| YouTube Channel

नीराजना (nIrAjanA)

 
Apte Hindi
Hindi
नीराजना
स्त्री*
- "निर्+राज्+ल्युट्, स्त्रियाँ टाप्"
"शास्त्रास्त्रों को चमकाना, एक प्रकार का सैनिक धार्मिक पर्व जिसको राजा या सेनापति अश्विन मास में संग्राम क्षेत्र में जाने से पूर्व मनाते थे"
नीराजना
स्त्री*
- "निर्+राज्+ल्युट्, स्त्रियाँ टाप्"
अर्चना के रूप में देवमूर्ति के सामने प्रज्वलित दीपक घुमाना
Shabdartha Kaustubha
Kannada
नीराजना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದೃಷ್ಟಿ ದೋಷ ಪರಿಹಾರಕ್ಕಾಗಿ ಮಾಡುವ ನೀರಿನ ಆರತಿ / ದೃಷ್ಟಿ ಶಾಂತಿಗಾಗಿ ಬಣ್ಣದ ನೀರಿನಿಂದ ನಿವಾಳಿಸುವುದು
निष्पत्तिः - > निर् + राजृ + णिच् - "युच्" (३-३-१०७)
प्रयोगाः - > चक्रे चक्रनिभचङ्क्रमणच्छलेन नीराजनां जनयतां निजबान्धवानाम्
उल्लेखाः - > नैष० १-१४४
L R Vaidya
English
nIrAjanA {% f. %} 1. Lustration of arms (a military and religious ceremony by kings in the month of Āśvina for purifying the army before taking the field), R.iv.25
2. waving lights before an idol as an act of adoration.
Bopp
Latin
नीराजना f. (fem. praec.) id. RAGH. 4. 25. 17. 12.
शब्दकल्पद्रुमः
Sanskrit
नीराजना,
स्त्री,
(राज दीप्तौ + ल्युट् ।नितरां राजनं यत्र
निर्+ राज् + णिच् + “ण्यासश्रन्थो युच् ।” ।३ १०७ इति भावे युच् ।) वाहनायुधादे-र्निःशेषेण राजनं यत्र सा नीराजना नीरस्यशान्त्युदकस्य अजनं क्षेपो यत्र सा नीराजनावा इत्यमरटीकायां भरतः
*
तद्बिधानं यथा, --“शरत्काले महाष्टम्यां दुर्गायाः परिपूजनम् ।नीराजनं दशम्यान्तु कुर्य्याद्वै बलवृद्धये
विधिं नीराजनस्य त्वं शृणु पार्थिवसत्तम ! ।कृतेन येन चाश्वानां गजानामपि चेष्टनम्
आश्विने शुक्लपक्षे या तृतीया स्वातियोगिनी ।ऐशान्यां स्वपुरस्यैव गृह्णीयात् स्थानमुत्तमम्
नीराजनं ततः कुर्य्यात् संप्राप्ते दिवसेऽष्टमे ।नीराजनस्य कालस्तु पूर्व्वमुक्तस्तु ते मया
विधानमत्र शृणु मे कृतकृत्यो भविष्यसि ।एकं हयं महासत्वं सुमनोहरमेव वा
पूजयेत् सप्तदिवसान् गन्धपुष्पादिकांशुभिः ।तृतीयादौ पूजयित्वा नयेत्तं यज्ञमण्डपम्
