| YouTube Channel

नीरन्ध्रं (nIrandhraM)

 
शब्दकल्पद्रुमः
Sanskrit
नीरन्ध्रं, त्रि, (निर्नास्ति रन्ध्रं छिद्रं यस्मिन् ।)घनम् इति हेमचन्द्रः ८३
(यथा, माघे ।“नीरन्ध्रद्रुमशिशिरां भुवं व्रजन्तीःसाशङ्कं मुहुरिव कौतुकात् करैस्ताः ।पस्पर्श क्षणमलिनाकुलीकृतानांशाखानामतुहिनरश्मिरन्तरालैः
”)छिद्ररहितम् यथा, --“श्रीमन्नाथ तवार्जितोर्जितयशःसंशुद्धमुक्तावली-मादायैव विधिर्व्विधित्सुरमलं हारं त्वदीयै-र्गुणैः ।नीरन्ध्रामवलीक्य तामपि ततो नान्तं गुणाना-महोउत्पित्सुर्गगनान्तरे समकिरत्तास्तास्तत-स्तारकाः
”इति कालीदासः