| YouTube Channel

नीरुक् (nIruk)

 
शब्दकल्पद्रुमः
Sanskrit
नीरुक्, [ज्] पुं
स्त्री,
(निर् + रुज + भावेक्विप् ।) रोगाभावः तत्पर्य्यायः स्वास्थ्यम्२ वार्त्तम् अनामयम् आरोग्यम् ।(रुज् + भावे क्विप् निर्नास्ति रुक् रोगो यस्य ।)रोगशून्ये, त्रि तत्पर्य्यायः पटुः उल्लाघः३ वार्त्तः कल्यः इति हेमचन्द्रः १३८
(यथा, सुश्रुते चिकित्सितस्थाने २५ अध्याये ।“एतेन पाल्या वर्द्धन्ते नीरुजो निरुपद्रवाः
”)