चेष्टां निरूपयंस्तस्य जानीयाच्च शुभाशुभम् ।परराष्ट्रविमर्द्दः स्यादश्वो यदि पलायते
म्रियते राजपुत्त्रस्तु यदि चाश्रूणि मुञ्चति ।नीयमानो गच्छेच्चेन्महिषीमरणं तदा
तथैव मुखनासाक्षिशब्दं कुर्य्याद्धयो यदि ।यत्काष्ठाभिमुखः कुर्य्यात्तत्काष्ठायां जयेद्रिपून्
उत्क्षिप्य दक्षिणाग्रन्तु पदमश्वो भवेत् पुरा ।तदा जयेत् समस्तांश्च नृपतिर्व्विजयेद्रिपून्
प्रातर्नीराजनं कुर्य्याद्दशम्यां नृपसत्तम ! ।तदप्राप्तौ तु द्वादश्यां तस्यामेव समाचरेत्
कार्त्तिके पञ्चदश्यां वा तत्राभावे तु पार्थिवः ।ऐशान्यां स्वपुरस्योच्चैर्हस्तमानेन षोडश
दशहस्तन्तु विपुलं कुर्य्याद्वै तत्र तोरणम् ।द्वात्रिंशद्धस्तमात्रन्तु हस्तषोडशविस्तृतम्
यज्ञार्थं मण्डपं कुर्य्यात् मध्ये वेदिं विनिर्णयेत् ।वेद्याश्चोत्तरतश्चाश्ववेदिं कुर्य्यादनुत्तमाम्
यत्र संस्थाप्य चाश्वश्च पूजितव्यः पुरोहितैः ।सज्जडिम्बरशाखानामर्ज्जुनस्याथवा नृपः
मत्स्वशङ्खाङ्कितैश्चक्रैर्ध्वजैश्चापि विभूषयेत् ।तोरणं कनकै रत्नैस्तथा नानाविधैर्म्मतैः
भल्लातकं शालिकुष्ठं सिद्धार्थं सैन्धवस्य तु ।कण्ठदेशे निबध्नीयात् पुष्टिशान्त्यर्थमेव
वैष्णवं मण्डलं कृत्वा दिक्पालांश्च नवग्रहान् ।विश्वेदेवांस्तु मन्त्रेण विष्णुमुख्यान् प्रपूजयेत्
आज्यैस्तिलैश्च पुष्पैश्च मिश्रीकृत्य पुरोहितः ।रवेस्तु वरुणस्यैव प्रजेशस्य तथैव
पुरुहूतस्य विष्णोश्च होमं सप्ताहमाचरेत् ।एकैकस्य सहस्रं वा अष्टोत्तरशतञ्च वा
कुर्य्यात्तु प्रत्यहं होमं चतुर्व्वर्गस्य सिद्धये ।समिधश्चापि होतव्याः पलाशं खदिरं तथा
औडुम्बरञ्च काश्मर्य्यमश्वत्थञ्च पुरोहितः ।सौवर्णान् राजतान् वापि मार्त्तिकान् वा यथे-च्छया
कुर्य्यात्तु कलसानष्टौ फलपल्लवयोजितान् ।क्षिपेत्तेषु घटेष्वेव समङ्गां हरितालकम्
चन्दनञ्च तथा कुष्ठं प्रियङ्गुञ्च मनःशिलाम् ।अञ्जनञ्च हरिद्राञ्च श्वेतां दन्तीं तथैव
भल्लातकं पूर्णकोषं सहदेवां शतावरीम् ।वचां सनागकुसुमां सोमराजीं स्वगुप्तिकाम्
तुत्थञ्च करवीरञ्च तुलसीदलमेव ।एतानि निःक्षिपेन्मध्ये कलसानां पुरोहितः
कनकैरम्बुजैर्यज्ञदारुभिः स्रुक्स्रुवौ तथा ।कर्त्तव्यौ शान्तिकामेन नीराजनविधौ नृप !
