नीलः (nIlaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiनीलः
- नील्+अच्
गहरा नीला या काला रंग
नीलः
- नील्+अच्
नीलमणि
नीलः
- नील्+अच्
"गूलर का पेड़, बड़ का पेड़"
नीलः
- नील्+अच्
राम की सेना में एक वानर मुख्य
नीलः
- नील्+अच्
नीलगिरि पर्वत की एक मुख्य शृंखला
Wordnet
Sanskrit नीलः
राज्ञः अजमीढस्य पुत्रः।
"नीलन्याः गर्भात् नीलः जातः।"
नीलः
नागविशेषः।
"नीलस्य वर्णनं पुराणेषु प्राप्यते।"
नीलः
राक्षसविशेषः यः विभीषणस्य मन्त्री आसीत्।
"नीलः माली इति नाम्नः राक्षसस्य पुत्रः आसीत्।"
नीलः
रामस्य सेनायां वर्तमानः एकः वानरः येन नलेन सह सागरे सेतुः निर्मितः।
"नलः नीलः च यां शिलां अस्पृशत् सा शिला जले अप्लवत्।"
नीलः, नीला, नीलम्, नीलवर्णः, नीलवर्णा, नीलवर्णम्
वर्णविशेषः, नभसः वर्णः इव वर्णः।
"निसर्गचित्रं आलिखति चित्रकारः आकाशं नीलेन वर्णेन वर्णयितुं व्यस्मरत्।"
शब्दकल्पद्रुमः
Sanskritनीलः, पर्व्वतविशेषः । स तु इलावृतस्योत्तरतोरम्यकवर्षस्य सीमापर्व्वतः । प्रागायत उभयतःक्षीरोदावधि द्बिसहस्रयोजनपृथुः । अयुत-योजनोत्सेधः । इति श्रीभागवते ५ स्कन्धे१६ अध्यायः ॥
(तथाच विष्णुपुराणे । २ । २ । १० ।“नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्व्वताः ।लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथापरे ॥
”“लक्षप्रमाणौ द्वौ प्राक्पश्चिमतो दैर्ध्येण निषध-नीलौ । यद्यपि जम्बुद्वीपस्य मण्डलाकारस्यलक्षयोजनप्रमाणत्वात् तन्मध्ये रेखायामेव मुख्य-लक्षप्रमाणत्वं निषधनीलौ तु तन्मध्यरेखातोदक्षिणश्चोत्तरश्च सलक्षयोजनसहस्रान्तरित-त्वादीषन्न्यनौ तथापि स्थूलदृष्ट्या लक्षप्रमाणावि-त्युक्तम् ॥
” इति तट्टीकायां स्वामी ॥
* ॥
(नीलासनवृक्षः । तत्पर्य्यायो यथा, --“नीलः स्यान्नीलपत्रिका ॥
”इति वैद्यकरत्नमालायाम् ॥
)मणिविशेषः । नीलम् इति पारस्यभाषा ॥
अस्याधिष्ठातृदेवता शनिः । यथा, --“माणिक्यमुक्ताफलविद्रुमाणिगारुत्मतं पुष्पकवज्रनीलम् ।गोमेदवैदूर्य्यकमर्कतः स्यूरत्नान्यथोऽज्ञस्य मुदे सुवर्णम् ॥
”इति मुहूर्त्तचिन्तामणिः ॥
तत्पर्य्यायः । सौरिरत्नम् २ नीलाश्मा ३ नीलोत्-पलः ४ तृणग्राही ५ महानीलः ६ सुनी-लकः ७ । अस्य गुणाः । तिक्तत्वम् । उष्ण-त्वम् । कफपित्तानिलापहत्वम् । शरीरे धृतेसौरिर्म्मङ्गलदो भवति । इति राजनिर्घण्टः ॥
*अथ इन्द्रनीलमणेरुत्पत्तिपरीक्षादि यथा, --“तत्रैव सिंहलवधूकरपल्लवाग्र-व्यालूनबाललवनीकुसुमप्रवाले ।देशे पपात दितिजस्य नितान्तकान्तंप्रोत्फुल्लनीरजसमद्युतिनेत्रयुग्मम् ॥
तत्प्रत्ययादुभयशोभनवीचिभासाविस्तारिणी जलनिधेरुपकच्छभूमिः ।प्रोद्भिन्नकेतकवनप्रतिबद्धलेखासान्द्रेन्द्रनीलमणिरत्नवती विभाति ॥
तत्रासिताब्जहलभृद्धसनासिभृङ्ग-शार्ङ्गायुधाभहरकण्ठकलायपुष्पैः ।शुक्लेतरैश्च कुसुमैर्गिरिकर्णिकाया-स्तस्मिन् भवन्ति मणयः सदृशावभासः ॥
