| YouTube Channel

नीतिसारः (nItisAraH)

 
शब्दकल्पद्रुमः
Sanskrit
नीतिसारः,
पुं,
(नीतिरेव सारो यस्येति ।)इन्द्रं प्रति बृहस्पत्युक्तनीतिशास्त्रविशेषः अयंचाणक्यसंग्रहमूलम् गरुडपुराणे अष्टास्व-ध्यायेष्वस्ति बाहुल्यभिया तत् समुदायं नलिखित्वा अष्टानामध्यायानां प्राथमिकाष्टश्लोकालिख्यन्ते यथा, --“सद्भिः सङ्गं प्रकुर्व्वीत सिद्धिकामः सदा नरः ।नासद्भिरिह लोकाय परलोकाय वा हितम्
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।आत्मानं सततं रक्षेद्दारैरपि धनैरपि
यो ध्रुवाणि परित्यज्य अध्रुवाणि सेवते ।ध्रुवाणि तस्य नश्यन्ति अध्रवं नष्टमेव
राज्यं पालयते नित्यं सत्यधर्म्मपरायणः ।निर्ज्जित्य परसैन्यानि क्षितिं धर्म्मेण पालयेत्
भृत्या बहुविधा ज्ञेया उत्तमाधममध्यमाः ।नियोक्तव्या यथार्थेषु त्रिविधेष्वेव कर्म्मसु
गुणवन्तं नियुञ्जीत गुणहीनं विवर्ज्जयेत् ।पण्डिते गुणाः सर्व्वे मूर्खे दोषाश्च केवलम्
कश्चित् कस्यचिन्मित्रं कश्चित् कस्यचिद्रिपुः ।कारणादेव जायन्ते मित्राणि रिपवस्तथा
कुभार्य्याञ्च कुमित्रञ्च कुराजानं कुसौहृदम् ।कुबन्धुञ्च कुदेशञ्च दूरतः परिवर्ज्जयेत्
इति गारुडे