एवं सप्ताहपर्य्यन्तं पूजाभिर्हवनैस्तथा ।पूर्व्वोक्तान् पूजयित्वा तु नृपः सप्ताहमाचरेत्
यावन्नीराजनं कुर्य्यात्तावद्राजा वसेद्गृहे ।रात्रौ यज्ञभूमौ तु निवसेच्छान्तिमिच्छुकः
नारोहयेत्तु तुरगं गजं वा तत्र पार्थिवः ।यावत् सप्ताहपर्य्यन्तं यानेनान्येन वै व्रजेत्
भक्ष्यैर्नानाविधैश्चैव मधुपायसयावकैः ।मोदकैर्व्वा बलिं कुर्य्याच्चान्नव्यञ्जनसम्भवैः
पूर्व्वोक्तानान्तु देवानां सप्ताहं यावदुत्तमम् ।सप्तमेऽह्नि तु रेमन्तं पूजयेत्तोरणान्तरे
सूर्य्यपुत्त्रं महाबाहुं द्विभुजं कवचोज्वलम् ।ज्वलन्तं शुक्लवस्त्रेण केशानुद्ग्रथ्य वाससा
कशां वामकरे बिभ्रद्दक्षिणन्तु करं पुनः ।सखड्गं न्यस्य वल्गायां सितसैन्धवसंस्थितम्
एवंविधन्तु रेमन्तं प्रतिमायां घटेऽपि वा ।सूर्य्यपूजाविधानेन पूजयेत्तोरणान्तरे
*
पूजयित्वा तु रेमन्तं द्विरदं तुरगन्तथा ।आहताम्बरसंवीतं स्रक्चन्दनसमन्विलम्
सुवर्णाबद्धनिस्त्रिंशं विचित्रकवचादिभिः ।युक्तन्तु होमकुण्डस्य ऐशान्यामश्ववेदिकाम्
पूर्व्व कृत्वा नयेदश्वगजपालः पृथक् पृथक् ।नीयमाने गजे चाश्वे पूर्व्वोक्तञ्च निमित्तकम् ।यत्नाद्वीक्षेत नृपतिः फलं चैवावधारयेत् ।होमकुण्डस्योत्तरस्यां वैयाघ्रे चर्म्मणि स्यितः
दैवविदा चाश्वविदा सहितो वीक्ष्य सैन्धवम् ।नीताय तुरगायाशु भक्तपिडीं सुगन्धिनीम्
दद्यात् पुरोहितस्तत्र संमन्त्र्य शान्तिमन्त्रकैः ।तत्क्षणाद्यदि जिघ्रेत्तदश्नीयाद्बा हयः
तदा स्यात् सर्व्वकल्याणं विपरीतमतोऽन्यथा
शाखामौडम्बरीमाभ्रीं सकुशाञ्च घटोदके ।आप्लाव्याप्लाव्य तुरगान् गजान् भूपञ्च सैनिकान् ।रथांश्च संस्पृशेन्मन्त्रैः शान्तिकैः पौष्टिकैस्तथा
सेचयन् सहितैर्विप्रैश्चतुरङ्गं पुरोहितः ।दिक्पालानां ग्रहाणाञ्च मन्त्रैश्चैव सवैष्णवैः
बहुधा चाभिषिच्याथ ततः सौवर्णदर्पणम् ।वीक्षयित्वा नृपञ्चर्त्विक् ततो मन्त्रिणमेव
राजपुत्त्रांस्तथामात्यानन्यानपि पौरवान् ।कल्पयन् द्बिजशार्द्दूलः सर्व्वानेव तु दर्शयेत्
*
चतुरङ्गबलस्यापि कृत्वैवं शान्तिपौष्टिके ।मृण्मयं शात्रवं कृत्वा ह्यभिचारकमन्त्रकैः
हृदि शूलेन विद्ध्वा तं शिरः खड्गेन छेदयेत्
आचार्य्यः कविकां पश्चादभिमन्त्र्य हयाय वै
ऐन्द्रैः प्राभाकरैर्म्मन्त्रैर्दव्याद्वक्त्रे स्वयं पुनः ।तमनेन तु मन्त्रेण समारुह्य नृपस्तदा
गच्छेदुत्तरपूर्व्वान्तु दिशं सर्व्वबलैर्युतः ।ऋत्विक्पुरोहिताचार्य्याः सर्व्व एव नृपन्तथा
