| YouTube Channel

नीरजः (nIrajaH)

 
Wordnet
Sanskrit
Synonyms:
उत्पलम्, नीरजः, कौमुदी
noun
पुष्पविशेषः।
"पुष्पगुच्छे अनेकवर्णकाः नीरजाः सन्ति।"
Synonyms:
उद्रः, जलमार्जारः, जलनकुलः, पानीयनकुलः, नीरजः, नीराखुः
noun
निर्मलजलस्थ मांसाहारी सस्तनजन्तुः।
"उद्रस्य लोमाः कृष्णवर्णीयाः सन्ति।"
Synonyms:
मौक्तिकम्, मुक्ता, मौक्तिका, मुक्ताफलम्, शुक्तिजम्, शौक्तेयम्, सिन्धुजातः, शुक्तिबीजम्, मुक्तिका, तौतिकम्, मञ्जरम्, मञ्जरी, मञ्जरिः, इन्दुरत्नम्, नीरजः, मुक्तामणिः
noun
समुद्रस्थशुक्तेः उदरे उद्भवः ओजयुक्तः रत्नविशेषः।
"शैले शैले माणिक्यं मौक्तिकं गजे गजे साधवो हि सर्वत्र चन्दनं वने वने।"
शब्दकल्पद्रुमः
Sanskrit
नीरजः,
पुं,
(नीरे जायते इति जन + डः ।)उद्रजन्तुः इति शब्दरत्नावली
उशीरी ।इति राजनिर्घण्टः
(महादेवः यथा, महा-भारते १३ १७ १४६ ।“उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः
”)
नीरजः, [स्] त्रि, (निर्नास्ति रजो धूलिःकुसुमपरागादिर्वा यत्र ।) निर्धूलिदेशपूष्यादि ।(यथा, महाभारते १३ ८१ २० ।“सर्व्वा मणिमयी भूमिः सर्व्वकाञ्चनवालुका ।सर्व्वर्त्तुसुखसंस्पर्शा निष्पङ्का नीरजाः शुभा
”)अरजस्कायाम् स्त्री