अन्ये प्रसन्नपयसः पयसां निधातु-रम्बुत्विषः शिखिगलप्रतिमास्तथान्ये ।नीलीरसप्रभववुद्वुदभाश्च केचित्केचित्तथा समदकोकिलकण्ठभासः ॥
एकप्रकारा विस्पष्टवर्णशोभावभासिनः ।जायन्ते मणयस्तस्मिन् इन्द्रनीला महागुणाः ॥
मृत्पाषाणशिलावज्रकर्कराभाससंयुताः ।अब्भ्रिकापटलच्छायावर्णदोषैश्च दूषिताः ॥
तत एव हि जायन्ते मणयस्तत्र भूरयः ।शास्त्रसंबोधितधियस्तान् प्रशंसन्ति सूरयः ॥
धार्य्यमाणस्य ये दृष्टाः पद्मरागमणेर्गुणाः ।धारणादिन्द्रनीलस्य तानेवाप्नोति मानबः ॥
यथा च पद्मरागाणां जातुकर्त्तृभयं भवेत् ।इन्द्रनीलेष्वपि तथा द्रष्टव्यमविशेषतः ॥
परीक्षाप्रत्ययैर्यैश्च पद्मरागः परीक्ष्यते ।त एव प्रत्यया दृष्टा इन्द्रनीलमणेरपि ॥
यावन्तञ्च क्रमेदग्निं पद्मरागः पयोगतः ।इन्द्रनीलमणिस्तस्मात् क्रमेत सुमहत्तरम् ॥
तथापि न परीक्षार्थं गुणानामतिवृद्धये ।मणिरग्नौ समाधेयः कथञ्चिदपि कश्चन ॥
अग्निमात्रापरिज्ञाने दाहदोषैश्च दूषितः ।सोऽनर्थाय भवेद्भर्त्तुः कर्त्तुः कारयितुस्तथा ॥
काचोत्पलकरवीरस्फटिकाद्या इह बुधैः सवै-दूर्य्याः ।कथिता विजातय इमे सदृशां मणिनेन्द्रनीलेन ॥
गुरुभावकठिनभावावेतेषां नित्यमेव विज्ञेयौ ।काचाद्यथावदुत्तरविवर्द्धमानौ विशेषेण ॥
इन्द्रनीलो यदा कश्चित् विभर्त्त्याताम्रवर्णताम् ।रक्षणीयौ तथा ताम्रौ करवीरोत्पलावुभौ ।यस्य मध्यगता भाति नीलस्येन्द्रायुधप्रभा ॥
तदिन्द्रनीलमित्याहुर्म्महार्घं भुवि दुर्लभम् ॥
यस्तु वर्णस्य भूयस्त्वात् क्षीरे शतगुणे स्थितः ।नीलतां तन्नयेत् सर्व्वं महानीलः स उच्यते ॥
यत् पद्मरागस्य महागुणस्यमूल्यं भवेन्माससमुत्थितस्य ।तदिन्द्रनीलस्य महागुणस्यसवर्णसंख्यातुलितस्य मूल्यम् ॥
”इति गरुडपुराणे इन्द्रनीलपरीक्षा ॥
* ॥
वानरान्तरः । इति मेदिनी । ने, २९ ॥
नील-वर्णः । नीलौषधिः । निधिविशेषः । लाञ्छनम् ।इति हेमचन्द्रः ॥
मञ्जुघोषः । इति त्रिकाण्ड-शेषः ॥
वटवृक्षः । इति राजनिर्घण्टः ॥
नील-वर्णयुक्ते, त्रि । इत्यमरः ॥
(यथा, देवीभाग-वते । ५ । ८ । ३८ ।“नीलं सत्त्वगुणोपेतं प्रादुरास महाद्युति ॥
”)नीलवर्णवस्तूनि यथा । शुकः १ शैवालम् २दूर्व्वा ३ बालतृणम् ४ बुधः ५ वंशाङ्कुरःमरकतः ७ इन्द्रनीलमणिः ८ सूर्य्याश्वादीनि ९इति कविकल्पलता ॥
अजमीढस्य राज्ञःनीलिन्यां पत्न्यां जातः पुत्त्रः । यथा । “अजमी-ढस्य नीलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्त्रो-ऽभवत् ।” इति विष्णुपुराणे ४ अंशे १९ अध्यायः ॥
(माहिष्मतीवासी नृपतिविशेषः । अग्निस्तुअस्य दुहितरमुपसंगृह्य वरेणैनं छन्दयामासपरनृपादभयञ्चास्मै दत्तवान् । गच्छति कालेपाण्डवः सहदेवस्तु दिग्विजयक्रमेण अस्य नगर-मवरोध्य वैश्वानरात् महद्भयमवाप्तवान् । ततोहव्यवाहनं स्तुत्वा शान्तिमलभत । एतद्बिवरणंमहाभारते । २ । ३१ । अध्याये विस्तरतो द्रष्ट-व्यम् ॥
* ॥
नागविशेषः । यथा, महाभारते ।१ । ३५ । ७ ।“नीलानीलौ तथा नागौ कल्माषशवलौ तथा ॥
”
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