अनुगच्छेयुरव्यग्रा निमित्तानि व्यलोकयन् ।वादित्रघौषैस्तुमुलैरातपत्रैर्वृतस्तथा
गच्छेन्नीराजने राजा दारयन्निव मेदिनीम् ।मणिविद्रुममुक्तादस्वर्णरत्नैरलङ्कुतः ।क्रोशमात्रं ततो गत्वा पूर्व्वद्बारेण पार्थिवः
स्वपुरं प्रविशेद्विप्रैर्यज्ञं यायात् पुरोहितः ।तत्र गत्वा दक्षिणान्तु हिरण्यं गां तथा तिलम् ।दत्वा पश्चाद्द्विजेभ्यस्तु दद्याद्दानानि शक्तितः
एवं नीराजनं कृत्वा बलानाञ्च महीक्षितः ।प्रेत्येह स्थितां लक्ष्मीं नृपतिः प्राप्नुयात्तथा
त्वमश्वामृतसंजात सागरोद्भव सैन्धव ।येन सत्येन वहसे शक्रं तेनेह मां वह
येन सत्येन रेमन्तं येन सत्येन भास्करम् ।वहसं तेन सत्येन विजयाय वहस्व माम्
आभ्यान्तु नृपमन्त्राभ्यामश्वारोहणमाचरेत् ।आरुह्याग्रे महिष्यास्तु शुद्धान्ते लम्बयेत्ततः
महिषी ततो भूपं पर्य्यङ्कोपरिसंस्थितम् ।दूर्व्वाक्षतः ससिद्धार्थैः स्त्रीभिः सह समर्च्चयेत्
कृते तु भूमिग्रहणे तृतीयायां नीराजने ।सूतकं यदि जायेत तन्न दुष्यति केवलम्
सूतके मृतके वापि पार्थिवस्तु यथा तथा ।बलं नीराजनं कुर्य्यात्तन्माचञ्च विशेषतः
सद्यःशौचं भवेद्राज्ञां व्यवहारविलोकने ।तथा विवासिते यज्ञे परराष्ट्रविमर्द्दने ।अयन्ते कथितो राजन्नीराजनक्रमो मया
”इति कालिकापुराणे ८६ अध्यायः
*
(निर् + राज + भावे ल्युट् ।) निर्म्मञ्छनम् ।आरति इति भाषा
तत्र पञ्चनीराजनं यथा, “पञ्चनीराजनं कुर्य्यात् प्रथमं दीपमालया ।द्बितीयं सोदकाब्जेन तृतीयं धौतवाससा
चूताश्वत्थादिपत्रैश्च चतुर्थं परिकीर्त्तितम् ।पञ्चमं प्रणिपातेन साष्टाङ्गेन यथाविधि
”इति कालोत्तरतन्त्रम्
तस्य वर्त्तिकादिप्रमाणं यथा, --“कुङ्कुमागुरुकर्पूरघृतचन्दबनिर्म्मिताः ।वर्त्तिकाः सप्त वा पञ्च कृत्वा वन्दापनीयकम्
कुर्य्यात् सप्तप्रदीपेन शङ्खघण्टादिवाद्यकैः ।हरेः पञ्चप्रदीपेन वहुशो भक्तितत्परः
”इति पाद्मोत्तरखण्डे १०७ अध्यायः
*
अथ नीराजनमाहात्म्यम् ।स्कान्दे ब्रह्मनारदसंवादे ।“वहुवर्त्तिसमायुक्तं ज्वलन्तं केशवोपरि ।कुर्य्यादारात्रिकं यस्तु कल्पकोटिं वसेद्दिवि
कर्पूरेण तु यः कुर्य्याद्भक्त्या केशवमूर्द्धनि ।आरात्रिकं मुनिश्रेष्ठ ! प्रविशेद्बिष्णुमव्ययम्
”तदेवान्यत्र ।“दीप्तिमन्तं सकर्पूरं करोत्यारात्रिकं नृप ! ।कृष्णस्य वसते लोके सप्तकल्पानि मानवः
”तत्रैव शिवोमासंवादे ।“मन्त्रहीनं क्रियाहीनं यत् कृतं पूजनं हरेः ।सर्व्वं सम्पूर्णतामेति कृते नीराजने शिवे !
”हरिभक्तिसुधोदये ।“कृत्वा नीरत्जनं विष्णोर्दीपावल्या सुदृश्यया ।तमोविकारं जयति जिते तस्मिंश्च को भवः
”अन्यत्र ।“कोटयो ब्रह्महत्यानामगम्यागमकोटयः ।दहत्यालोकमात्रेण विष्णोः सारात्रिकं मुखम्
यच्च दीपस्य माहात्म्यं पूर्व्वं लिखितमस्ति तत् ।द्रष्टव्यं सर्व्वमत्रापि प्रायेणाभेदतोऽनयोः
अतः सादरमुत्थाय महानीराजनन्त्विदम् ।द्रष्टव्यं दीपवत् सर्व्वैर्व्वन्द्यमारात्रिकञ्च यत्
”तदुक्तं श्रीपुलस्त्येन विष्णुधर्म्मे ।“धूपं चारात्रिकं पश्येत् कराभ्याञ्च प्रवन्दते ।कुलकोटिं समुद्धृत्य याति विष्णोः परं पदम्
”मूलागमे ।“नीराजनञ्च यः पश्येत् देवदेवस्य चक्रिणः ।सप्तजन्मनि विप्रः स्यादन्ते परमं पदम्
”इति हरिभक्तिविलासः
अवशिष्टं आरात्रिकशब्दे द्रष्टव्यम्
वाचस्पत्यम्
Sanskrit
नीराजन(ना) निर्--राज--भावे ल्युट् युच् वा रलोपेपूर्वाणो दीर्घः दीपादिना प्रतिमादेरारार्त्तिके यु-जन्तः स्त्री “नीराजनां जनयतां निजबान्धवानाम्”नैष० तत्प्रकारश्च ति० त० देवीपु० उक्तो यथा “यव-प्रिष्टप्रदीपाद्यैश्चूताश्वत्थादिपल्लवैः औषधीभिश्च मेध्या-भिः सर्ववीजैर्यवादिभिः नवम्यां पर्वकाले तु यात्राकालेविशेषतः यः कुर्य्यात् श्रद्धया वीर! देव्या नीराजनंनरः शङ्खभेर्य्यादिनिनदैर्जयशब्दश्च पुष्कलैः यावतोदिवसान् वीर! देव्या नीराजनं कृतम् तावत् कल्प-सहस्राणि दुर्गालोके महीयते” “यस्तु कुर्य्यात् प्रदीपेनसूर्थ्यलोके महीयते” पर्वकाले उत्सवकाले देव्या इतिस्त्रीत्वमविवक्षितं विष्ण्वादिप्रतिमायां तथाचारात्” रघु० ।पञ्च नीराजनानि यथा “पञ्चनीराजनं कुर्य्यात् प्रथमंदीपमालया द्वितीयं सोदकाब्जेन तृतीयं धौतवा-ससा चूताश्वत्थादिपत्रैश्च चतुर्थं परिकीर्तितम् पञ्चमंप्रणिपातेन साष्टाङ्गेन यथाविधि” कालोत्तरतन्त्रम् तस्यवर्त्तिकादिप्रमाणं यथा “कुङ्कुमागुरुकर्पूरघृतचन्दननि-र्मिताः वर्त्तिकाः सप्त वा पञ्च कृत्वा वन्दापनीयकम् ।कुर्य्यात् सप्तप्रदीपेन शङ्खघण्टादिवाद्यकैः हरेः पञ्च-प्रदीपेन बहुशो भक्तितत्षरः” पद्मीत्तरखण्डे १०७ अ० ।राज्ञां शान्तिभेदे तद्विधानादि अग्निपु० २६७ अ० यथा“नीराजनविधिं वक्ष्ये ऐशान्यां मन्दिरे चरेत् तोरण-त्रितयं तत्र गृहे देवान् यजेत् सदा चित्रां त्यक्त्वा यदास्वातिं सविता प्रतिपद्यते ततः प्रभृति कर्त्तव्यं यावत्स्वातौ रविः स्थितः ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवा-नलानिलौ विनायकः कुमारश्च वरुणी धनदो यमः ।विश्वे देवा वैश्रवणो गजाश्चाष्टौ तान् यजेत् कु-मुदैरावणौ पद्मः पुष्पदन्तश्च वामनः सुप्रतीकोऽञ्जनोनीलः पूजा कार्य्या गृहादिके पुरोधा जुहुयादग्नौसमित्सिद्धार्थकं तिलाः कुम्भा अष्टौ पूजिताश्च तैःस्नाप्याश्च गजोत्तमाः अश्वाः स्वाप्याः ददेत् पिण्डान्ततो हि प्रथमं नजान् निष्कामयेत्तोरणैस्तु गोपु-रादि लङ्घयेत् विक्रमेयुस्ततः सर्वे राजलिङ्गंगृहे यजेत् वारुणे वरुणं प्रार्च्य रात्रौ भूतवलिंददेत् विशाखायां गते सूर्य्ये आश्रमे निवसेन्नृपः ।अलङ्कुर्य्यात् दिने तस्मिन् वाहनन्तु विशेषतः पूजिताराजलिङ्गाश्च कर्त्तव्या नरहस्तगाः हस्तिनं तुरगंछत्रं खड्गं चापञ्च दुन्दुभिम् ध्वजं पताकां धर्मज्ञःकालज्ञस्त्वभिमन्त्रयेत् अभिमन्त्र्य ततः सर्वान् कुर्य्यात्कुञ्जरधूर्गतान् कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ मन्त्रितांश्च समारुह्य तोरणेन विनिर्गमेत् ।निष्कम्य नागमारुह्य तोरणेनाथ निर्गमेत् बलिंविभज्य विधिवद्राजा कुञ्जरधूर्गतः उल्मूकानान्दुनिचयमादीपितदिगन्तरम् राजा प्रदक्षिणं कुर्य्यात्-त्रीन् वारान् सुसमाहितः चतुरङ्गवलोपेतः सर्वसैन्येननादयन् एवं कृत्वा गृहं गच्छेद्विसर्जितजलाञ्जलिः ।शान्तिर्न्नीराजनाख्येयं वृद्धये रिपुमर्दनी” ।अन्योऽपि हेमाद्रिव्रतखण्डे विष्णुधर्मोत्तरोक्तो दृश्यः ।“भगवति जलधरपक्ष्मक्षपाकरार्केक्षणे कमलनाभे उन्मी-लयति तुरङ्गमकरिनरनीराजनं कुर्य्यात् द्वादश्या-मष्टम्यां कार्त्तिकशुक्लस्य पञ्चदश्यां वा आश्वयुजे वाकुर्य्यान्नीराजनसञ्ज्ञितां शान्तिम् नगरोत्तरपूर्वादिप्रशस्तभूमौ प्रशस्तदारुमयम् षोडशहस्तोच्छ्रायं दश-विपुलं तोरणं कार्य्यम् सर्जोदुम्बरशाखाककुभवयंशान्तिसद्म कुशबहुलम् यंशविनिर्मितमत्स्यध्वजचक्रा-लङ्कृतद्वारम् प्रतिसरणे तुरगाणां भल्लातकशालिकुष्ठ-सिद्धार्थान् कण्ठेषु निगध्नीयात् पुष्ट्यर्थं शान्तिगृह-गानाम् रविवरुणविश्वदेवप्रजेशपुरुहूतवैष्णवैर्मन्त्रैः ।सप्ताहं शान्तिगृहे कुर्य्याच्छान्तिं तुरङ्गाणाम् अभ्य-र्चिता परुषं वक्तव्या नापि ताडनीयास्ते पुण्या-हशङ्खतूर्य्यध्वनिगीतरवैर्विमुक्तमयाः प्राप्तेऽष्टमेऽह्निकर्य्यादुदङ्मुखं तोरणस्य दक्षिणतः कुशचीरावृत-माश्रममग्निं पुरतोऽस्य वेद्यां चन्दनकुष्ठसमङ्गा-हरितालमनःशिलाप्रियङ्गुवचाः दन्त्यमृताञ्जनरजनी-सुवर्णपुष्पाग्निमन्थाश्च श्वेतामपूर्णकोशां कटम्भरात्रा-यमाणसहदेवीः नागकुसुममात्मगुप्तां शतावरीं सोम-राजीं कलशेष्वेतान् कृत्वा सम्भारानुपहरेद्बलिंसम्यक् भक्ष्यैर्नानाकारैर्मधुपायसयावकप्रचुरैः खदिर-पलाशोदुम्बरकाश्मर्यश्वत्थनिर्मिताः समिधः स्रुक्कनका-द्रजताद्वा कर्त्तव्या भूतिकामेन पूर्वाभिमुखः श्रीमान्वैयाघ्रे चर्मणि स्थितो राजा तिष्ठेदनलसमीपे तुरन-भिषग्दैववित्सहितः यात्रायां यदभिहितं ग्रहयज्ञ-विधौ महेन्द्रकेतौ वेदीपुरोहितानललक्षणमस्तिं-स्तदवधार्यम् लक्षणयुक्तं तुरगं द्विरदवरं चैव दीक्षितंस्नातम् अहतसिताम्बरगन्धस्रग्धूपाभ्यर्चितं कृत्वा ।आश्रमतोरणमूलं समुपनयेत्मान्त्वयञ्छनैर्वाचा वादित्र-शङ्खपुण्याहनिःस्वनापूरितदिगन्तम् यद्यानीतस्तिष्ठेद्दक्षिणचरणं हयः समुत्क्षिप्य जयति तदा नरेन्द्रशत्रूनचिराद्विना यत्नात् त्रस्यन्नेष्टो राज्ञः परिशेषंचेष्टितं द्विपहयानाम् यात्रायां व्याख्यातं तदिहविचिन्त्यं यथायुक्ति पिण्डममिनन्त्र्य दद्यात् पुरो-हितो वाजिने यदि जिघ्रेत् अश्नीयाद्वा जयकृ-द्विपरीतोऽतोऽन्यथाऽभिहितः कलशोदकेषु शाखा-माप्लाव्यौदुम्बरीं स्पृशेत्तुरनान् शान्तिकपौष्टिकमन्त्रै-रेवं सेनां सनृपनागाम् शान्तिं राष्ट्रविवृद्ध्यै कृत्वाभूयोऽभिचारकैर्मन्त्रैः मृण्मयमरिं विभिन्द्याच्छूले-नोरःस्थले विप्रः खलिनं हयाय दद्यादभिमन्त्र्यपुरोहितस्ततो राजा आरुह्योदक्पूर्वां यायान्नीरा-जतः मबलः मृदङ्गशङ्खध्वनिहृष्टकुञ्जरस्रवन्मदामोद-सुगन्धिमारुतः शिरोपणिव्रातचलत्प्रभाचयैर्ज्वलन् वि-वस्रानिव तोयदात्यये हंसपङ्क्तिभिरितस्ततोऽद्रिराट्सम्पतद्भिरिव शुक्लचामरैः मृष्टगन्धपवनानुवाहि-भिर्धूयमानरुचिरस्रगम्बरः नैकवर्णमणिवज्रभूषितै-र्भूषितो मुकुटकुण्डलाङ्गदैः भूरिरत्नकिरणौघरञ्जितःशक्रकार्मुकरुचं समुद्वहन् उत्पतद्भिरिव खं तुरङ्गमै-र्दारयद्भिरिव दन्तिभिर्धराम् निर्जितारिभिरिवामरै-र्नरैः शक्रवत्परिवृतो व्रजेन्नृपः सवजृमुक्ताफलभूषणोऽ-थ वा सितम्रगुष्णीषबिलेपनाम्बरः धृतातपत्रो गज-पृष्ठमाश्रितो घनोपरीवेन्दुतले भृगोः सुतः सम्प्रसृष्ट-नरवाजिकुञ्जरं निर्मलप्रहरणांशुभासुरम् निर्विकार-मरिपक्षगीषणं यस्य सैन्यमचिरात्स गां जयेत्!” वृ० सं०४४ अ० “स्नाने धूपे नैवेद्ये दीपे वस्त्रे भूषणे ।घण्टानादं प्रकुर्वीत तथा नीराजनेऽपि च” विधान-पाजातधृतवाक्यम्